काव्यात्मविमर्शः अलङ्कारशास्त्रिणामग्रे काव्यस्यात्मा कः ? इत्येष प्रश्न उपस्थित आसीत् । एतादृशं किं तत्त्वं वस्तुतः प्रधानमस्ति येन काव्यस्याधानं जायते -- इत्येतस्याः समस्यायाः समाधानार्थमनेके मनीषिणः प्रचक्रमिरे केचनालङ्कारमेव काव्यस्य जीवनं मन्यन्ते स्म, तदितेरे गुणान्, तदन्ये रीतिम् तदपरे च ध्वनिकाव्यस्य प्राणभूतत्त्वेन विचारयन्ति स्म । काव्यस्यात्मानमधिकृत्य सञ्जातायाः समीक्षाया विभिन्नता नवनवसम्प्रदायान् उत्पादयामास ।

रसस्य काव्यात्मरूपता सर्वेरेवालङ्कारिकैर्यदैकमत्येन सम्मन्यते, तदपि अर्थे काव्यत्वविरहेनोपपद्यते । यतो हि रसोऽप्यर्थः, एवञ्च -

यद्यर्थरहितमेव शब्दशास्त्रं काव्यम् तदा कथम् रसात्मकं तत् अर्थरहितोऽर्थवान्, अर्थानात्मको वा अर्थस्वरूपः अर्थसामान्यभिन्नो वा अर्थविशेषात्मा इत्युक्तितुल्यत्वात् । यदि च काव्यं शरीरं रसस्तु तस्यात्मा ततो भिन्न एव, शरीरात्मनोभेदस्यात्मनिरूपणे दर्शनशास्त्रे तु बहुशो व्यवस्थापितत्वात् इत्युच्यते तदपि न, काव्यस्वरूपनिरूपणं प्रतिज्ञाय तदितरस्य रसात्मनो अनिरूपणीयत्वापत्तेः । रसेतरार्थस्य चात्मनः शरीरतश्च भिन्नत्वेन तस्य तवृत्तिदोषालङ्कारयोश्च काव्यासंबद्धतयाऽनिरूपणीयत्वापत्तेश्च । अपि च शरीरं हि आत्मनो भोगायतनतयैव प्रसिद्धम् । तत् किम् रसात्मनो भोगायतनं शब्दमात्रम्, न शब्दार्थौ शरीरमित्याप्तप्रसिद्धिविरोधात् । शब्दार्थावाश्रित्यैव रसोगमाच्च ।

आत्मनः शरीरात् भिन्नत्वेऽपि शरीरान्तः स्थितिकत्वस्य व्यापकत्वा व्यापकंत्वपक्षद्वये अपि तत्र नियतत्त्वेन शब्दमात्रेऽपि रसात्मनः सत्त्वेन तन्मात्रादपि रसाविर्भावप्रसङ्गात् । अर्थाच्च वाच्यलक्ष्यादेः रसेतरस्मात् रसानाविर्भावप्रसङ्गाच्च, अर्थस्य रसात्मनः शरीरत्वाभावेन तत्र रसस्यासत्वात् सत्त्वे वा, तस्य भोगायनरूपशरीरत्वाभावेनाभिव्यक्त्यनाधारत्वात् । यदि त्वत्रात्मपदं न मुख्यया वृत्या प्रसिद्धात्मपरमपितु गौण्या वृत्या तत्सदृशपरमेवेत्यभिप्रेतं तदपि किमत्र सदृशघटकं सादृश्यम् । सम्भिन्नशब्दार्थस्य काव्यत्वे तु रसस्य स्वप्रकाशात्मत्वे तस्यैव च काव्यात्मत्वे परस्परसम्भिन्नरसेतरवाच्याद्यर्थशब्दविशेषस्यैव व्यञ्जकतयाऽवच्छेदकतया वा भोगायतनत्वरूपं शरीरत्वं युक्तमेव । अवयविघटकेभ्यः इतरावयवेभ्यो विलक्षणत्वरूपत्वे वाऽत्मनः सर्वविधार्थसम्भिन्नः शब्दार्थोभयात्मके अवयविनि रसरूपार्थस्य घटकत्वात् इतरावयवविलक्षणत्वाच्च युक्तमेव तत्रात्मत्वमवयवत्वेन काव्यत्वञ्च । अर्थस्यार्थत्वं सामान्यरूपेण शरीरघटकत्वेऽपि रसत्व-स्वप्रकाशत्व-आनन्दमयत्वादि-रूपान्तरेणात्मत्वे क्षत्यभावेन शरीरात्मत्वानुपपत्तिविरहात् ।

ध्वनिकारस्तु अस्य प्रश्नस्य युक्तिसंगतं बुद्धिग्राह्यं समुचितं चोत्तरं दातुमक्षमत। ‘काव्यस्यात्मा ध्वनिरिति' स्वकीयं मतं बलीयसीभिर्युक्तिभिगैरीयोभिस्तनँः पूष्टतरैश्च प्रमाणैः प्रतिपाद्य तस्य युक्ततां साधयामास । यद्यपि रसस्यैव तेनाऽपि काव्यात्मत्वमुक्तं तथाऽपि तन्न रस एवेति अवधारणपरं किन्तु श्रेष्ठतम रसमुखेन उपलक्षकतया -

प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् ।

यत्तत्प्रसिद्धावयवातिरिक्तं विभातिलावण्यमिवाङ्गनासु ।।[१]

नान्ध्रीपयोधर इवातितरां प्रकाशो नो गुर्जरीस्तन इवातितरां निगूढः ।

अर्थों गिरामपिहितः पिहितश्च शश्वत् सौभाग्यमेति मरहट्टवधूकुचाभः ॥[२]

इत्यादिना यथा ह्यङ्गनासु लावण्यं पृथङ् निर्वण्यमानं निखिलावयवव्यतिरेकि किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सोऽर्थः । सह्यर्थो वाच्यसामथ्र्याक्षिप्तं वस्तुमात्रमलङ्कारा रसादयश्चेत्यनेकप्रभेदप्रभिन्नो दशिष्यते ।। सर्वेषु च तेषु प्रकारेषु तस्य वाच्यादन्यत्वम् । 'काव्यस्यात्मा ध्वनिरि'त्यादिनाऽपि अस्यार्थस्यैवाभिप्रेतत्वात् । रसभावादि-अलङ्कार-वस्तुभेदेन त्रिविधध्वनेरेव तत्राऽपि काव्यत्मत्वेन विवक्षाविषयत्वात् ।

ध्वनिकारस्तु ‘काव्यस्यात्मा ध्वनिः' इत्येतत् स्वकीयं मतं बलीयसीभियुक्तिभिर्गरीयोभिस्तनँः पुष्टतरैश्च प्रमाणैः प्रतिपाद्य तस्य युक्ततां साधयामास । स ध्वनिविरोधे समुपस्थापिता वैयाकरण-वेदान्ति-मीमांसक-नैयायिकानां युक्तीनिराकृतवान् । किञ्च ये केऽपि साहित्यशास्त्रिणो अलङ्कारं वा गुणं वा रीति वा वक्रोक्ति वा काव्यस्यात्मत्वेन किं वा प्राणत्वेनोपपादयाम्बभूवुस्तेषामपि सर्वांस्तर्कान् सर्वांश्च युक्तींश्चिच्छेद । ध्वनिमतं वस्तुतस्तु रसमतस्यैव विकसितं स्वरूपमस्ति -

काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।

क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥[३]

सव्यङ्गो रसादिरेवार्थः काव्यस्य जीव इव शरीरस्य जीवनाधायकत्वादात्मा प्रधानमस्तीति न, अभेदेनान्वितस्य स इत्यस्य न रसमात्रपरकत्वमपितु उपलक्षकतया पूर्वोदितत्रिविधप्रतीयमानपरकत्वमेव न च -

योऽर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः ।

वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥[४]

सहृदयैरतिप्रशंसनीयः काव्यस्य शब्दार्थोभयमयस्य देहस्य जीव इव योऽर्थो व्यवस्थितस्तस्य वाच्योऽभिधेयः प्रतीयमानो व्यङ्गयश्चेति उभौ भेदौ कथितौ । अत्र सहृदयश्लाघ्यो वाच्यः प्रतीयमानश्वार्थः काव्यात्मा, न तु प्रतीयमान एव । अत एव तदग्रे ‘वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृती' इत्यत्र वाच्यप्रतीयमानभेदेन तद्वैविध्योक्तिरपि सङ्गतेति वाच्यम् । पूर्वापसन्दर्भाशुद्धतया शरीरतया च वाच्यलक्ष्यार्थयोः काव्यात्मत्वासम्भवात्, योऽर्थः इत्यादिना हि वाच्यलक्ष्यार्थयोः सहृदयश्लाघ्यत्वेन काव्यात्मत्वं न विवक्षितम् । किन्तु काव्यस्यात्मा इत्यादिना तेन बूम इत्येवं जातायां ग्रन्थकंर्तुः प्रतिज्ञायां कि काव्यात्मनः स्वरूपमिति सामान्यजिज्ञासोदये सति तत्प्रशमाय ‘योऽर्थः' इत्याद्युक्तम् ।

तत्राभिप्रेतान्वयश्चेत्थम्-अर्थप्रभेदेषु अखिलेषु अर्थेषु अर्थयोर्वा मध्ये, योऽर्थः सहृदयश्लाघ्यः स काव्यात्मेति, सामान्यतः पूर्वजातसामान्यजिज्ञासानिवर्त्तकोत्तरतयाभिप्रेतो दशितः पूर्वार्द्धन, अनन्तरं च अर्थाः कति कौ वा अर्थी तत्र कतमः सहृदयश्लाघ्यतया काव्यस्यात्मा इति जिज्ञासो दये सति, द्वौ अर्थी वाच्यः प्रतीयमानश्च, तत्र प्रतीयमान एव सहृदयश्लाघ्यतया काव्यात्मेति प्रतिपादयिषितप्रतिपत्तये उपात्तः –

‘वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ इत्युत्तराद्घ भागः । न चार्थभेदजिज्ञासोत्तरं तद्भेददर्शनपरत्वं, यद्येतदुत्तरार्धभागस्य, तह लक्ष्यार्थानुक्ति-प्रयुक्तन्यूनतैव, लक्ष्यस्यापि अर्थभेदान्तरङ्गत्वात भेदत्रैविध्यकथनस्यैव युक्तत्वादिति वाच्यम्, लक्षणायाः अप्रसिद्धाभिधारूपकत्वेन लक्ष्यार्थस्यापि वाच्यान्तर्गतत्वात् । लक्षणायाऽभिधातोऽत्यन्तभिन्नत्वाभावादेव चे व्यञ्जनाविशेषणपरकायाऽभिधातो द्वितीयेन, इत्युक्तेः काव्यप्रकाशस्थरसनिरूपणान्तर्गतायाः नासंगतिः, अभिधापुच्छभूतालक्षणेति प्रामाणिकोक्तिसङ्गतिश्च । न च -

प्रकारोऽन्यो गुणीभूतव्यङ्गयः काव्यस्य दृश्यते ।

यत्र व्यङ्गयान्वये वाच्य-चारुत्वं स्यात् प्रकर्षवत् ॥[५]

तथा -

प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः ।

ये च तेषु प्रकारोऽयमेवं योज्यः सुमेधसा ।।[६]

एवञ्च सर्वत्र वाच्यालङ्कारेषु गुणीभूतव्यङ्गयवैशिष्टे चारुता सम्पंद्यत । इत्याह -

वाच्यालङ्कारवर्गोऽयं व्यङ्गयांशानुगमे सति ।

प्रायेणैव परां छायां विभ्रल्लक्ष्ये निरीक्ष्यते ।।[७]

इत्यादिभिः प्रदर्शितो गुणीभूतव्यङ्गयोऽपि विलक्षणबोधजनकः काव्यात्मा न वा ? तस्य काव्यात्मत्वविरहे महाकविविरचित प्रचुरकाव्यबन्धेषु काव्यत्वविरहापत्तिः, तत्राऽपि काव्यत्वस्वीकारे काव्यस्यात्मा ध्वनिरित्युक्तौ न्यूनतापत्तिः -

यत्र प्रतीयमानोऽर्थः प्रक्लिष्टत्वेन भासते ।

वाच्यस्याङ्गतया वाऽपि नास्यासौ गोचरो ध्वनेः ।।[८]

अत्र व्यङ्गयस्य स्फुटतायां चमत्कारातिशयकारित्वेन प्रधानतायां च । ध्वनिः, अन्यथा गुणीभूतव्यङ्गय मेवेति ।

अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स्खलगतेः ।

शब्दस्य स च न ज्ञेयः सूरिभिवषयो ध्वनेः ।।[९]

इत्यादिभिर्गुणीभूतव्यङ्गयस्य ध्वनितो भिन्नतयैव. समुपपादितत्वात्तथैवौचित्याच्चेति वाच्यम्, गुणीभूतव्यङ्गयस्य प्रदर्शितध्वनितो भेदे निर्विवादेऽपि ‘काव्यस्यात्मा स एवार्थ' इत्यत्र स पदं यथा उपलक्षकतया भावादेर्वस्त्वलङ्कारयोश्च बोधनपरं तथा 'काव्यस्यात्मा ध्वनि'रित्युक्तौ ध्वनिपदमपि उपलक्षकतया ध्वन्यतेऽभिव्यज्यते यत्तत् ध्वनिरित्येवं व्युत्पत्त्या वा गुणीभूतव्यङ्गयस्यापि बोधनाभिप्रायकमित्यङ्गीकारे दोषविरहात् । वस्तुतस्तु ध्वनिभिन्नेष्वपि गुणीभूतव्यङ्गयेषु च मुख्यमुख्यकाव्यव्यवहारविषयत्वसाम्यात् । गुणीभूतव्यङ्गयस्य रसादितात्पर्यालोचनया ध्वनिरूपताधारणस्यापि सम्भवात् -

दुराराधा राधा सुभग यदनेनाति सृजत-स्तवैतत् प्राणेशाजघनवसनेनाश्रुपतितम् ।

कठोर स्त्रीचेतस्तदलमुपचारैविरमहे, क्रियां कल्याणं वो हरिरनुनयेष्वेव मुदितः ॥[१०]

इत्यादौ प्रसिद्धगुणीभूतव्यङ्गये ध्वनिरूपसाधारणस्य दर्शनात् । गुणीभूतव्यङ्गयस्थलेषु प्रतीयमानस्य गुणत्वे चमत्कारित्वकविव्यापाराव्यापारविषयत्वयोस्सत्वेन आत्मत्वं नानुपन्नम्, भृत्यविवाहाद्यनुगते राज्ञि इव अप्रधानेऽपि चमत्कारित्वानुभवात् ध्वनिगुणीभूतव्यङ्गयोभयभिन्ने वाच्यचित्रे शब्दचित्रे | च न काव्यस्य मुख्यो व्यवहारः तत्र काव्यत्वविरहात्, किन्तु अमुख्य एव आरोपनिबन्धनो माणवके सिंहव्यवहार इव, तदुक्तम् -

प्रधानगुणभावाभ्यां व्यङ्गयस्यैवं व्यवस्थिते ।

काव्ये उभे ततोऽन्यद् यत् तच्चित्रमभिधीयते ।।

चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् ।

तत्र किञ्चित् शब्दचित्रं वाच्यचित्रमतः परम् ।।[११]

तत्र व्यङ्गयस्य प्राधान्ये ध्वनिः, अप्राधान्ये तु गुणीभूतव्यङ्गचं काव्यं । भवति ततस्ताभ्याम् भिन्नं यत्काव्यम् विवक्षितव्यङ्गयशून्यमलङ्काराद्युक्तम् तत् चित्रवत्तात्त्विकरूपहीनमपि प्रकृतिरूपं चित्रमभिधीयत । ननु तन्मुख्यं काव्यम्, काव्यानुकारा ह्यसौ इति पुनश्च किमिदं चित्रमित्यादिना विशेषविचारोपक्रमं कृत्वा तत्रैवान्ते -

रसभावादिविषयविवक्षाविरहे सति अलङ्कारनिबन्धो यः स चित्रविषयो मतः ।

रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा तदानास्त्येव तत्काव्यं ध्वनेर्यत्तु न गोचरः ।।[१२]

एतेन च रसापेक्षया भावादेरिव प्रधानभूतव्यङ्गयात्मकध्वन्यपेक्षया गुणी-|| भूतव्यङ्गयस्य न प्रशस्ततमात्मतेति तु अन्यदेतत्, अनेकात्मवादे सर्वात्मनां | सर्वथैकरूपत्वाभावात् । चित्रयोर्द्वयोः काव्यात्मत्वविरहे अपि न सर्वथा वैयथ्यपत्तिः ।

उपमायाः शिक्षमाणानां बालानामुपलालनाः ।

असत्येवात्मनि स्थित्वा ततः सत्यं समीहते ॥

इत्युक्तेः । न चैवं गुणीभूतव्यङ्ग्यपर्यन्तस्य काव्यात्मत्वे विवक्षिते अलङ्कारस्यापि काव्यात्मत्वं कुतो न, तस्य प्रतीयमानविरहेऽपि स्वतः एव अलंकारत्वेन सहृदयश्लाघ्यतया काव्यात्मत्वौचित्यात् । उपमादीनां रसादेरुत्कर्षत्वे एवालङ्कारत्वात् स्वरूपतस्तत्रतदभावात् तदुक्तम् -

रसभावादितात्पर्यमाश्रित्य विनिवेशनम् ।।

अलङ्कृतीनां सर्वासामलङ्कारत्वसाधनम् ।।[१३]

पण्डितराजः जगन्नाथोऽपि अस्य प्रागभिहितलक्षणस्य काव्यात्मनो व्यङ्गयस्य रमणीयता प्रयोजका अलङ्कारा निरूप्यन्ते इति उपमानिरूपणारम्भे द्वितीयानने तत्रैव च प्रधानव्यङ्गयानां वस्त्वलङ्कारयोर्वाच्ययोश्वोपस्कारकतया पञ्चधेति चानिवघ्नन् अनुकूल एव शरीरर्वात्तनोऽप्यलङ्कारस्य शरीरद्वारा आत्मनः उत्कर्षकत्वात् अन्यथा निरात्मशवशरीरस्थितालङ्काराणामपि उत्कर्षकत्वापातात्, वाच्यालङ्काराणां शरीरतो भिन्नत्वेऽपि कटककुण्डलादिवत् शरीरीकृतत्वेन आत्मत्वौचित्याविरहात वाच्यालङ्कारस्य वाच्यार्थविधया शरीरत्वस्यैवमुक्तत्वात् । तस्यैव प्राधान्येन प्रतीयमानत्वेऽपि अप्राधान्येऽपि चमत्कारिव्यङ्गयत्वेन शरीरभिन्नत्वेन च आत्मत्वस्वीकारात् । तथोक्तं ध्वन्यालोके -

शरीरकरणं येषां वाच्यत्वेन व्यवस्थितम् ।

तेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गताङ्गताः ।।[१४]

इति प्रधानतया व्यङ्गयत्वे तत्रालङ्कारविरहत्वेऽपि ब्राह्मणश्रवणन्यायेन पूर्वकालिकालङ्कारत्वस्य चमत्कारिप्रधानव्यङ्गयतया काव्यात्मत्वस्य चोपपत्तेः । तत्र वाच्यः प्रसिद्धो यैः प्रकारैरुपमादिभिः इत्यादौ उपमादिपदं नोपमाद्यलङ्कारतात्पर्यकमपितु उपमीयतेऽनेनेति व्युत्पत्या विभावादिवाच्यसाधारणपरमेव, लोचनादावपि तथैव विवरणदर्शनात् ।

अत एव स्वयमलङ्कारसर्वस्वं निबध्नता राजानकरुय्यकेनापि प्राच्यानां भामहोद्भटरुद्रटादीनां मतं विवृण्वता–प्रधानस्य अप्रधानस्य वा व्यङ्ग्यस्य रसादिरूपालक्ष्यक्रमस्य, वस्त्वादिरूपसंलक्ष्य वा वाच्यार्थोपस्कारकतया अलंकाररूपता, अलंकारस्य च काव्ये प्रधानतया काव्यात्मरूपतेति कुन्तकेन विवृतं सम्यक् व्यङ्ग्यपरामर्शरहितं सर्वथैव निरस्तमित्युक्तम् ।

