कर्णाटकस्य उत्खननस्थानानि

कर्णाटकस्य प्राचीनसंस्कृतिं ”’हस्तपरशुसंस्कृतिः”’ इति, उत्तरभारतस्य संस्कृतिं सोहन् संस्कृतिः इति कथयन्ति ।

हम्पि
कर्णाटकस्य उत्खननस्थानः
कर्णाटकस्य उत्खननस्थानः

उत्खननस्थानानि सम्पादयतु

लिङ्गदहळ्ळी चिक्कमगळूरुमण्डलम्
हुणसगी गुल्बर्गामण्डलम्
किब्बनहळ्ळी तुमकूरुमण्डलम्
लिङ्गसूरु रायचूरुमण्डलम्
ब्रह्मगिरिः चित्रदुर्गमण्डलम्
मूतेय्बेट्ट कोडगुमण्डलम्

पूर्वशिलायुगस्य नखाकारकः (उगुरुगल्लु) लघुपरशुः, तडगत्ति, इत्यादीनि नित्यजीवनोपयोगीनि आयुधानि चिक्कमगळूरुमण्डलस्य लिङ्गदहळ्ळी गुल्बर्गामण्डलस्य हुणसगीप्रदेशेषु प्राप्तानि । तुमकूरुमण्डलस्य किब्बनहळ्ळी ग्रामे दारुखड्गः प्राप्तः, रायचूरुमण्डलस्य लिङ्गसूरुग्रामे मसृणशिलापरशुः, चित्रदुर्गमण्डलस्य ब्रह्मगिरौ ताम्रस्य कांस्यस्य अहुधानि प्राप्तानि । तत्र तत्र शवनिखननस्थानानि अपि दृष्टानि । महिलानां विविधानाम् आभरणानाम् अवशेषाः कुत्रचित् प्राप्ताः । नवशिलायुगस्य अन्ते जनाः अयसः आयुधानि, नित्यजीवने उपयोगसाधनानि निर्मातुं जानन्ति स्म इति संशोधनेन ज्ञातम् । एवं कर्णाटकस्य इतिहास्य आरम्भः पूर्वशिलायुगात् भवति । पाण्डित्यपूर्णसिद्धान्तानुसारेण ऊहया वा क्रि.पू.३०००तमे काले एव हरप्पसिन्धूखातस्य नगराणां तथा लोथाल् नगरस्य मध्ये च सम्पर्कः असीदिति अवशेषैः ज्ञायते । अत्र प्राप्तानि भग्नस्वर्णाभरणानि कर्णाटकतः आनीतानि इति वदन्ति । आधुनिके कर्णाटके नवशिलायुगस्य वसतिसाक्ष्याणि प्राप्तानि । क्रि.पू. द्वितीयशतकस्य जनानां शिलायाः प्राचीनलोहानाम् आयुधानि प्रथमतया क्रि.श.१८७२तमे वर्षे संशोधितानि । बृहच्छिलायाः रचनानि, शवनिखननस्थानानि च क्रि.श. १८६२तमे वर्षे कोडगुमण्डले, मूतेय्बेट्टप्रदेशे संशोधितानि ।