आहुस्त्वामृषयः सर्वे...


श्लोकः सम्पादयतु

 
गीतोपदेशः
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १३ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रयोदशः (१३) श्लोकः ।

पदच्छेदः सम्पादयतु

आहुः त्वाम् ऋषयः सर्वे देवर्षिः नारदः तथा असितः देवलः व्यासः स्वयं च एव ब्रवीषि मे ॥ १३ ॥

अन्वयः सम्पादयतु

भवान् परं ब्रह्म, परं धाम, परमं पवित्रम् । देवर्षिः नारदः असितः देवलः व्यासः इति सर्वे ऋषयः त्वां शाश्वतं दिव्यं पुरुषम् आदिदेवम् अजं विभुम् आहुः । तथा स्वयं च एव मे ब्रवीषि ।

शब्दार्थः सम्पादयतु

भवान् = त्वम्
परम् = उत्तमम्\
ब्रह्म = ब्रह्म
परम् = उत्कृष्टम्
धाम = स्थानम्
परमम् = श्रेम्
पवित्रम् = पावनम्
इति देवर्षिः नारदः = सुरर्षिः नारदः
असितः = असितनामकः ऋषिः
देवलः = देवल-नामकः ऋषिः
व्यासः = बादरायणः
सर्वे ऋषयः = सकलाः ऋषयः
त्वाम् = त्वाम्
शाश्वतम् = सनातनम्
दिव्यम् = दिवि भवम्
पुरुषम् = पुरुषोत्तमम्
आदिदेवम् = मूलदैवम्
अजम् = जन्मरहितम्
विभुम् = व्यापकम्
आहुः = वदन्ति
तथा = तेन प्रकारेण
स्वयं च एव = त्वमपि
मे = मह्यम्
ब्रवीषि = वदसि ।

अर्थः सम्पादयतु

भवान् उत्तमं ब्रह्म, उत्कृष्टं स्थानम्, परमं पवित्रं च अस्ति । देवर्षिः नारदः, असितः, देवलः, बादरायणः इत्यादयः सर्वेऽपि ऋषयः त्वं सनातनः दिव्यश्च पुरुषः, त्वम् आदिदेवः, त्वं जन्मरहितः, विभुः’ इति वदन्ति यदेतत् त्वम् अपि मां वदसि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु