कुम्भराशिः

(कुम्भः इत्यस्मात् पुनर्निर्दिष्टम्)

कुम्भः द्वादशसु राशिषु अन्यतमः । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

कुल्लु district
Location of कुल्लु district in हिमाचलप्रदेशः
Location of कुल्लु district in हिमाचलप्रदेशः
Country India
State हिमाचलप्रदेशः
Headquarters कुल्लु
Tehsils कुल्लु, निर्मन्द्, बन्ज्जार्, मनालि
Area
 • Total ५,५०३ km
Population
 (2001)
 • Total ३७९,८६५
 • Density ६९/km
 • Urban
७.९२%
Demographics
 • Literacy 63.45%
 • Sex ratio 105%
Website Official website

नामौचित्यम् सम्पादयतु

कुम्भे किं विद्यते इत्येतत् न ज्ञायते । जलं यदि स्यात् कियत् विद्यते इति न ज्ञायते । अतः कुम्भे अज्ञाताः विषयाः भवन्ति । कदाचित् तस्मिन् किमपि न भवेदेव । रिक्ते कुम्भे नूतनं किमपि दृश्येत । कश्चन भावः परिपूर्णः अंशः कुम्भे विद्यते इति भावयितुं शक्यम् । कुम्भराशिवत्सु अपि किञ्चन वैशिष्ट्यम्, आकस्मिकरूपेण ते प्रमुखपात्रं वहेयुः । किन्तु कदा कस्मिन् विषये इत्येतत् भवति गोप्यम् । तेषां सामर्थ्यं शक्तिविशेषश्च निगूहितं भवति । सूक्ष्मतया अवलोकनेन मात्रं तेषाम् अन्तर्गतशक्तिः सर्वैः अवगम्यते ।

अधिपतिः सम्पादयतु

मकर-कुम्भराश्योः शनिः अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । कुम्भराशौ सुखिनः सन्तः सेवाकार्ये आत्मानं योजितवन्तः भवन्ति । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति ।

राशिभावः सम्पादयतु

कुम्भराशेः सहज-लाभभावः इति निर्दिश्यते । अत्र लाभसम्बद्धाः अंशाः द्रष्टव्याः ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः सम्पादयतु

पुरुषजातिः, स्थिरसंज्ञकः, वायुतत्त्वं, विचित्रवर्णः, शीर्षोदयः, अर्धजलं, त्रिदोषप्रकृतिः, दिनबली, पश्चिमदिशः स्वामी, उष्णस्वभावः, शूद्रवर्णः, क्रूरस्तथा मध्यमसन्ततिः । अस्य प्राकृतिकस्वभावः विचारशीलः, शान्तचित्तः, धर्मवीरः,प्रतिभासम्पन्नश्च वर्तते । अनेन उदरस्य आभ्यन्तरीकभागस्य विचारः क्रियते । अस्य स्वामी शनिः । यथा चोक्तं –

कुम्भः कुम्भी नरो बभ्रुः वर्णमध्यतनुर्द्विपात् ।
द्युवीर्यो जलमघ आयस्थो वातशीर्षोदयी तमः ॥
शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः ।

स्म्बद्धानि अक्षराणि सम्पादयतु

कुम्भराशौ धनिष्ठायाः ३,४ पादौ शतभिषायाः ४ पादाः, पूर्वाभाद्रयाः १,२,३ पादाः च भवन्ति इत्यतः गू, गे, गो, सा, सी, सू, से, सो, दा ... इत्येतानि अक्षराणि कुम्भराशिसम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम् सम्पादयतु

येषां जन्मदिनं जनवरी-मासस्य २१ दिनाङ्कतः फेब्रवरी-मासस्य १० दिनाङ्कतः पूर्वं भवति तेषां कुम्भराशिः ।

"https://sa.wikipedia.org/w/index.php?title=कुम्भराशिः&oldid=478339" इत्यस्माद् प्रतिप्राप्तम्