प्रमुखा विकल्पसूचिः उद्घाट्यताम्

गिजुभाई बधेका ( /ˈɡɪʊbhɑː bəðɛkɑː/) (गुजराती: ગિજુભાઈ બધેકા, आङ्ग्ल: Gijubhai Badheka) गुजरातराज्यस्य सर्वोत्कृष्टेषु शिक्षकेषु अन्यतमः । बालशिक्षणस्य क्षेत्रे अद्वितीयकार्यत्वात् आभारतं सः स्मर्यते । बालानां सश्मश्रुः माता (મુછાળી માઁ) इति सः प्रसिद्धः [२] । यतो हि माता यथा स्वपुत्रस्य हितं चिन्तयन्ती आजीवनं समर्पयति, तथैव सः बालानां भविष्यस्य रक्षणार्थं, योग्यविकासस्य मार्गान्वेषणे च स्वस्य सम्पूर्णं जीवनं समार्पयत् । अप्रशिक्षितानां शिक्षकाणाम् अत्याचारैः भारतीयभविष्यस्य विकासः अवरुद्धः आसीत् । तस्य अवरोधस्य समाधानं कृत्वा स्वनवीनविचारैः तेन बालशिक्षणक्रान्तिः कृता ।

गिरजाशङ्करः
ગિજુભાઈ બધેકા
Gijubhai.jpg
सश्मश्रुः माता (મુછાળી માઁ)
जन्म ५/११/१८८५
वळा-ग्रामः, गुजरातराज्यस्य सौराष्ट्रविभागः
मृत्युः २३/६/१९३९
मुम्बई-महानगरं, महाराष्ट्रराज्यम्
अन्यानि नामानि गिरजाशङ्करः, सश्मश्रुः माता (મુછાળી માઁ),
विनोदी, बालानां रक्षकः (બાળકોનાં બેલી) [१]
वृत्तिः लेखक, Children's writer edit this on wikidata
कृते प्रसिद्धः बालशिक्षणस्य क्रान्तिकारी
भार्या(ः) हरिबेन
अपत्यानि नरेन्द्र

स्वस्य शिक्षणेन सः जनान् अबोधयत् -

भारतस्य भविष्यं बालाः सन्ति । तेषां योग्यरीत्या मानसिकविकासः, शारीरिकविकासः, आध्यात्मिकविकासः च पितरोः, शिक्षकाणां, समाजस्य च दायित्वम् अस्ति । अन्ततो गत्वा बालकानां भविष्यम् एव अस्माकं सर्वेषां भविष्यम् अस्ति । अतः पूर्णशक्त्या बालविकासस्य दायित्वं सर्वैः ऊह्यम् एव ।

अन्तर्विषयाः

जन्म, परिवारश्चसम्पाद्यताम्

गुजरातराज्यस्य सौराष्ट्रविभागस्य छेला-नद्याः तीरे विकसितस्य वळा-ग्रामस्य भट्टोपा-वीथिकायां बधेका-परिवारः निवसति स्म । बधेका-परिवारस्य मुख्यव्यक्तिः भगवान् बधेका स्वपत्न्या काशीबाई इत्यनया सह सांसारिकजीवनं सुखेन यापयति स्म । १८८५ तमस्य वर्षस्य 'नवम्बर'-मासस्य पञ्चदशे (५/११/१८८५) दिनाङ्के पुत्ररत्नस्य जन्मना तयोः सुखिपरिवारे आनन्दवर्षा अभवत् । तौ पुत्ररत्नं प्राप्य सन्तुष्टौ आस्ताम् । तौ दम्पती स्वभावेन सरलः, मधुरभाषी, धार्मिकः च आस्ताम् । अतः तयोः दम्पत्योः पुत्रे अपि सरलतायाः, माधुर्यस्य, धार्मिकतायाः च पारिवारिकसंस्काराः आसन् । तौ दम्पती प्रेम्णा स्वपुत्रं ‘गिरजो’ इति निर्दिशतः स्म । परन्तु तस्य वास्तविकनाम गिरजाशङ्करः आसीत् [३] । सः ब्राह्मणपुत्रः गिजु एव बालकानां ‘सश्मश्रुः माता’ (મૂછાળી માઁ) इति प्रसिद्धः गिजुभाई बधेका ।

बाल्यं, प्राथमिकशिक्षणञ्चसम्पाद्यताम्

गिरजाशङ्करः यदा पञ्चवर्षीयः अभवत्, तदा तस्य विद्यारम्भः अभवत् । सः स्वग्रामस्य धूडी-विद्यालये पठति स्म । परन्तु तस्मिन् काले शिक्षणम् अतिभयावहम् आसीत् । शिक्षकाः विद्यार्थिनः ताडयन्ति स्म । गृहकार्यस्य आधिक्यं, शिक्षायाः आधिक्यं, मार्गदर्शनस्य अभावः, क्रीडायाः अभावः इत्यादीनि विद्यार्थिनां शिक्षणस्य अभिन्नाङ्गानि आसन् । विद्यार्थिनः भयेन विद्यालयं न गताः इत्यस्य उदाहरणानि प्रचुरमात्रायाम् आसन्, परन्तु शिक्षणव्यवस्थायां न किमपि परिवर्तनम् अभवत् । विद्यालये क्रीडायाः अभावात् गिरजाशङ्करः, तस्य मित्राणि च अवकाशदिनेषु ग्रामस्य वीथिकासु क्रीडिन्ति स्म ।

भट्टोपा-वीथिकायां ‘गिरजाशङ्करः’ इत्यस्य मित्रमण्डलं सर्वदा तस्य प्रतीक्षायां भवति स्म । ‘गिरजाशङ्करः’ यदा गृहात् बहिः गच्छति स्म, तदा सर्वाणि मित्राणि मिलित्वा विभिन्नाः क्रीडाः क्रीडन्ति स्म । वळा-ग्रामं परितः वनम् आसीत् । बालकाः वनं प्रति न गच्छेयुः इति ग्रामे भूतानां, प्रेतानां च कथाः प्रचलिताः आसन् । गिरजाशङ्करः अश्रृणोत्, “ग्रामस्य समीपं पीलुडी-नामकं स्थलम् अस्ति । तत्र मातुलस्य भूतः अस्ति” इति । गिरजाशङ्करः अपरस्मिन् दिने मित्रैः सह तत् स्थलं क्रीडितुम् अगच्छत् । तत् वटवृक्षैः आच्छादितं रमणीयं स्थलम् आसीत् । अतः गिरजाशङ्करः तस्य मित्राणि च आनन्देन क्रीडां प्रारभन्त । क्रीडन्तः बालकाः सायङ्कालपर्यन्तं तत्र अक्रीडन् । अतः गृहं प्रतिगमने विलम्बः अभवत् । गृहजनाः ग्रामस्य वीथिकासु बालकानां अन्वेषणम् आरभन्त । सर्वे चिन्तिताः सन्तः इतस्ततः भ्रमन्तः आसन् । तस्मिन् एव काले दूरात् बालकानां दलम् उल्लासेन, आनन्देन सह ग्रामं प्रत्यागच्छति स्म । सर्वे बालकान् अपृच्छन्, “यूयं कुत्र आस्त” ? इति । “वयं तु क्रीडितुं पीलुडी-स्थलं गताः आस्म” इति गिरजाशङ्करः अवदत् । सर्वे आश्चर्यचकिताः सन्तः बालकान् पश्यन्तः आसन् । कोऽपि किमपि अन्यं प्रश्नं पृच्छेत् तस्मात् पूर्वम् एव गिरजाशङ्करः दृढस्वरेण अवदत्, “तत्र मातुलस्य भूतः नास्ति । तत् तु क्रीडितुम् अतिरमणीयस्थलम् अस्ति” इति । गिरजाशङ्करस्य निर्भीकोत्तरेण ग्रामवासिनः अपि किंवक्तव्यमूढाः अभवन् । सर्वैः अङ्गीकृतं यत्, “गिरजाशङ्करे साहसं, निर्भयता, नेतृत्वशक्तिः इत्यादयः उत्तमगुणाः सन्ति” इति । ततः सर्वे बालकाः पौनःपुन्येन पीलुडी-स्थलं क्रीडितुं गच्छन्ति स्म ।

माध्यमिकशिक्षणम्सम्पाद्यताम्

धूडी-विद्यालये यदा गिरजाशङ्करस्य अध्ययनं पूर्णम् अभवत्, तदा सः माध्यमिकशिक्षणार्थं स्वमातुलस्य गृहम् अगच्छत् । गिरजाशङ्करः भावनगरे स्थिते स्वमातुलस्य गृहे निवस्य अध्ययनं प्रारभत । तस्य मातुलः हरगोविन्दः नगरस्य प्रतिष्ठितः सज्जनः व्यक्तिः आसीत् । जनेषु तं प्रति बहुमानम् आसीत् । अतः तस्य पुत्रौ चीटिकाम् अस्वीकृत्य बस्-यानेन आवागमनम् कुर्वन्तौ आस्ताम् । ग्रामवासी गिरजाशङ्करः तु नगरस्य पद्धत्या अनभिज्ञः आसीत् । मातुलपुत्रौ यथा यानेन आवागमनं कुर्वन्ति स्म, तथैव सः अपि प्रारभत । एकदा मातुलः बालकानां कृत्यविषये अजानत् । सः स्वबालकान् आहूय प्रेम्णा अबोधयत्, “यूयं येन यानेन आवागमनं कुर्वन्तः स्थ, तत् यानम् अस्माकं नास्ति । तेन यानेन प्रवासं कर्तुं चीटिकायाः आवश्यकता भवति । यदि यूयं चीटिकाम् अस्वीकृत्य एव यानेन प्रवासं कुरुथ, तर्हि यूयं सामाजिकम् अपराधं कुर्वन्तः स्थ । नैतिकरीत्या अपि एतत् कार्यम् अयोग्यं वर्तते । अतः कदापि यूयम् एवं मा कुरुत । भविष्यत्काले यदि कदापि यानेन प्रवासस्य इच्छा भवति, तर्हि मां सूचयत । अहं चीटिकाम् आनीय तुभ्यं दास्यामि” इति । “यस्मिन् वस्तुनि अस्माकम् अधिकारः नास्ति, तस्य उपभोगः न कर्तव्यः” इति मातुलस्य कथनसारस्य गिरजाशङ्करः आजीवनं पालनम् अकरोत् ।

माध्यमिकशिक्षणकाले किशोरावस्थायां प्राप्तः गिरजाशङ्करः अध्ययनस्य महत्त्वं जानाति स्म । सः अध्ययनाग्रही गृहकार्यं कृत्वैव शालां गच्छति स्म । शिक्षकः यत् अपाठयत्, तस्य मननं सः सर्वदा करोति स्म । यदि कश्चन सहपाठी पाठविषये समस्याम् अनुभवति स्म, तर्हि गिरजाशङ्करः तस्य समस्यानां समाधानाय प्रयासं करोति स्म । गिजुभाई इत्यस्य मित्रं, सहाध्यायी, प्रख्यातसाहित्यिकः रामनारायणः स्वजीवन्याम् अलिखत्, “गिजुभाई इत्यस्मिन् विद्यमानाः प्ररिश्रम-परोपकार-साहसानां गुणाः मया विद्यार्थिकाले एव अनुभूताः आसन् । तस्य एकैव विचारधारा आसीत् यत्, मनुष्यः परिश्रमेण सत्कार्येण च महत् लक्ष्यमपि प्राप्तुं शक्नोति” इति ।

वैवाहिकजीवनम्सम्पाद्यताम्

१९०२ तमे वर्षे गिजुभाई मेट्रिक् इत्यस्य अध्ययनं कर्तुं भावनगरस्य शामळदास-महाविद्यालये प्रवेशं प्राप्नोत् । तस्मिन् एव वर्षे तस्य विवाहः हरिबेन-नामिकया कन्यया सह अभवत् । परन्तु तयोः विवाहः अधिकसमयं यावत् नाचलत् । हरिबेन इत्यस्याः मृत्युः अभवत् । ततः गिजुभाई इत्यस्य मातुः अपि निधनम् अभवत् । अतः अनुजानां शिक्षण-पोषणादीनां भारः गिजुभाई इत्यस्योपरि आपतितः । ततः बीलखा-पत्तनस्य जडीबेन-नामिकया कन्यया सह तस्य पुनर्विवाहः अभवत् । गृहस्य दायित्वं तु अपाभवत्, परन्तु आर्थिकस्थितिः तु कृपणा एव आसीत् । अतः गिजुभाई अध्ययनं मध्ये त्यक्त्वा मुम्बई-महानगरस्य व्यापारिकसंस्थायां कार्यं प्रारभत । कानिचन वर्षाणि तत्र कार्यं कृत्वा अधिकं वेतनं प्राप्तुम् अफ्रिका-देशगमनस्य निश्चयम् अकरोत् । अतः सः १९०७ तमे वर्षे अफ्रिका-देशम् अगच्छत् ।

अफ्रिका-देशे गिजुभाईसम्पाद्यताम्

१९०७-१९१० वर्षत्रयं सः अफ्रिका-देशे वाक्कीलस्य कार्यालये कार्यम् अकरोत् । अफ्रिका-देशे सः स्टीवन्सन्-नामकस्य सॉलिसिटर् तथा वाक्कीलस्य कार्यालये कार्यं करोति स्म । कार्यालये गिजुभाई नवीनः आसीत्, अतः सः पौनःपुन्येन स्टीवन्सन् इत्यस्य साहाय्यम् अपेक्षते स्म । परन्तु स्टीवन्सन् तं सर्वदा एकवाक्यमेव कथयति स्म यत्, “स्वबुद्ध्या कुरुष्व” इति । आरम्भे तु गिजुभाई बधेका क्रोधम् अन्वभवत् । किन्तु ततः सः तत् वाक्यं स्वजीवनस्य ध्येयमन्त्रत्वेन अङ्ग्यकरोत् । यत्किमपि भवति स्म, तस्मिन् समये सः स्वयमेव निराकरणं प्राप्तुं प्रयासं करोति स्म । अफ्रिका-देशे यापितानि त्रीणि वर्षाणि तस्य शिक्षकजीवनस्य आधारशिला अभवत् ।

अफ्रिका-देशे यदा गिजुभाई निवसति स्म, तदा नैकाः भारतीयाः, वैदेशिकाः तस्य मित्राणि अभूवन् । यानि वैदेशिकानि मित्राणि आसन्, तानि गिजुभाई संस्कृतं पाठयति स्म । तस्मिन् काले गिजुभाई इत्यनेन स्वयम् अनुभूतं यत्, “मयि पाठनस्य उत्तमगुणाः सन्ति” इति । शिक्षके स्वतन्त्रनिर्णयशक्तिः, सहनशीलता, निर्भयता, प्रेम, सद्भावः, धैर्यं, रचनात्मकता इत्यादिगुणाः आवश्यकाः । एते सर्वे गुणाः गिजुभाई इत्यस्मिन् आसन् ।

गिजुभाई यदि ऐषिष्यत्, तर्हि अफ्रिका-देशे एव आजीवनं यापयिष्यत् । परन्तु स्वमातृभूमेः सेवायै तत्परः गिजुभाई १९१० तमे वर्षे भारतं प्रत्यागच्छत् । भारतम् आगत्य गिजुभाई अफ्रिका-देशस्य स्वानुभवान् पुस्तकमाध्यमेन समाजस्य सम्मुखम् उपास्थापयत् । सः ‘आफ्रिकानी सफरे’ (આફ્રીકાની સફરે), ‘आफ्रिका साम्भर्युं’ (આફ્રીકા સાંભર્યું) इत्याख्ये पुस्तके अलिखत् ।

मुम्बई-महानगरे अध्ययनम्सम्पाद्यताम्

१९१० तमे वर्षे अफ्रिका-देशात् भारतं पुनरागते यद्यपि आजीविकायाः प्रश्नः तु गिजुभाई इत्यस्य सम्मुखम् आसीत् एव, तथापि सः स्वमातुलेन सह चर्चां कृत्वा वाक्कीलस्य अध्ययनं मुम्बई-महानगरे आरभत । मुम्बई-महानगरस्य मगनबाग-विस्तारे लघुगृहे सपरिवारं निवस्य अध्ययनेन सह गृहस्थदायित्वान् अपि सः वहति स्म । अर्थोपार्जनार्थं सः एकस्यां शालायां पाठयति स्म ।

महादेवभाई देसाई, रामनारायण पाठक, कलागुरुः रविशङ्कर रावल इत्यादयः शिक्षणप्रेमिणः पौनःपुन्येन तस्य मुम्बई-महानगरे स्थितं लघुगृहं गच्छन्ति स्म । अनेकवारं महादेवस्य अट्टहास्येन, शेषस्य काव्यगानेन, कलागुरोः रविशङ्करस्य कथाप्रसङ्ग्रैः च गिजुभाई इत्यस्य लघुगृहं गुञ्जति स्म । पञ्चविंशतिवर्षीयः गिजुभाई स्वमित्रैः सह भविष्यकालस्य स्वप्नम् अपि पश्यति स्म । यतो हि तस्मिन् काले ‘लालबालपाल’ इत्येते क्रान्तिकारिणः यूनाम् आदर्शाः आसन् । ‘स्वराज मेरा जन्मसिद्ध अधिकार है’ इत्येनेन जयघोषेण लोकमान्य टिळक अपि यूनां हृदि निवसति स्म । गिजुभाई, महादेवभाई च चिन्तयतः आस्ताम्, “अस्माभिः स्वमातृभूम्यै किमपि करणीयं, स्वमातृभूमेः स्वतन्त्रतायै योगदानं कर्तव्यमेव च” इति । तयोः चिन्तनं मित्रमण्डले चर्चायाः विषयः अभवत् । नरहरि परीख, हरभाई त्रिवेदी अपि तस्यां चर्चायां भागम् अवहेताम् । मित्रमण्डलस्य अन्तिमनिर्णयः आसीत् यत्, “वयं तु शिक्षणजगते कृतसङ्कल्पाः । वयं आगामिसन्ततिं (future generation) राष्ट्रसेवायाः संस्कारैः पोषयामः । तेषु स्वाधीनता, धैर्यं, चारित्र्यं, परिश्रमम् इत्यादीनां गुणानां सिञ्चनं करिष्यामः, येन यदि स्वाधीनतां प्राप्नुमः, तर्हि ते स्वाधीनतां चिरकालं यावत् अखण्डयितुं सज्जाः, समर्थाः च भवेयुः” इति । (एषः सङ्कल्पः एव शिक्षणप्रथां परिवर्तयितुं गिजुभाई इत्यस्य प्रेरकः अभवत् ।)

वाक्कीलत्वेन गिजुभाईसम्पाद्यताम्

एतावता एकवर्षस्य कालः व्यतीतः गिजुभाई डिस्ट्रिक्ट् प्लीडर् इति पदं प्राप्नोत् । अध्ययने समाप्ते सति गिजुभाई मुम्बई-महानगरात् वल्लभीपुरम् अगच्छत् । गिजुभाई वल्लभीपुरतः सुरेन्द्रनगरमण्डलस्थं वढवाण-पत्तनं गत्वा १९११ तमे वर्षे वाक्कीलत्वेन वृत्त्युपार्जनं प्रारभत । स्वस्य कर्मठतायाः, दृढनिर्णयशक्त्याः कारणेन शीघ्रं हि गिजुभाई वाक्कीलत्वेन प्रतिष्ठां प्रापत् । वाक्कीलस्य कार्यं कुर्वन् सः शिक्षकत्वेन अपि स्वदायित्वं वहति स्म । सः वाक्कीलस्य अध्ययनं कुर्वतः छात्रान् विना शुल्कं पाठयति स्म । तेन प्रेरितानि तस्य मित्राणि अपि छात्रान् विना शुल्कं पाठयन्ति स्म । एषः अनुभवः गिजुभाई इत्यस्य शालास्थापनस्य आधारः आसीत् ।

गिजुभाई प्रामाणिकेभ्यः अभियोगेभ्यः एव कार्यं करोति स्म । मिथ्याभियोगाय, लम्पटरक्षणाभियोगाय, चौररक्षणाभियोगाय गिजुभाई कार्यं न करोति स्म । परन्तु तस्य पुरतः वारं वारम् एतादृशाः अभियोगाः आगच्छन्ति स्म । एकदा एकः व्यापारी अभियोगस्य चर्चां कर्तुं गिजुभाई इत्यस्य कार्यालयम् अगच्छत् । परन्तु अभियोगः नीतिविरुद्धः अस्ति इति यदा गिजुभाई अजानत्, तदा सः व्यापारिणा दत्तं पुस्तकं कार्यालयात् बहिः अक्षिपत् । गिजुभाई क्रोधेन अवदत्, “एतादृशेभ्यः अभियोगेभ्यः कार्यं कर्तुम् अहं वाक्कीलः नाभवम् । मम सम्मुखात् गच्छ” इति ।

यदा एषा घटना घटिता, तदा गिजुभाई इत्यस्य हृदयम् अत्युग्रम् आसीत् । तस्य मनसि वाक्कीलस्य व्यवसायं प्रति घृणायाः भावः औद्भवत् । ततः वारद्वयं तादृशे घटने घटिते । मुम्बई-महानगरे आगामिसन्ततीनां चारित्र्यनिर्माणस्य यत् स्वप्नं गिजुभाई इत्यनेन स्वमित्रैः सह दृष्टम् आसीत्, तत् कदापि पूर्णं न भविष्यति इति तस्य सम्मुखम् आसीत् । तस्य मित्रं महादेवभाई देसाई महात्मने स्वजीवनं समार्पयत् । अन्यमित्राणि स्वजीवनस्य लक्ष्यं प्रति अग्रे धावन्ति स्म । गिजुभाई अपि स्ववर्तमानस्थितेः विषये बहुधा चिन्तयति स्म । तानि दिनानि गिजुभाई इत्यस्य कृते अतिकष्टकराणि आसन् ।

पुत्रजन्म, जीवनपरिवर्तनञ्चसम्पाद्यताम्

१९१३ तमस्य वर्षस्य 'फरवरी'-मासस्य सप्तविंशतितमे (२७/२/१९१३) दिनाङ्के गिजुभाई इत्यस्य गृहे पुत्रस्य जन्म अभवत् । पुत्रस्य जन्म गिजुभाई इत्यस्य जीवनपरिवर्तनस्य कारणम् अभवत् । तस्मिन् वर्षे गिजुभाई इत्यस्य वयः सप्तविंशतिः आसीत् । प्रतिदिनं पुत्रस्य नरेन्द्रस्य वयवर्धनेन सह गिजुभाई इत्यस्य चिन्ताः अपि वर्धन्ते स्म । यतो हि सः जानाति स्म यत्, “सद्यः कालीना शिक्षणप्रणालिः तु बालानां कल्पनानां, बाल्यजीवनस्य कोमलतायाः च हननं कुर्वती अस्ति । सर्वासु शालासु अज्ञानान्धकारस्य वातावरणम् अस्ति” इति । एतादृशाः विचाराः प्रतिदिनं तस्य मानसपटले उद्भवन्ति स्म । सः मार्गान्वेषकत्वेन नित्यं नरेन्द्रस्य भिविष्यस्य परिक्लपनां करोति स्म ।

एतादृशाः विचाराः तस्य मनसि उद्भवेयुः इति सामान्यम् आसीत् । यतो हि पुरा स्वमित्रैः सह स्थित्वा तेन सङ्कल्पः कृतः आसीत् यत्, “अस्माभिः स्वमातृभूम्यै किमपि करणीयं, स्वमातृभूमेः स्वतन्त्रतायै योगदानं कर्तव्यमेव च । वयं तु शिक्षणजगते कृतसङ्कल्पाः । वयं आगामिसन्ततिं (next generation) राष्ट्रसेवायाः संस्कारैः पोषयामः । स्वाधीनता, धैर्यं, चारित्र्यं, परिश्रमः त्यागः इत्यादीनां गुणानां तेषु सिञ्चनं करिष्यामः, येन राष्ट्रस्वातन्त्र्यानन्तरं ते स्वाधीनतां चिरकालं यावत् रक्षितुं सज्जाः, समर्थाः च भवेयुः” इति ।

गिजुभाई इत्यस्य मनः कार्ये सल्लग्नमेव न भवति स्म । नरेन्द्रस्य भविष्यस्य चिन्ताः तस्य मुखोपरि प्रत्यक्षाः आसन् । अतः निकटवर्तिनः जनाः तं चिन्तायाः कारणम् अपृच्छन् । गिजुभाई नरेन्द्रस्य भविष्यविषये सर्वान् कथयति स्म । परन्तु भिन्नाः जनाः भिन्नमतानि यच्छन्ति स्म । शनैः शनैः सर्वे गिजुभाई इत्यस्य उपहासं प्रारभन्त । बहवः तस्मै परामर्शं यच्छन्ति स्म यत्, “तव एकस्य गृहे एव पुत्रजन्म नाभवत्, अपि तु सर्वेषां गृहे पुत्रजन्म भवति । सर्वे यदि त्वत्सदृशं कार्यं त्यक्त्वा पुत्रस्य भविष्यविषये चिन्तयेयुः, तर्हि वृत्त्युपार्जनं कथं कुर्युः ? एतादृशं चिन्तनं त्यक्त्वा वृत्त्युपार्जनस्य उपरि ध्यानं यच्छस्व” इति । परन्तु गिजुभाई प्रत्युत्तरं यच्छति स्म यत्, “मत्सदृशं यूयम् अपि स्वपुत्रस्य भविष्यविषये चिन्तनं प्रारभध्वम् । अन्यथा तेषां भविष्यम् अन्धकारमयं भविष्यति, यत् भवताम् अपि भविष्यम् अस्ति” इति ।

एकदा गोपालदास दरबार इत्यनेन सह गिजुभाई स्वपुत्रस्य भविष्यविषये चर्चां कुर्वन् आसीत् । तदा गोपालदासः अवदत्, “भोः मित्र ! तव चिन्तायाः विषये मम पार्श्वे एकः उपायः अस्ति । त्वं वसो-ग्रामे स्थितं बालविद्यालयं गत्वा तत्र मोतीभाई अमीन इत्यस्य सम्पर्कं कुरु । सः निश्चयेन तव मार्गदर्शनं करिष्यति” इति ।

