औरङ्गाबादमण्डलम्

(औरङ्गाबादमण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)

सम्भाजीनगरमण्डलं (मराठी: सम्भाजीनगर जिल्हा, आङ्ग्ल: Sambhajinagara District), आधिकारिकरूपेण छत्रपतिसम्भाजीमहाराजनगरमण्डलम् (मराठी: छत्रपती संभाजी महाराज नगर जिल्हा); पुरातनं नाम औरङ्गाबाद्-मण्डलम् (Aurangabad district), महाराष्ट्रराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् सम्भाजीनगरम् (औरङ्गाबाद्) इत्येतन्नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगत्प्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वपरम्परास्थाने (World Heritage Sites) स्त: ।

सम्भाजीनगरमण्डलम्

संभाजीनगर जिल्हा

औरङ्गाबाद्-मण्डलम्
छत्रपतिसम्भाजीमहाराजनगरमण्डलम्
महाराष्ट्रराज्ये सम्भाजीनगरमण्डलम्
महाराष्ट्रराज्ये सम्भाजीनगरमण्डलम्
देशः भारतम् भारतम्
राज्यम् महाराष्ट्रम्
विभागः मराठवाडा (औरङ्गाबाद्)
मख्यालयः सम्भाजीनगरम् (औरङ्गाबाद्)
उपमण्डलानि कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, सम्भाजीनगरम् (औरङ्गाबाद्), खुलताबाद्, वैजापुरं, गङ्गापुरं, पैठण
Government
 • Body औरङ्गाबाद्-मण्डलपरिषद्
 • मण्डलसङ्गाहकः श्री सुनिलचवणः
Area
 • मण्डलम् १०,१०० km
Population
 (२०११)
 • मण्डलम् ३७,०१,२८२
 • Density ३७०/km
 • Urban
३७.५३%
जनसङ्ख्याशास्त्रम्
 • साक्षरता ६१.१५%
 • लिङ्गानुपातः ९२४
Time zone UTC+५:३० (भा॰मा॰स॰)
Website http://aurangabad.nic.in/
बीबी का मक्बरा
देवगिरी कोटः
देवगिरी कोटः
वेरूळचित्रगृहासु एकं मन्दिरम्
लयनेषु किञ्चन भित्तिचित्रम्
प्रसिद्धा-येवलापैठणी-शाटिकायाः निर्माणकार्यम् ।
वेरुळ-कैलासमन्दिरम्

भौगोलिकम् सम्पादयतु

सम्भाजीनगरमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि जालनामण्डलं, पश्चिमदिशि नाशिकमण्डलम्, उत्तरदिशि जळगावमण्डलं, दक्षिणदिशि अहमदनगरमण्डलम् अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्तः । ते गोदावरी नदी, तापी च । अन्तुर, सतोण्डा, अब्बासगड इत्यादयः पर्वतावल्यः सन्ति ।

कृषिः उद्यमाश्च सम्पादयतु

अत्रस्थाः प्रायः ७०% जनाः कृषिकार्यं कुर्वन्ति । यवनालः(ज्वारी), कार्पासः, बाजरी, तण्डुलः, गोधूमः, इक्षुः, तमाखुः, पलाण्डुः, जम्बीरं, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पासः इत्येताभ्यां सम्बद्धाः उद्यमाः, वनस्पतीजन्यतैलोत्पादनोद्यमाः च सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमाः सन्ति अत्र । 'पैठणी' नामकः शाटिकाप्रकारः आमहारष्ट्रं प्रसिद्धः । 'पैठणी'निर्माणोद्यमाः सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमाः, 'बिअर्', 'व्हिस्की' पेयप्रकारनिर्माणोद्यमाः अत्र प्रचलन्ति ।

जनसङ्ख्या सम्पादयतु

सम्भाजीनगरमण्डलस्य जनसङ्ख्या (२००१) २८,९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति । ५६.२३% जनाः ग्रामेषु निवसन्ति ।

ऐतिहासिकं किञ्चित् सम्पादयतु

एवं हि कथ्यते यत् औरङ्गाबादनगरं मलिक अम्बर इत्यनेन आवासितम् । परं अस्य मण्डलपरिसरस्य इतिहासः तु पुरातनः । अत्र सातवाहन-वौस्तोक-चालुक्य-राष्ट्रकूट-यादवराजानाम् आधिपत्यमासीत् अत्र । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां स्थापत्यकलानुगुणं नैकानां भवनानां निर्माणं कृतम् इति ज्ञायते । बहूनि ऐतिहासिकभवनानि सन्त्यत्र ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

१. कन्नड

२. सोयगाव

३. सिल्लोड

४. फुलम्ब्री

५. सम्भाजीनगरम् (औरङ्गाबाद्)

६. खुलताबाद

७. वैजापुर

८. गङ्गापुर

९. पैठण

वीक्षणीयस्थलानि सम्पादयतु

सम्भाजीनगरमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -

अजिण्ठा-वेरूळ सम्पादयतु

  • सम्भाजीनगर (औरङ्गाबाद्)-तः ९९ कि.मी. दूरे सह्यावल्याम् अजिण्ठा ग्रामः अस्ति । अत्रस्थेषु ३० गह्वरेषु बौद्धभिक्षूणां निवास-अध्ययनस्थानानि अर्थात् चैत्याः तक्षिताः सन्ति । गह्वरेषु भित्तिकासु चित्राणि आरेखितानि सन्ति । बहूनि सुन्दराणि तक्षितानि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहाः, मन्दिराणि च सन्त्यत्र । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्रायः ।
  • वेरूळ इति ग्रामः सम्भाजीनगर (औरङ्गाबाद्)-तः ३० कि.मी. यावत् दूरे अस्ति । ३४ लयनानां समूहः अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्मिन्नेव लयनसमूहे अन्तर्भवति ।

एतेषां लयनानां वैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलाभ्यः निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव । तथापि पाषाणशिल्पिभिः महता कौशलेन एतानि लयनानि कृतानि सन्ति । अतः बहवः पर्यटकाः आकर्षिताः भवन्ति ।

  • देवगिरी तथा दौलताबाद् भुईकोट
  • खुलताबाद - औरङ्गजेब इत्यस्य 'कबर'-समाधिस्थलम्
  • बीबी का मक्बरा
  • घृष्णेश्वर-मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम्
  • पैठणनामकं सन्त-एकनाथस्य जन्मस्थलम्
  • जायकवाडी-जलबन्धः
  • औरङ्गाबाद-गह्वराः
  • भोसले गढी
  • चान्द मिनार

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=औरङ्गाबादमण्डलम्&oldid=482417" इत्यस्माद् प्रतिप्राप्तम्