इच्छाद्वेषसमुत्थेन...

भगवद्गीतायाः श्लोकः ७.२७


श्लोकः सम्पादयतु

 
गीतोपदेशः
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ २७ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः सम्पादयतु

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ २७ ॥

अन्वयः सम्पादयतु

भारत, परन्तप ! सर्गे सर्वभूतानि इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन सम्मोहं यान्ति ।

शब्दार्थः सम्पादयतु

भारत = अर्जुन !
परन्तप = शत्रुतापन !
सर्गे = देहोत्पत्तौ सत्याम्
सर्वभूतानि = भूतजातम्
इच्छाद्वेषसमुत्थेन = रागद्वेषसम्भूतेन
द्वन्द्वमोहेन = द्वन्द्वव्यामोहेन
सम्मोहम् = मूढत्वम्
यान्ति = लभन्ते ।

अर्थः सम्पादयतु

यदा स्थूलदेहस्य उत्पत्तिः भवति तदैव विषयेषु रागः द्वेषश्च सम्भवति । तेन च शीतोष्णसुखदुःखादिद्वन्द्वात् जातेन विवेकनाशेन अहं सुखी अहं दुःखी इति जानन्तः सर्वेऽपि प्राणिनः मोहम् आपन्नाः मां न जानन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=इच्छाद्वेषसमुत्थेन...&oldid=418472" इत्यस्माद् प्रतिप्राप्तम्