ओम प्रकाश कोहली
ओम प्रकाश कोहली भारतीयलोकतन्त्रस्य प्रतिनिधिः । सः राज्यसभायाः पूर्वसदस्यः आसीत् । गुजरातराज्यस्य राज्यपालत्वेन १५/७/२०१४ तमे वर्षे सः नियुक्तः । सः भारतीयजनतापक्षस्य सदस्यः अपि आसीत् । सः १९९४ तः २००० पर्यन्तं राज्यसभायाः सदस्यः आसीत् । तेन देहलीविश्वविद्यालयस्य शिक्षकसङ्घस्य (डूटा), अखिलभारतीयविद्यार्थीपरिषदः अपि अध्यक्षपदं विभूषितम् । तथा च देहल्याः हंसराज-महाविद्यालये, देशबन्धु-महाविद्यालये च सः व्याख्यातृत्वेन ३७ वर्षाणि सेवाम् अयच्छत् ।
ओम प्रकाश कोहली | |
---|---|
गुजरातराज्यस्य राज्यपालः | |
Assumed office 15 जुलाई 2014 | |
Preceded by | मार्गरेट अल्वा (सद्यः राजस्थानराज्यस्य राज्यपालः) |
१९९९-२००० मध्ये सः भाजपा-दलस्य देहली-विभागस्य अध्यक्षत्वेन कार्यम् अकरोत् । आपातकालस्य काले सः कारागारे प्रेषितः सर्वकारेण [१][२]
देहलीविश्वविद्यालयात् हिन्दीविषयं स्वीकृत्य सः स्नातकोत्तरपदवीं प्राप्तत् । कोहली शिक्षाविद्, राजनेता, लेखकश्च अस्ति । सः 'राष्ट्रीय सुरक्षा के मोर्चे पर', 'शिक्षा नीति', 'भक्तिकाल के संतो की सामाजिक चेतना' इत्यादीनि पुस्तकानि अलिखत् [३] ।
सन्दर्भ
सम्पादयतु- ↑ "Om Prakash Kohli is new Gujarat governor - The Times of India" [ओम प्रकाश कोहली गुजरातराज्यस्य नवीनः राज्यपालः - टाइम्स ऑफ इंडिया]. टाइम्स ऑफ इंडिया (in अंग्रेजी). आह्रियत १८/०२/२०१५.
- ↑ "राजनेता, लेखकः च कोहली". जागरण. 14 जुलाई 2014. आह्रियत १८/०२/२०१५.
- ↑ [http://rajyasabha.nic.in/rsnew/pre_member/1952_2003/k.pdf