अमरसिंहः उज्जैनी नगरे विक्रमादित्यस्य सभायां नवरत्नेषु एको बभूव। सो ऽमरकोषस्य कर्ता बभूव। अमरसिंहस् (Amarsimha) तस्य अमरकोश इति कोशेनैव विश्वप्रसिद्धोऽस्ति । संस्कृतवाङ्मये ईदानीमपि शब्दकोशस्य अनन्यो ग्रन्थोऽमरकोश इति प्रसिद्धो नामलिङ्गानुशासनम् । कि.श.३७५तमे वर्षे कविर्व्याकरणज्ञः चन्द्रगुप्तविक्रमादित्यस्य आस्थाने बभूव । अस्य जीवनविषये विशेषज्ञानम् उपलब्धं नास्ति । अमरसिंहो मूलतो बौद्धमतानुयायी इति कथयते । तस्य अपूर्वा कृतिर् नामालिङ्गानुशासनमेव सर्वसंस्कृताध्येतॄणां प्रमाणभूतो विश्वकोशः। एतस्मिन् ग्रन्थे त्रयः काण्डा दशसहस्रपदानि व्यवस्थितानि। स्मृतिपथे रक्षणस्य आनुकूल्यार्थे सर्वे श्लोकरूपेण सन्ति । क्रि.श.१७९८तमे वर्षे अमरकोशः प्रथमतस् तमिळुलिप्या रोम् नगरे मुद्रापितः। क्रि.श.१९२७तमे वर्षे कन्नडभाषया अपि चतुर्थवारं प्रकाशिते अस्मिन् ग्रन्थे त्रयः काण्डाः २५सर्गास्सन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अमरसिंहः&oldid=479901" इत्यस्माद् प्रतिप्राप्तम्