खरहरप्रिय (रागः)

आरोहणम् स रि प ध नि
अवरोहणम् स नि प म रि
रागसङ्ख्या२२ मेलकर्तृरागः
जीवस्वराःरि, ग, ध, नि
न्यासस्वराःरि, ग, ध, नि
रसःकरुणा, भक्तिः
समयःसार्वकालिकरागः
जन्यरागःआभेरिरागः, श्रीराग:, आभोगिरिरागः, दर्भार् रागः, श्रीरञ्जिनिराग:, मध्यमावतीरागः, ब्रिन्दावनसारङ्गरागः
प्रसिद्धकीर्तनानिरामा नि समान, चक्कनि राज, पक्कलनिलबडि, नडचि नडचि, अप्पन्नवदरित

खरहरप्रियरागः कर्णाटकशास्त्रीयसङ्गीतस्य कश्चन रागःमेलकर्तृरागव्यवस्थायाः अनुगुणम् अयं रागः २२ तमः मेलकर्तृरागः अस्ति। पूर्वस्मिन् काले एतस्य रागस्य नाम "हरप्रय" इत्येव स्यत्। यदा "कटपयादि" व्यवस्था आगता, तदा "खर" इति उपसर्ग: आगत: इति केचन जनानां अभिप्राय: । एष: राग: २२ मेलकर्तृराग: अस्ति । खरहरस्य रामस्य प्रिय: राग: एष: इत्युक्तम् अस्ति । हिन्दुस्तानीशास्त्रीयसङ्गीतस्य काफिराग: अस्य रागस्य सम: अस्ति ।।

लक्षणानि संपादित करें

 
खरहरप्रियारागस्य आरोहणम् । षड्जं 'C' इति स्वरस्य स्थाने अस्ति।

खरहरप्रियराग: मेलकर्तृरागव्यवस्थायाम् २२ राग: अस्ति। एष: राग: वेदचक्रे चतुर्थ: राग: । अस्मिन् रागे चतुशृतिऋषभम्, साधारणगान्धारम्, शुद्धमध्यमम्, चतुशृतिदैवतम्, कैषिकिनिशादम् च सन्ति । मध्यमम् विहाय एष: राग: धर्मवतीरागस्य समान: एव। करुणाभक्तिरसयुक्त: एष: राग: मन्दम् अथवा मध्यमकालेन गातव्यम् । वयं खरहरप्रियरागं सर्वदा गातुं शक्नुम: । अस्मिन् रागे ऋषभे हनुमत्तोडि, गान्धारे कल्याणी , मध्यमे हरिकामभोजि, , पञ्चमे नटभैरवि , निशादे शङ्कराभरणम् च प्रति ग्रहभेद: अस्माभि: कर्तुम् शक्यते ।

जन्यरागा: संपादित करें

खरहरप्रियरागस्य बहव: जन्यरागा: सन्ति । तेषु आभेरिराग:, आभोगिराग:, देवक्रियाराग:, हुसेनिराग:, शुद्धधन्यासिराग:, कापिराग:, मुखारिराग:, नायकीराग: च सुप्रसिद्धा: ।

प्रसिद्धानि कीर्तनानि संपादित करें

खरहरप्रियरागे बहूनि कीर्तनानि सन्ति । किन्तु मुत्तुस्वामी दीक्षित: अस्मिन् रागे किमपि न कृतवान् । प्रधानतया त्यागराज: एवास्मिन् रागे अनेका: रचना: अकरोत् ।

अधः मायामालवगौलरागे प्रसिद्धानाम् कीर्तनानाम् आवलिः दत्ता अस्ति -

  1. "चक्कनिराज", "पक्कलनिलबडि", "नडचि नडचि", "रामानि समान" - त्यागराज:, तेलुगुभाषा
  2. "अप्पन्नवदरित", "सेन्तिल् आण्डवन्", "श्रीनिवास तव चरणम्" - पापनासम् शिवन्, तामिल् भाषा
  3. "नवसिद्धि पेट्रालुम्" - नीलकण्ठशिवन्, तमिल् भाषा
"https://sa.wikipedia.org/w/index.php?title=खरहरप्रिय_(रागः)&oldid=440889" इत्यस्माद् प्रतिप्राप्तम्