ऋषिभिर्बहुधा गीतं...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
- ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य चतुर्थः(४) श्लोकः ।
पदच्छेदः
सम्पादयतुऋषिभिः बहुधा गीतं छन्दोभिः विविधैः पृथक् ब्रह्मसूत्रपदैः च एव हेतुमद्भिः विनिश्चितैः ॥ ४ ॥
अन्वयः
सम्पादयतु(तदिदम्) विविधैः छन्दोभिः ऋषिभिः हेतुमद्भिः विनिश्चितैः ब्रह्मसूत्रपदैश्च बहुधा पृथक् गीतम् ।
शब्दार्थः
सम्पादयतु- (तदिदं) विविधैः = नानाविधैः
- छन्दोभिः = वेदैः
- ऋषिभिः = वसिादिभिः मुनिभिः
- हेतुमद्भिः = युक्तियुक्तैः
- ब्रह्मसूत्रपदैश्च = उपनिषद्वाक्यैश्च
- बहुधा = ध्यानधारणादिविषयत्वेन
- पृथक् = पार्थक्येन
- गीतम् = प्रतिपादितम् ।
अर्थः
सम्पादयतुसोऽयं क्षेत्रसम्बन्धी क्षेत्रज्ञसम्बन्धी च विषयः यद्यपि वसिष्ठादिभिः ऋषिभिः, नित्यनैमित्तिककाम्यकर्म-प्रतिपादकैः वेदैः, युक्त्युपेतैः उपक्रमोपसंहारपर्यालोचनेन एकार्थकत्वेन निर्णीतैः ब्रह्मसूत्रैः, उपनिषद्वाक्यैः च ध्यानधारणादिविषयत्वेन पृथक् पृथक् एव निरूपितः, तथापि संक्षेपेण कथयामि ।