प्रमुखा विकल्पसूचिः उद्घाट्यताम्

संस्कृतनाटकरूपकेषु सर्वपुरातनं प्रथमं च भवति कूडियाट्टम् (मलयाळम् : കൂടിയാട്ടം; लेखने 'कूटियाट्टम्' इति । किन्तु, उच्चारणे 'कूडियाट्टम्') । कूडियाट्टम् इति पदस्य वाच्यार्थं सङ्गनाट्यम् अथवा सङ्गमनाट्यम् इति भवति । केरळे चाक्यार् (संस्कृतम् : शाक्यः) इति ब्राह्मणैः विभागेन अनुष्ठानकलारूपेण अस्य प्रयोगः क्रियते। वनितापात्रानि वनिताभिः एव अभिनयः क्रियते इति विशेषता एव। अधुना युनस्को इति संस्थया संरक्षणीयकलासु अग्रिमस्थानम् अस्यै दत्तम् अस्ति।

मिऴाव् कूडियाट्टवाद्यम्

कलारूपम्सम्पाद्यताम्

मिऴाव् इति किञ्चित् विशिष्टं वाद्योपकरणम् अस्यकृते उपयुज्यते। महत् घटं वत्सस्य चर्मणा दृढं बद्ध्वा तस्य निर्माणं कुर्वन्ति। प्राचीनसंस्कृतनाटकानां केरळीयशैल्या निरूपणम् एव कूडियाट्टं भवति । द्विसहस्रवर्षप्राचीनं कूडियाट्टं कला वैश्विकापुरातना कला इति युनेस्को सङ्घटनेन स्वीकृता अस्ति । इयमेका मन्दिरस्य कला या चाक्यार् जातीयैः नम्बियार् कुलजैः प्रस्तुता भवति । सामान्यतः कूत्तम्पलम् इति मन्दिरस्य नाट्यगृहेषु अस्याः कलायाः प्रदर्शनं भवति । कूडियाट्टं कलायाः प्रदर्शनार्थं दीर्घकालीना प्रशिक्षा आवश्यकी भवति । अस्यां कलायाम् अभिनयस्य एव प्राधान्यम् अस्ति । भरतस्य नाट्यशास्त्रे आङ्गिकं, वाचिकं, अभिनयः, आहार्यम् इति अभिनयस्य चतस्रः रीतयः निरूपिताः । कूडियाट्टं कलायां इळकियाट्टम्, पकर्न्नाट्टम्, इरुन्नाट्टम् इति विशेषाः रीतयः अन्तर्गताः भवन्ति ।

कलावस्तुसम्पाद्यताम्

कूडियाट्टं नृत्यकलायां संस्कृततस्य |रूपकाणां प्रस्तुतिः भवति । किन्तु सम्पूर्णतया कस्यचिदपि रूपकस्य अभिनयः नैव भवति । रुपकस्य कस्यचिदेकस्य अङ्कस्य निरूपणं कूडियाट्टं नृत्येषु सम्भवति । रूपकाङ्कस्य नाम्ना एव नृत्यस्य नाम भवति । अस्यां कलायां नृत्यस्य विच्छिन्नाभिषेकाङ्कः, मायासीताङ्कः, शूर्पणखाङ्कः इत्यादीनि नामानि भवन्ति । कूडियाट्टं कलायां प्रमुखानां संस्कृतनाटकानां नामानि एवं सन्ति । भासस्य प्रतिमानाटकम्, अभिषेकनाटकम्, स्वप्नवासदत्तम्, प्रतिज्ञायौगन्धरायणम्, ऊरुभङ्गम्, मध्यमव्यायोगः, दूतवाक्यम्, इत्यादीनि । श्रीहरिषस्य नागानन्दं शक्तिभद्रस्य आश्चर्यचूडामणिः, कुलशेखरस्य सुभद्राधनञ्जयम्, तपतीसंवरणम्, नीलकण्ठस्य कल्याणसौगन्धिकम्, महेन्द्रविक्रमस्य मत्तविलासम्, बोधायनस्य भगवदज्जुकीयम् इत्यादीनि अपि कूडियाट्टं कालाप्रदर्शनेषु भवन्ति । एकस्य कस्यचित् रूपकस्य कूडियाट्टं कलया प्रदर्शनीयं चेत् अष्टदिनानि अपेक्षितानि भवन्ति । प्राचीनकाले निरन्तरं ४१दिनपर्यन्तं रङ्गमञ्चे अस्याः कलायाः प्रदर्शनं भवति स्म । किन्तु इदानीन्तने काले इयं दीर्घकालप्रदर्शनस्य परम्परा लुप्ता अस्ति ।

प्रदर्शनम्सम्पाद्यताम्

कूत्तम्पलम् (नाट्यगृहम्) स्थाने भद्रदीपस्य अम्मुखे कलाकारः नाट्यस्य प्रस्तुतिं करोति । नाट्याभिनयस्य अवसरे कलाविदः उपवेशणस्य आवश्यकता अपि भवति । अतः उत्पीठिकाद्वयं तत्र व्यवस्थितं भवति । कलाकारस्य प्रवेशः यवनिकायाः पृष्ठतः भवति । नाम सहायकौ पुरतः यवनिका धृत्वा तिष्ठन्ति तस्य पृष्ठतः कलाकारस्य पात्रप्रवेशः भवति । मिऴाव् इति प्रधानं वाद्यं कूडियाट्टकलाप्रदर्शने उपयुज्यते । इडय्क्का, शङ्खः, कुरुङ्कुऴल्, कुऴित्ताळम् इत्यादीनि अपराणि वाद्ययन्त्राणि अपि भवन्ति । कूडियाट्टं कलाप्रदर्शनार्थं विशेषतया निर्मितस्य रङ्गमञ्चस्य कूत्तम्पलम् इति नाम । इयं वेदिका मन्दिराणां प्राङ्गणे एव निर्मिता भवति । कूत्तम्पलम् इति रङ्गमञ्चयुक्तमन्दिराणां नामानि एवम् सन्ति ।

आधारग्रन्थाःसम्पाद्यताम्

माणि माधव चाक्यार् , 'नाट्यकल्पद्रुमम्' , पी. के. जी. नाम्प्यार, संपादक : डॉ. प्रेम लता शर्मा , संगीत नाटक अक्कादमी , नयी दिल्ली (१९९१) डॉ. पी. के. वेणु , ' संस्कृतरङ्गमञ्चः कूडियाट्टं च ', केरल् की सांस्कृतिक् विरासत्, संपादक जी. गोपीनाथन, वाणी प्रकाशन नयी दिल्ली (१९९८).


"https://sa.wikipedia.org/w/index.php?title=कूडियाट्टम्&oldid=365338" इत्यस्माद् पुनः प्राप्तिः