अमी हि त्वां सुरसङ्घा...

(अमी हि त्वां - 11.21 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकविंशतितमः(२१) श्लोकः ।

पदच्छेदः सम्पादयतु

अमी हि त्वां सुरसङ्घा विशन्ति केचित् भीताः प्राञ्जलयः गृणन्ति स्वस्ति इति उक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥

अन्वयः सम्पादयतु

अमी हि सुरसङ्घाः त्वां विशन्ति । केचित् भीताः प्राञ्जलयः गृणन्ति । महर्षिसिद्धसङ्घाः स्वस्ति इति उक्त्वा पुष्कलाभिः स्तुतिभिः त्वां स्तुवन्ति ।

शब्दार्थः सम्पादयतु

अमी हि = एते
सुरसङ्घाः = देवसमूहाः
त्वां विशन्ति = त्वां प्रविशन्ति
केचित् भीताः = केचन भयसहिताः
प्राञ्जलयः = मुकुलितहस्ताः
गृणन्ति = स्तुवन्ति
महर्षिसिद्धसङ्घाः = महामुनीनां सिद्धानां च समुदायाः
स्वस्ति इति = स्वस्ति इत्येवम्
उक्त्वा = कथयित्वा
पुष्कलाभिः = समृद्धाभिः
स्तुतिभिः= नुतिभिः
त्वां स्तुवन्ति = त्वां प्रशंसन्ति ।

अर्थः सम्पादयतु

एते हि देवसमूहाः त्वां प्रविशन्ति । केचित् भयसहिताः मुकुलितहस्ताः स्तुवन्ति । बहवो मुनयः सिद्धाश्च स्वस्ति इति उक्त्वा अर्थगर्भैः स्तोत्रैः त्वां प्रशंसन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु