आवृतं ज्ञानमेतेन...
श्लोकः
सम्पादयतु( ( शृणु))
- आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
- कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य नवत्रिंशत्तमः (३९) श्लोकः ।
पदच्छेदः
सम्पादयतुआवृतं ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरेण अनलेन च ॥ ३९ ॥
अन्वयः
सम्पादयतुकौन्तेय ! ज्ञानिनः नित्यवैरिणा कामरूपेण दुष्पूरेण अनलेन च एतेन ज्ञानम् आवृतम् ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
कौन्तेय | कुन्तीसुत |
ज्ञानिनः | विदुषः |
नित्यवैरिणा | नित्यशत्रुणा |
कामरूपेण | इच्छारूपेण |
दुष्पूरेण | पूरयितुमशक्येन |
अनलेन | अग्निना |
एतेन | अनेन |
ज्ञानम् | ज्ञानम् |
आवृतम् | आच्छादितम् । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- ज्ञानिनो नित्यवैरिणा = ज्ञानिनः + नित्यवैरिणा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
- दूष्पूरेणानलेन = दुष्पूरेण + अनलेन - सवर्णदीर्घसन्धिः
समासः
सम्पादयतु- नित्यवैरिणा = नित्यं वैरी, तेन – सुप्समासः
- कामरूपेण = कामेन रूपाणि यस्य सः, तेन - बहुव्रीहिः
तद्धितान्तः
सम्पादयतु- ज्ञानी = ज्ञान + इनि (मतुबर्थे) ज्ञानम् अस्य अस्मिन् वा अस्ति ।
- वैरी = वैर + इनि (मतुबर्थे) वैरम् अस्य अस्मिन् वा अस्ति ।
अर्थः
सम्पादयतुहे अर्जुन ! अयं कामः ज्ञानिनां सर्वदा वैरी । विषयैः पूरयितुम् अशक्यः अयम् अग्निः इव भाति । तादृशः कामः ज्ञानम् आवृत्य वर्तते ।
शाङ्करभाष्यम्
सम्पादयतुकिं पुनस्तदिदंशब्दवाच्यं यत् कामेनावृतमित्युच्यते-आवृतमिति । आवृतमेतेन ज्ञानं ज्ञानिनो नित्यवैरिणा। ज्ञानी हि जानात्यनेनाहमनर्थे प्रयुक्तः पूर्वमेवेति।दुःखी च भवति नित्यमेव, अतोऽसौ ज्ञानिनो नित्यवैरी नतु मूर्खस्य । स हि कामं तृष्णाकाले मित्रमिव पशयंस्तत्कार्ये दुःखे प्राप्ते जानाति तृष्णायाहं दुःखित्वमापादितइति न पूर्वमेव । अतो असौ ज्ञानिन एव नित्यवैरी। किंरूपेण, कामरूपेण काम इच्छैव रूपमस्येति कामरूपस्तेन दिष्पूरेण दुःखेन पूरणमस्येति दुष्पूरस्तेनानलेन नास्यालं पर्याप्तिर्विद्यत इत्यनलस्तेन ।।39।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये आवृतं ज्ञानमेतेन... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च