गद्यकाव्यसाहित्यं गीर्वाणवाण्यां चिरन्तनं नित्यनूतनं च । गद्यकाव्यविषये दण्डी कथयति - 'अपादपटसन्तानो गद्यम्' इति । वस्तुतस्तु पदानां वृत्तापेक्षया प्रयोगो यत्र तत्पद्यं यत्र तु स्वातन्त्र्येण प्रयोगस्तद्गद्यं भवति । गद्यं नाम भाषायाः प्राकृतिकं स्वरूपं तद्विपरीतं पद्यं तस्य निर्मितं रूपम् । यथा गद्यते तद् गद्यम्, यथा अहं पुस्तकं पठामीति । एतद्धि अनियतवर्णावसानं भवति । पद्यं तु नियतवर्णावसानं पादबद्धमेव ।

चरकसम्हित
चरकसम्हितायः एकः सूत्रः।
चरकसम्हितायः एकः सूत्रः।

इतिहासःसम्पाद्यताम्

यदा वेदमन्त्राः द्रष्टृणाम् ऋषीणां दृष्टिगोचरा अभवन्, तदा प्रथमतया गद्यरूपेणैव प्रादुरभूवन् । यथा-

"सह वै देवानां चासुराणां च यज्ञौ प्रततावास्तां वयं स्वर्गमेष्यामो वयमेष्याम इति इति तेऽसुराः सन्नह्य सहसैवाचरन्" (यजुर्वेदः)।

कृष्णयजुर्वेदे एतादृशाः अनेके मन्त्राः उपलभ्यन्ते, ये च प्राचीनतमां गद्यशैलीं प्रख्यापयन्ति । अतः एवं ज्ञातुं शक्यते यत् यस्याः कस्या अपि भाषाया प्रथमो विकासः गद्यरूप एव भवितुमर्हति । संस्कृते तु वेदोपनिष्दां साहित्यराशिम् अवलोकयामश्चेत् गद्यप्रकारः शनैः शनैः विकचीबभूवेति अवगन्तुं शक्यते । वेदानां काले यादृशि गद्ये साहित्ये विदुषाम् अभिरुचिः आसीत्, न खलु तदुत्तरकाले । गीतेषु, पद्येषु, छन्दस्सु च जनप्रियता यदाऽवर्धत तदा गद्यसाहित्यनिर्माणेऽपि वैरल्यं दृश्यते । किन्तु महाभारतेतिहासेऽपि तत्र तत्र गद्यप्रयोगाः अवलोक्यन्ते ।यथा-

स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलमुपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे ।

सार्धद्विशतवर्षेभ्यः पूर्वमेव गद्यप्रकारस्य हृद्यताम् अवगत्य भगवान् यास्कः "निरुक्तम्" स्वग्रन्थं गद्ये प्रायुङ्त । ततः गच्छता कालेन शास्त्रग्रन्थाः व्याख्यानग्रन्थाः च हृद्ये गद्ये निरमीयन्त । तत्रैकम् उदाहरणं "महाभाष्ये" पश्यामः । यथा-

एवं हि श्रूयते । बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच । नान्तं जगाम । बृहस्पतिश्च प्रवक्तेन्दश्चाध्येता दिव्यं वर्षसहस्रमध्ययनकालो न चान्तं जगाम । इति ।

महर्षिः चरकः अपि चरकसंहितायां गद्यं प्रयुक्तवान् । यथा-

नारत्नपाणिर्नास्नातो नोपहतवासा नाजपित्वा नाहुत्वा देवताभ्यो नानिरूप्य पितृभ्यो नाद्त्वा गुरुभ्यो नातिथिभ्यो नोपाश्रितेभ्यो नापुण्यगन्धो नाऽप्रक्षालितपाणिवदनो नाशुद्धमुखो नोदङ्मुखो न विमना न प्रतिकूलोपहितमन्नमाददीत । इति ।

तत्वशास्त्राणां दर्शनशास्त्राणां व्याकरण-ज्योतिष-न्यायायुर्वेद-मीमांसादिशास्त्रग्रन्थाः तु विपुलतया गद्येऽतन्यन्त इति तु नाविदितं विद्वद्भिः । महामनाः कौटल्यः स्वकीये कौटलीयम् अर्थशास्त्रम् इति ग्रन्थे यथा सुन्दरं गद्यं प्रायुङ्त अवलोक्यताम् ।

"दर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददाति । विविक्तो दर्शयते । शङ्कास्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्ववेक्षते । पथ्यमुक्तं सहते । स्मयमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाघ्ये नोपहसति ।"

गद्यपद्ययोः भेदःसम्पाद्यताम्

यदि हि काकतालीयन्यायेन कदाचिद् गद्येऽपि लयात्मकता उत्पद्यते, तदापि गद्यं तु गद्यमेव तत्र बुद्धिविलासजन्यताभावात् यथा - 'देवौ गृहं जग्मतुः' । इदं हि यथैव गद्यं तथैव पद्येऽपि । यथा - 'कार्यं निश्चितमासमाप्य मुदितौ देवौ गृहं जग्मतुः'। अस्यैव गद्यरूपं भवति -'निश्चितं कार्यं आसमाप्य मुदितौ देवौ गृहं जग्मतुः' इति । किन्त्वनेनैतन्नावधेयं यदन्वयाभावे एव पदानां गद्यमिति । गद्यपद्ययोः विभेदकतत्त्वं तु बुद्धिविलास एव । यत्र हि भाषायाः स्वाभाविकी गतिस्तद् गद्यमेव यत्र च श्रमप्रदत्ता गतिस्तदेव पद्यमिति ।

ये गद्यं हि पद्यस्य व्याख्यात्मकं रूपमिति वदन्ति, तेषां तत् कथनं योग्यं न मन्यते विद्वद्भिः। वस्तुतस्तु गद्यादेव पद्यसम्भवः । चिन्तनीयः भवति अस्य सारः। कविर्यदेवानुभवति तदेव प्रथमं चेतसि मथ्नाति । तावत्पर्यन्तं तस्यानुभवस्य गद्यमयं रूपमेव भवति । बहुधा पद्ये एव कोऽपि विचन्तयितुं न शक्नोति इति ख्यातिः। यदा तद्बहिः निष्क्रामयति, तदापि तस्य गद्यमयं रूपमेव भवति । पशाच्च कविस्तत् पद्ये निबध्नाति, पदैः सह सुचिरं क्रीडित्वा। तेन परापश्यन्ती-मध्यमावस्थायां वाचः स्वरूपे गद्यमयमेव भवति मौलिकम् ।

वैखर्या अपि प्रथमचरणे तु तथैव भवति चरमचरणे एव पद्यमयं सम्भवति यदि वक्ता विचक्षणश्चेत् । तेन न हि गद्यं पद्यकाव्याल्लोककथामाध्यमेन विकसितं यथा हि पण्डितम्मन्याः कथयितुं चेष्टन्ते, नैव च संस्कृतं गद्यं ग्रीकगद्यात् प्रभावितं यथा कथ्यते । वस्तुतस्तु यदा भारतीयगद्यं स्वकीये सर्वोत्कृष्टसाहित्योद्याने -

'ऋतञ्च सत्यञ्चाभिध्यात्तपसोऽध्यजायत । ततो रात्र्यजायत । ततः समुद्रोऽअर्णवः। समुद्रादर्णवादधि संवत्सरोऽजायत', 'स हो वाच ऋग्वेदं भगवोऽध्येमि' इत्यादि रूपेण विहरति स्म, तदा ग्रीकपद्यं हि मेषपुच्छेऽपि संलग्नं नासीत्किमुत कविलेखन्याम्। यथार्थतात्वेतावत्येव यत्साहित्यस्य मौलिकं रूपं तु गद्यमयमेव पद्यं तु पश्चात्प्रभावातिशयेच्छया वा कण्ठस्थीकरणसौकर्याय प्रवर्तितं श्रमेण। संस्कृतगद्यसाहित्यं पद्यसाहित्यादपि प्राचीनतरम् । उक्तमेव पुराणेषु 'एक एव यजुर्वेदो व्यस्यते द्वापरादिषु' इति । यजुर्नाम अनियतवर्णावसानवागेव । यजुर्भ्य एव ऋगजायत । ऋङ्नाम नियतवर्णावसाना वाक् । न केवलं यजुर्वेदस्य मौलिकं रूपमपि तु समग्रमेव ब्राह्मणसाहित्यम्-आरण्यकम्-उपनिषत्तत्त्वञ्च गद्य एव विद्यते । सूत्रमपि गद्यस्यैव संक्षिप्तं रूपं न तु पद्यस्य ।

प्रकारःसम्पाद्यताम्

गद्यकाव्यं हि द्विविधं कथा, आख्यायिका चेति । तत्र कथा हि कविकल्पितवस्तुपात्रादिविषया यथा बृहत्कथा । आख्यायिका तु ऐतिहासिकवृत्ताधारा । कथा हि स्वयं नायेकन वाऽन्येनापि कथिता भवति, यदा आख्यायिका तु स्वयं नायकेनैव कथिता भवति । आख्यायिका उच्छवासाख्येषु विभागेषु विभक्ता भवति । तत्र वक्त्रापरवक्त्रवृत्तप्रणीतपद्यान्यपि भवन्ति, किन्तु कथायां नैव । कथायां हि कन्याहरण-सङ्ग्राम-विप्रलम्भ-सूर्योदय-चन्द्रोदयप्रभृतिविषयाणां सुविस्तृतं वर्णनं भवति आख्यायिकायां नैव । संस्कृतगद्यकाव्ये यथासम्भवमेतेषां नियमानां पालनं कृतमेव दृश्यते । दण्डी कथयति यत्कथाख्यायिकयोः नैव तथा महत्त्वदर्शितो भेदः सम्भवति । ते हि गद्यकाव्यस्य द्वे संज्ञे एवेति । कोषकारस्त्वेवमाह - 'प्रबन्धकल्पना कथा'[१] 'आख्यायिकोपलब्धार्था'[२]बालरामायणम् "गद्यं कवीनां निकषं वदन्ति" इति निगदति । यः गद्यं तादृशं विलिख्य कविः इति प्रशंसितः भवति सः नितरां काव्यशास्त्रदोषज्ञानां विमर्शनिकषोपले निघृष्टसुवर्णाभरणोपमः सन् सहृदयैः नित्यं कण्ठे धार्यत एव । अत एवोक्तम् यथा-

पद्यं वद्यं गद्यं हृद्यम् । इति । अपि च -
अपारे काव्यसंसारे कविरेकः प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ इति वदन्ति ।

किन्तु तादृशविश्वसृष्टौ समर्थाः कवयोऽपि विरला एव । विस्मयावहायां कविपरम्परावाहिन्यां संस्कृतसाहित्यसरस्वत्यां बाणभट्टसदृ्शाः गद्यं प्रणीय़ एव कविरितिविख्याताः न बहव उपश्रूयन्ते । यतः कस्यामपि भाषायां गद्यकाव्यनिर्मितिः न सुलभा । संस्कृते तु कठिनतरा । तथापि संस्कृतभाषायां गद्यकाव्यश्रीः विपुला दृश्यते । वेदेषु, उपनिषत्सु, विविधशास्त्रग्रन्थेषु च गद्यानां प्रयोगाः तत्तद्गहनतत्वप्रतिपादननैपुणीं दर्शयन्त्यपि गद्यसाहित्यस्तोमे नान्तर्भवन्ति । यतः तादृशगद्येषु यद्यपि शास्त्रप्रौढिमा, पाण्डित्यप्रकर्षश्च गोचरति, तथापि रसस्यन्दीनि वाक्यानि तत्र न भवन्ति । आचार्यःदिङ्नागः स्वस्य किरणावलिः नाम्नि ग्रन्थे उत्तमां गद्यसरणिं प्रादर्शयत् । जयन्तभट्टः न्यायमञ्जरी इति ग्रन्थे तत्र तत्र गद्यसुषमां शैलीमभिव्यनक्ति । किन्तु एतादृशेषु शास्त्रग्रन्थेषु शास्त्रप्रतिपाद्यविषयमात्रे प्रवृत्तं गद्यं न हि खलु काव्यप्रपञ्चं संवर्धयति ।

गद्यकाव्यानां प्राचीनतासम्पाद्यताम्

आचार्यः पतञ्जलिः महाभाष्ये "आख्यानकाख्यायिकेतिहासप्रकरणेभ्यश्च" इति वार्तिकस्य व्याख्यानप्रसङ्गे ’आख्यायिका वासवदत्तिका, सौमनोत्तरिका इति नामनिर्देशनपूर्वकम् उदाहृतवान् । एतेन ज्ञायते यत् क्रिस्तोः पूर्वकालादपि संस्कृते गद्यप्रकारे नैकानि काव्यानि आसन्निति । अत एव बाणेनोक्तम् यथा-

कवीनामगलद्दर्पो नित्यं वासवदत्तया ।
शक्त्येवपाण्डुपुत्राणां गतया कर्णगोचरम् ॥ इति ।

न चैषा वासवदत्ता सुबन्धुकृता भासते । काचित्ततोऽपि प्राक्तना महाभाष्योक्तैव वा भवेत् । तथैव बाणेनोक्तम् "भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते" इति यत् कोऽयं गद्यबन्ध इति न ज्ञायते । अपि च आचार्यदण्डिनोक्तौ -

तौ शूद्रककथाकारौ धन्यौ रामिलसोमिलौ ।
काव्यं ययोर्द्वयोरासीत् अर्धनारीश्वरोपमम् ॥ इत्येतौ युग्मकवी दण्डिनोऽपि प्राचीनौ गद्यकारौ भाव्येते ।

अपि च दण्डी हालराजेन पालितस्य श्रीलालिताख्यस्य "तरङ्गवती" नामानं गद्यग्रन्थम् उदाहरति ।भोजः स्वस्य शृङ्गारप्रकाशः इति ग्रन्थे "मनोवती" "सातकर्णीहरणम्" इति नामकं गद्यग्रन्थद्वयं नाम्नोद्धरति । एतानि गद्यकाव्यानि प्राचीनानि सन्ति, इदानींतनकाले नोपलभ्यन्ते । एवं च समुपलब्धेभ्योऽपि गद्यकाव्येभ्यः प्राचीनतमाः गद्यकाव्यग्रन्था आसन्निति तु विज्ञायते ।

गद्यकाव्यानिसम्पाद्यताम्

समुपलब्धेषु गद्यकाव्येषु बाणकर्तृकं कादम्बरीनामकं सर्वप्रथमम् । एतत् काव्यं "प्रबन्धकल्पना कथा" इति कोशोक्तप्रकारेण कथाप्रकारे अन्तर्भवति । द्वितीयं च बाणकृतम् आख्यायिकाप्रकारे अन्तर्भूतं गद्यकाव्यं हर्षचरितम् इति । बाणकवेरपि पूर्वकालीनः गद्यकाव्यकर्ता सुबन्धुः । एतस्य कृतिः वासवदत्ता इति । महाकविः दण्डी दशकुमारचरितम् अवन्तिसुन्दरीकथा इति गद्यकाव्यद्वयं प्रणिनाय । ततः वामनभट्टबाणः नामा कविः वेमभूपालचरितम् नाम काव्यं व्यरचयत् । अष्टादश शतमानस्योत्तरार्धे आन्ध्रीयः महाविद्वान् लक्ष्मणसूरिः भारतसङ्ग्रहः नलोपाख्यानम् इति गद्यकाव्यद्वयं लिखितवान् । गते नवदशशतमाने औत्तरेयः अम्बिकादत्तव्यासः शिवराजविजयः नामानं गद्यग्रन्थं निरबध्नात् । तथा च पण्डिता क्षमा नाम्नी विदुषी "कथामुक्तावली" इति गद्यकथाग्रन्थं रमणीयगद्यग्रथनकौशलेन विरचितवतीति श्रुतम् । एवं च आसप्तमशतकादारभ्य वर्तमानकालपर्यन्तमपि महान्ति गद्यकाव्यानि गणयामश्चेत् तानि केवलम् अङ्गुलिगण्यान्येव भवन्तीति ज्ञायते । एतेन स्पष्टं भवति यत् संस्कृते हृद्यं गद्यं विरचयितुं "चापलाय प्रचोदितः" कोऽपि कविः न प्रभवति इति ।

वासवदत्तासम्पाद्यताम्

मुख्यलेखः : वासवदत्ता

वासवदत्ता सुबन्धुप्रणीतं गद्यकाव्यमिति सर्वैरेव स्वीक्रियते। गद्यपरम्परायाः प्रप्रथमा एषा रचना इति विदुषां मतम्। गद्यरचनायां कवेः वैशिष्ट्यस्य प्रशंसा भवति, तेन सह तस्य पद्यकौशलम् अपि प्रशंस्यते।

बृहत्कथासम्पाद्यताम्

मुख्यलेखः : बृहत्कथा

बाणेन 'अतिद्वया कथा' इति स्मृतयोः कथयोर्मध्येऽपरा गुणाढ्यस्य बृहत्कथा । यद्यपि गुणाढ्यस्य बृहत्कथा मूलतः पैशाचीभाषायामासीत्तेनास्याः मौलिकरूपं कीदृशमासीदिति तु न कोऽपि वक्तुं समर्थस्तथापि बृहत्कथामञ्जरी-कथासरित्सागरादिवलाद्विषयेऽस्मिन् किञ्चिदुत्प्रेक्षितुं शक्यते । इदमपि कथ्यते यदस्य पूर्वे षड्भागास्तु विनष्टाः। उपलब्धस्तु सप्तमो भाग एव । बाणः हर्षचरिते कथयति -

समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना।

हरलीलेव नो कस्य विस्मयाय बृहत्कथा॥[३]

एवमेव सोड्ढलः -

'कविर्गुणाढ्यः स च येन सृष्टा बृहत्कथा प्रीतिकरी जनानाम्।

या संविधानेषु सुसन्धिबन्धैर्निपीड्यमानेव रसं प्रसूते।।'

कथ्यते गुणाढ्यः प्रतिष्ठानपुरस्य राज्ञः सातवाहनस्य सभापण्डित आसीत् । स व्याकरणशिक्षणावधौ शर्ववर्मणा कातन्त्रव्याकरणकारेण पराजितः संस्कृतं प्राकृतञ्चोभयीं वाचं समुत्सृज्य पैशाचीमाश्रित्य बृहत्कथां कृतवानिति । सातवाहनस्य समयो विक्रमानन्तरप्रथमद्वितीयशतकान्तराले मतः । तेन गुणाढ्यस्यापि स्थितिः कालेनैवामुना संवादिता भाव्यमिति समालोचकाः । शकसंवत्सरप्रवर्तकः शालिवाहन एव सातवाहनः स्मृतोऽत्र पुरावृत्तविद्भिः।

एतन्निश्चयेन वक्तुमशक्यं यद्बृहत्कथा गद्यमयी किं वा पद्यमयी आसीदिति । कथासरित्सागरानुसारेण तु रचनैषा पद्यमयी दृश्यते यद्यपि तेन नैव स्पष्टमुक्तम् । कथितं तत्र

तथैव च गुणाढ्येन पैशाच्या भाषया तया।

निबद्धा सप्तभिर्वर्षैर्ग्रन्थलक्षाणि सप्त सा॥[४] इति ।

किन्तु बुधस्वामिनो बृहत्कथाश्लोकसङ्ग्रहादिमनुमीयते यद्ग्रन्थोऽयं गद्यमयः आसीदन्यथा 'श्लोकसङ्ग्रह' इति कथनं निरर्थकमेव स्यादिति । अनेन ध्वन्यते यदबृहत्कथायां बुधस्वामिना श्लोकबद्धरूपेण सङ्ग्रहः कृत इति, न तु मूलग्रन्थगतपद्यानां सङ्ग्रह इति । बृहती या कथा तस्याः श्लोके सङ्ग्रहः इत्यस्याशयः।

बृहत्कथायां हि काणभूतिकथिताः सप्तकथाः निबद्धाः आसन् । किन्तु तासु षट्कथास्तु आदावेव प्रणष्टा अन्तिमा एव नरवाहनकथाऽवशिष्टा इति कथासरित्सागरतो ज्ञायते। बृहत्कथामाश्रित्य त्रयो ग्रन्थाः प्रणीता दृश्यन्ते, नेपालदेश्यस्य बुधस्वामिनः बृहत्कथाश्लोकसङ्ग्रहः, काश्मीरस्य क्षेमेन्द्रस्य बृहत्कथामञ्जरी, काश्मीरस्यैव सोमदेवस्य कथासरित्सागरश्च ।

हर्षचरितं, कादम्बरी चसम्पाद्यताम्

मुख्यलेखः : हर्षचरितम्
,
मुख्यलेखः : कादम्बरी

बाणस्य हर्षचरितं, कादम्बरी च रचने स्तः। उभे रचने अपूर्णे। हर्षस्य निधनत्वात् हर्षचिरतम् अपूर्णमेव त्यक्तं बाणेन। ततश्च कादम्बर्याः रचनाकाले स्वयं कविः पार्थिवम् अत्यजत्। कादम्बर्याः प्रशंसा अनेकैः प्राचीनकविभिः, आधुनिककविभिः, विदेशीयविद्वद्भिः च कृता वर्तते।

दशकुमारचरितम्, अवन्तिसुन्दरीकथासम्पाद्यताम्

मुख्यलेखः : दशकुमारचरितम्

दशकुमारचरितं दण्डिनः प्रथितं गद्यकाव्यम् । दशानां कुमाराणामतिपौरुषपराक्रमवर्णनमेवाऽस्य ग्रन्थस्य विषयः । मगधेशकुमारस्य राजवाहनस्य तन्मित्राणां नवानां देशविदेशाटनानुभवानां मनोहारि वर्णनमत्र दृश्यते। अवन्तिसुन्दरीकथा दण्डिनोऽपरा कृतिः। ग्रन्थोऽयमपि हर्षचरितमिव कतिपयैः पद्यैरारभ्यते । अत्र बाणस्य कादम्बरी पुनरुक्तेव दृश्यते भाषाभाववर्ण्यविषयादिदृष्ट्या।

तिलकमञ्जरीसम्पाद्यताम्

मुख्यलेखः : तिलकमञ्जरी

धनपालस्य तिलकञ्जरी समालोचकैः स्मृता । कविरसौ धारानरेशस्य मुञ्जस्य सभासदासीदिति तिलकमञ्जर्या एव साक्ष्येण ज्ञायते । सः रावदेवस्य पुत्रः आसीत् । १०३० मितवैक्रमाब्दमभितः प्रणीतेऽस्मिन् ग्रन्थे राजपुत्र्याः तिलकायाः राजपुत्रेण समरकेतुना सह प्रेमप्रपञ्चो वर्णितः । ग्रन्थस्य भूमिकाभागे हर्षचरित इव वाल्मीकि-व्यास-प्रवरसेन-जीवदेव-कालिदास-बाण-समरादित्य-भद्रकीर्ति-माघ-भार-विभवभूति-वाक्पति-राजशेखर-प्रभृतिकवयः स्मृता कविना । तथैव तत्र बृहत्कथा तरङ्गवती चेति द्वौ ग्रन्थावपि स्मृतौ । समालोचका ग्रन्थेऽस्मिन् स्पष्टमेव बाणच्छायां पश्यन्ति ।

गद्यचिन्तामणिःसम्पाद्यताम्

मुख्यलेखः : गद्यचिन्तामणिः

विक्रमानन्तरत्रयोदशशतकमभितः स्थितिमता वादीभसिंहापराभिधानेन ओड्यदेवेन गद्यचिन्तामणिसंज्ञकं काव्यं प्रणीतमस्ति । तत्र राजपुत्रस्य जीवनधरस्य चरितं चित्रितमस्ति । अस्यैव कवेः क्षत्रचूडामणिनामकं काव्यमप्यस्ति।

एवमेव अगस्त्यस्य (१३८० वै०) कृष्णचरितं, वामनभट्टबाणस्य (१४८० वै०) वेमभूपालचरितं वीरनारायणचरिताख्यं, अनन्तशर्मणः ( १७०७ वै० ) मुद्राराक्षसपूर्वसङ्कथानकं, विश्वेश्वरपाण्डेयस्य (१७५० वै०) मन्दारमञ्जरी, अम्बिकादत्तव्यासस्य (१९१५-१९५७ वै०) शिवराजविजयं, क्षमायाः (१९५७ वै०) कथामुक्तावली, रामशरणस्य (१९६२ वै०) कौमुदीकथाकल्लोलिनी, देवविजयगणिनो रामचरितं (१६५३ वै०), नृसिंहस्य अभिनवकादम्बरी, कृष्णपण्डितस्य रत्नावली, राजगोपालस्य (१९४९ वै०) शैवालिनी, कुमुदिनी, विलासकुमारी, सङ्गरः, कल्याणरामस्य कनकलता, कृष्णमाचार्यस्य मन्दारवती, अलवार-आयङ्गरस्य जयन्तिका, श्रीशैलस्य मेनका, नरसिंहाचार्यस्य सौदामिनी, मेधावतस्य कुमुदिनीचन्द्रं, वामनकृष्णस्य तिलकचरितं, बदरीनाथस्य गुणेश्वरचरितं चेतिप्रभृति गद्यकाव्यानि प्रथितानि स्मृतानि च सन्ति ।

मन्दारमञ्जरीसम्पाद्यताम्

मुख्यलेखः : मन्दारमञ्जरी

मन्दारमञ्जरी विश्वेश्वरपाण्डेय-महोदयेन रचितं किञ्चन नाट्यकाव्यम्। एषः ग्रन्थः कादम्बर्याः अनुकरणाय प्रयतते। धाराप्रवाहस्य विच्छेदः बहुत्र प्राप्यते, परन्तु कवेः वर्णनशैल्याः समालोचकाः प्रशंसां कुर्वन्ति। प्रेमप्रसङ्गाधारितं काव्यमिदम् अपूर्णमेव मन्यते।

रत्नावलीसम्पाद्यताम्

मुख्यलेखः : रत्नावली

१८४०-१९०० मितवैक्रमाब्दान्तराले स्थितिमतो धर्माधिकारिवंश्यस्य श्रीकृष्णपण्डितस्य रत्नावली आधुनिकगद्यकाव्येषु नृपायते । स्वरूपेण स्वल्पमपि पूर्ण काव्यमिदं सुखान्तम् । अत्र भगवतो रत्नेश्वरस्य प्रसादेन रत्नावल्या गन्धर्वकुमार्या रत्नचूडाख्येन नागराजकुमारेण सह परिणयो वर्णितः । सर्वैरेव काव्यगुणैः समलङ्कृतोऽयं ग्रन्थः सर्वदा मौलिकः अस्य दीर्घसमासवन्ति वाक्यानि बाणमेव स्मारयन्ति, श्लेषप्रयोगबहुलता च सुबन्धुं, पदलालित्यञ्च दण्डिनम् । दिङ्मात्रं निदर्शनं यथा -

'अस्ति स्वस्तिसमस्तस्थिरास्थलीविस्तृतमस्तकसंस्तुतप्रस्तारप्रशस्तिस्तोमाऽहर्दिवं वर्धमानाऽपूर्वपूर्वैहिकजन्यजतधर्मार्थकामनिर्वाणसम्पूर्णसर्ववर्णाश्रमधर्मकर्मप्रसितत्वखर्वगर्बखर्वीकृतसुपर्वदर्वीसुपर्वादिपवितैः • •• •••••• वाराणसी नाम ।' (त्रिषु पृष्टेषु विस्तृतमिदं वाक्यम् )।

रत्नावलीवर्णनं यथा -

'तस्य सुविनया तनया लावण्यवंतीष्वग्रगण्या जितचन्दिरमुखारविन्दा स्तबर्कस्तनी मृणालकोमलबाहुलता तन्वी तनुमध्याऽधरीकृतबिम्बाधरा मीनाभिमानमोचनलोचना विकलीकृतकोकिलालापा सर्वनान्धर्वनिपुणा गुणरत्नगजानुपमेयरूपातिशया मर्तेव रत्नाकरकन्यका बभूव रत्नावली नाम।'

'या च सन्ध्येव विविधरागरक्ताम्बरा कवितेवालङ्कारमण्डिता तरुशाखेव रुचिरवयोभूषिता कलावत्यपि नकलावती गन्धयपि नगन्धर्वी । यस्याश्चञ्चलत्वं नयनयोर्न चेतसि, मन्थरत्वं पादयोर्न बुद्धौ, कार्यं बलग्ने न वपुषि, मौग्ध्यं शिशुक्रीडने न विद्यासु।'

शिवराजविजयःसम्पाद्यताम्

मुख्यलेखः : शिवराजविजयः

१९१५-१९५७ मितवैक्रमाब्दान्तरालवर्तिना जयपुरोभिजनेन पाटलिपुत्रवास्तव्येन अम्बिकादत्तव्यासेन सन्त्यनेके ग्रन्थाः प्रणीता येषु शिवराजविजयं नाम गद्यमहाकाव्यं प्रसिद्धमस्ति।

शिवराजविजयम् ऐतिहासिकवृत्ताभितत्वादाख्यायिकारूपं गद्यकाव्यम् । अत्र द्वादशनिःश्वासेषु शिवाजीवरस्य साहसिकं कार्यं वर्णितमस्ति । शिवाजीवीरः १६७४ मितवैक्रमाब्दे जातः महाराष्ट्रवीरः १७३१ मितवैक्रमाब्देऽभिषिक्तः १७३७ मितवैक्रमाब्दे शरीरम् अत्यजत्। तेन १७०३ मितवैक्रमाब्दतः आरभ्य आजीवनमेव महाराष्ट्रस्य मुगलशासनान्मुक्तये सङ्घर्षः कृतः । सः सामान्यजनतः स्वबाहुवीर्येण महाराष्ट्रसम्राट् सञ्जातः । तस्यैव चरितं ग्रन्थेऽस्मिन् सुनिपुणं वर्णितमस्ति । कथ्यते अस्मिन् वङ्गीयोपन्यासग्रन्थस्य प्रभावो दृश्यते किन्तु कथा त्वैतिहासिकी सर्वसामान्यैव । वस्तुतः कविरत्र नवीनां शैलीमप्युन्नयति तेनैष भ्रमः समुत्पन्न । ग्रन्थेऽस्मिन् वीरः मुख्यो रसः, वैदर्भीरीतिः, प्रासादिकी मधुरा च शैली । अस्य वर्णनशैल्या दिङमात्रमुदाहरणं यथा -

'एष भगवान् मणिराकाशमण्डलस्य चक्रवर्ती खेचरचक्रस्य कुण्डलमाखण्डलदिशः दीपको ब्रह्माण्डभाण्डस्य प्रेयान् पुण्डरीकपटलस्य शोकविमोकः कोकलोकस्य अवलम्बो, रोलम्बकदम्बस्य, सूत्रधारः सर्वव्यवहारस्य इनश्च दिनस्य ।

कौमुदीकथाकल्लोलिनीसम्पाद्यताम्

१९६२ मितवैक्रमाब्दे लब्धजनुः रामशरणः संस्कृतगद्यकाव्याकाशस्यान्तिमनक्षत्रम् मन्यते। यद्यपि तदनन्तरमपि गद्यकाव्यकानि प्रणीतानि तु दृश्यन्ते तथापि कौमुदीकथाकल्लोलिनीसमकक्षी रचना हृदयाह्लादकी मन्यते । अत्र उदयनपुत्रस्य मरवाहनदत्तस्य जन्मत आरभ्य गान्धर्वाभिषेकपर्यन्ता कथा वर्णिताऽस्ति । शास्त्रकाव्यपरम्परायाः अपि पालकेऽस्मिन् काव्ये कथामाध्यमेन व्याकरणप्रयोगा अपि शिक्षिता भट्टिकाव्ये इव । तेन काव्यमिदं कवित्व-पण्डितत्वयोः सुन्दरं सङ्गमस्थलम् मन्यते।

सम्बद्धाः लेखाःसम्पाद्यताम्

सन्दर्भःसम्पाद्यताम्

  1. अमरकोषः १/५/५
  2. तत्रैव १।५।६
  3. १७
  4. १।८।२
"https://sa.wikipedia.org/w/index.php?title=गद्यकाव्यम्&oldid=439247" इत्यस्माद् प्रतिप्राप्तम्