गतिर्भर्ता प्रभुः साक्षी...

भगवद्गीतायाः श्लोकः ९.१८


श्लोकः सम्पादयतु

 
गीतोपदेशः
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १८ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः सम्पादयतु

गतिः भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥ १८ ॥

अन्वयः सम्पादयतु

(अहमेव) गतिः भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् प्रभवः प्रलयः स्थानं निधानम् अव्ययं बीजम् ।

शब्दार्थः सम्पादयतु

गतिः = अहमेव कर्मफलम्
भर्ता = पोषणकर्ता
प्रभुः = स्वामी
साक्षी = शुभाशुभयोः द्रष्टा
निवासः = गृहम्
शरणम् = रक्षकः
सुहृत् = सखा
प्रभवः = उत्पत्तिहेतुः
प्रलयः = प्रलयहेतुः
स्थानम् = आधारः
निधानम् = लयस्थानम्
अव्ययम् = नाशरहितं च
बीजम् = प्ररोहनिमित्तम् ।

अर्थः सम्पादयतु

अहमेव कर्मणां फलम्, पोषकः, स्वामी, शुभाशुभयोः द्रष्टा, वासस्थानम्, रक्षकः, हितकारी, उत्पत्तिस्थानम्, प्रलयकर्ता, आधारः, लयस्थानम्, नाशरहितं बीजं च अस्मि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु