इयम् एला भारते अपि वर्धमानः कश्चन सस्यविशेषः । एला अपि सस्यजन्यः आहारपदार्थः । इयम् एला आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । एषा एला आङ्ग्लभाषायां Cardamom इति उच्यते । एषा एला वाणिज्यसस्यम् अपि । काफीवाटिकायाम् उपफलोदयरूपेण एलायाः वर्धनं क्रियते । एलासस्यं गुल्मवर्गस्य वृक्षकः भवति । अयं वृक्षकः आहाराणां गन्धस्य रुचेः च वर्धनार्थम् आवश्यकानि फलानि उत्पादयति । भारतीयपाकशालासु सर्वत्र एला भवति एव प्रायः । सर्वत्र अपि एला मधुरभक्ष्याणां निर्माणे अधिकतया उपयुज्यते । तद्विना वमनस्य निरोधकरूपेण, पित्तशामकरूपेण अपि एला उपयुज्यते ।

हरितवर्णस्य कृष्णवर्णस्य च एला
Cardamom
एलासस्यं, पुष्पं, फलं, बीजं, मूलं चापि
एलासस्यं, पुष्पं, फलं, बीजं, मूलं चापि
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots
(अश्रेणिकृतः) Commelinids
गणः Zingiberales
कुलम् Zingiberaceae
उपविभागीयस्तरः

प्रसिद्धेषु उपकरद्वव्येषु अन्यतमः एला । जलप्रदेशे अयं सम्यक् वर्धते । अस्य रुचिः कटुमिश्रितमधुरः ।

एलायां विधमानाः अंशाःसंपादित करें

अस्मिन् पोटासियं लवणः २%, पिष्टं ३% पीतर‘झ्जकद्रव्यं, म्य़ाङ्गनीसयुक्तं भस्म उडनशीलं तैलं च भवति । तैले cineol, Terpineol, Terpinene, Limonene, sabinene च भवति ।

आयुर्वेदीयरीत्या उपयोगाःसंपादित करें

मूत्रसम्बन्धीरोगशामकःसंपादित करें

एला अनेकेषां मूत्रसम्बन्धिरोगाणां शामकः । एलायाः चूर्णस्य सेवनेन मूत्रविसर्जनसमये क्लेषः अस्ति चेत् अपगच्छति । अस्य चूर्णस्य सेवनेन मूत्रोत्पत्तौ समस्या विद्यते चेत् परिहृता भवति ।

मुखवासकःसंपादित करें

एलायाः हितकरः गन्धः विद्यते । अतः अस्य सेवनं मुखवासनरोगं निवारयति ।

हृदयरोगे परिणामकारीसंपादित करें

एला हृदयस्य उपरि अपि सत्परिणामं जनयति । घृतेन सह एलायाः सेवनेन हृदयरोगा ? शाम्यन्ति इति प्राचीनग्रन्थेषु उल्लेखः लभ्यते । अस्य सेवनं हृदयदौर्भल्यमपि दूरीकरोति ।

जीर्णकरःसंपादित करें

अधिककदलीफलभक्षणेन अजीर्णता अनुभूयते चेत् एलायाः द्वित्रान् बीजान् सम्यक् चर्वित्वा गिलेत् । अनुक्षणं परिहारः लभ्यते ।

इतरे उपयोगाःसंपादित करें

एलायाः वस्रगालितचूर्णं कृत्वा नस्यवत् सेवनेन शिरोवेदना शाम्यति ।एलायाः चूर्णं बादामि-खण्डशर्कशयोः च मिश्रीकृत्य नियमितरुपेण सेव्यते चेत् मस्तिष्कस्य बलवर्धनं भवति स्मरशक्तिः च वर्धते । पित्तकारणेन शिरोभ्रमणम् अनुभूयते चेत् गुडेन सह एलचूर्णं योजयित्वा पानकं निर्मीय पातव्यम् । अयं वमने, विरेचने अपि हितकरः ।

जागरूकतासंपादित करें

एलायां रुक्षगुणः अपि वर्तते । अतः गर्भिव्यः स्त्रियः दीर्घकालम् अस्य सेवनं न कुर्युः । कफजन्यरोगेषु एलायाः प्रयोगः हानिकरः । एलायाः दुष्परिणामनिवारणार्थं ज्येष्ठमधोः चूर्णः सेवनीयः ।

एला०.५-१ ग्रां प्रमाणेन चिकित्सायां, प्रयुज्यते, एलायां बृहत् , लघु इति विधद्वयं भवति । औषधार्थं लघुः एलाएव उपयुन्यते ।

एलानिर्मितानि औषधानिसंपादित करें

१. एलादिचूर्णः
२. एलाद्यरिष्टः
३. एलादिगुटिका
४. एलाद्यमोदकः
५. एलादिक्वाथः

अधिकानि चित्राणिसंपादित करें

बाह्यसम्पर्कतन्तुःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=एला&oldid=395387" इत्यस्माद् प्रतिप्राप्तम्