ऋत्विजः
ऋत्विजः चत्वारः भवन्ति। क्रमेण होता, अध्वर्यः, उद्गाता, ब्रह्मा च ।
होता - आहृानकर्ता, स हि यज्ञावसरे प्रक्रान्तदेवतानां प्रशंसायां रचितान् मन्त्रान् उच्चारयन् देवताम् आह्वायति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां सङ्ग्रह एव ऋग्वेदः ।
अध्वर्युः विधिवद्यज्ञं सम्पादयति, तत्राऽवश्यकमन्त्रा यजूंषि इति, तत्सङ्ग्रहो यजुर्वेदः ।
उद्गाता उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रानुच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः ।
ब्रह्मा तु यज्ञनिरीक्षकः, कृताकृतावेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञस्तदपेक्षितो मन्त्रराशिः अथर्ववेद इति कथ्यते ।