अन्ते च चमत्कारिणो व्यङ्गयस्यैव काव्यात्मता स्वीकृती समुपपादिता च, यथोक्तम्-‘तस्माद् व्यङ्गय एव वाक्यार्थीभूतः काव्यजीवितमिति एष एव च पक्षो वाक्यार्थविदां सहृदयानामावर्जकः व्यञ्जनाव्यापारस्य सर्वैरपह्नतत्वात् तदाश्रयणे च पक्षान्तरस्याप्रतिष्ठानादिति । एवञ्चालङ्कारे काव्यात्मता सर्वथैवानुपपन्नैव । अलङ्कारेऽलङ्कारताऽपि काव्यात्मत्वे प्राधान्ये च बाधिकैव, अलंकारस्य साक्षात् शरीरद्वारा वा आत्मोत्कर्षकत्वस्याप्रधान्यस्य चानुभवात् । गुणानां संघटनाधर्मस्वीकाररसधर्मत्वास्वीकाराभ्यां आश्रयरूपविषयमात्रभेदेन नाम्नैव विभिन्नानां गुणालङ्काराणां वस्तुतः साम्येन अभिन्नत्वमाश्रित्य वामनेनालङ्कारापेक्षया गुणस्यैव काव्ये उत्कर्षमनुभवता गुणाभिव्यञ्जकरचनारूपाया रीतेरेव काव्यात्मत्वं यदुक्तं तदप्येतेन निरस्तं वेदितव्यम्-अङ्गविन्यासविशेषरूपाया रीतेः शरीरतया शरीरघटकतया वा आत्मत्वौचित्यविरहात् ।

वक्रोक्तिजीवितकारेण उक्तिवैचित्र्यरूपायाः विलक्षणयुक्तयुक्तिरूपाया वा वक्रोक्तेरेव कविसंम्भोद्देश्य भूतव्यापारविशेषात्मिकायाः काव्यजीवितता रूपाकाव्यात्मता स्वीकृतार्दाशता च भट्टनायकेन च न्यग् भावित शब्दार्थस्वरूपस्य भोगनामकस्य आस्वादनापरपर्यायव्यापारविशेषस्य काव्ये प्रधानतया काव्यात्मता स्वीकृता । पूर्वसन्दर्शितदिशा एतन्मतत्रयमपि आपातरमणीयमपास्तमेव । प्रतिपाद्यसाध्यरूपपरमुखापेक्षिणि व्यापारे द्वारभूतक्रियाविशेषरूपे प्रतिपाद्यं व्यङ्गयार्थं विहाय काव्यात्मत्वायोगाच्च । वक्रोक्तेर्भावकत्वस्य वा काव्यात्मत्वासम्भवात् । औचित्यस्यापि अनौचित्यादृते नान्यद् रसभंगस्य कारणम् । ‘औचित्योपनिबन्धस्तु रसस्योपनिषत्परा' इत्युक्तेर्वास्तविकत्वेऽपि रसादिपरिपोषकत्वेन काव्यात्मत्वायोगात् ।

तथा च काव्यात्मा न औचित्यं, नापि रीतिः, वृत्तिव संघटना वा, नापि वक्रोक्तिः, न वा भोगः, नाप्यलङ्कारः, न वा केवलो रसः, न वा असंलक्ष्यक्रमव्यङ्ग्यमात्रम्, किन्तु प्रधानाप्रधानसाधारणं चमत्कारि व्यङ्ग्यमात्र काव्यात्मतेति सिद्धम् । ततश्च शरीरावच्छिन्नात्मनः, आत्मावरुद्धशरीरस्य वा देवदत्तादिपदसंज्ञित्वस्येव शब्दार्थरूपशरीरावच्छिन्नसहृदयश्लाघ्य प्रतीयमानात्मनः अवच्छेदकतात्मकेन व्यञ्जकतात्मकेन वा सम्बन्धेन तादृशकाव्यात्मावरुद्धशब्दार्थस्वरूपशरीरस्य वा काव्यपदसंज्ञिता शक्यता युक्तिप्रमाणोपेतेत्येवेति ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. ध्व० लो० १/४
  2. ध्व० पृ० ७३
  3. ध्व० लो० १/५
  4. ध्व० लो० १॥२
  5. ध्व० लो० ३।९१
  6. ध्व० लो० ३।९२
  7. ध्व० लो० ३।९३
  8. ध्व० लो०२/५४
  9. ध्व० लो० २५५
  10. ध्व० लो० उ० ३
  11. ध्व० लो० ३॥९८,९९
  12. ध्व० लो० पृ० ५४९
  13. ध्व० लो० २।२७
  14. ध्व० लो० २/५४
"https://sa.wikipedia.org/w/index.php?title=काव्यात्मविमर्शः&oldid=456335" इत्यस्माद् प्रतिप्राप्तम्