गिजुभाई वसो-ग्रामम् अगच्छत् । बालविद्यालयं दृष्ट्वा सः आनन्दम् अन्वभवत् । मोतीभाई अमीन इत्ययं गिजुभाई इत्यस्मै मॉन्टेसरी इत्यस्याः साहित्यम् अयच्छत् । यथा यथा गिजुभाई मॉन्टेसरी इत्यस्याः साहित्यं पठन् आसीत्, तथा तथा तस्य मनसि विद्यमानः नरेन्द्रस्य भविष्यविषयकः भयः अपाभवन् आसीत् । पठनेन सह यद् कार्यान्वययोग्यम् आसीत्, तत् गिजुभाई कार्यान्वयम् अकरोत् । पुत्रस्य जीवने मॉन्टेसरी-पद्धत्याः अनुकूलं प्रभावं दृष्ट्वा गिजुभाई अन्यान् अपि एतस्याः पद्धत्याः विषये कथयति स्म । सः स्ववाक्कीलमित्राणि कथयति स्म यत्, “इटली-देशे एका मॉन्टेसरी-नामिका शिक्षिका अस्ति । सा बालकानां वयानुसारम् अभ्यासक्रमस्य रचनां कृतवती अस्ति । तस्याः अभ्यासक्रमानुसारं ये बालकाः पठन्ति, तेषां शारीरिक-मानसिक-आध्यात्मिकविकासः, कार्यशैल्याः विकासः च प्राकृतिकरीत्या, शीघ्रतया च भवति” इति ।

गिजुभाई इत्यस्य अभियोगस्य कार्यं चलदासीत् । परन्तु वाक्कीलाय वेतनं दातुं जनाः स्वपुत्रस्य शिक्षणस्य, भोजनस्य, भविष्यस्य च चिन्तनं न कुर्वन्ति इति विचारः तस्य मनसि वारं वारम् उद्भवति स्म । वाक्क्लीत्वेन सः अधिकं कार्यं कर्तुं नेच्छति स्म । परन्तु तस्य मनसि आजीविकायाः विषये द्वन्द्वः आसीत् । शनैः शनैः तस्य मनसि वाक्कीलस्य कार्यं प्रति घृणा उद्भूता । सः किमपि अन्यत् कार्यं कर्तुम् अवसरम् अन्विष्यति स्म । तस्मिन् एव काले हरगोविन्दः (गिजुभाई इत्यस्य मातुलः) प्रो. नृसिंहप्रसाद इत्यनेन सह मिलित्वा छात्रालयम् अस्थापयत् । छात्रालयस्य नियमानां रचनां कर्तुं हरगोविन्दः स्वभागिनेयम् (गिजुभाई इत्येनम्) अकथयत्, “त्वम् एतस्य छात्रालयस्य नियमनिर्माणस्य दायित्वं स्वीकुरु” इति । छात्रालयस्य कार्यार्थं गिजुभाई वारं वारं सुरेन्द्रनगरात् भावनगरं गच्छति स्म । एकदा नानाभाई (प्रो. नृसिंहप्रसाद) गिजुभाई इत्येनं दक्षिणामूर्तिसंस्थायां (छात्रालयः एतस्याः संस्थायाः भागः आसीत् ।) एव कार्यं कर्तुम् आग्रहेण अवदत् । वाक्कीलस्य कार्येण त्रस्तः गिजुभाई सर्वं त्यक्त्वा १९१६ तमस्य वर्षस्य 'नवम्बर'-मासस्य त्रयोविंशतितमे (२३/११/१९१६) दिनाङ्के दक्षिणामूर्त्याः छात्रालयस्य गृहपतित्वेन (warden) दायित्वम् अङ्ग्यकरोत् । १९१३-१९१६ सः गुजरातराज्यस्य वढवाण-पत्तने उच्चन्यायालयस्य डिस्ट्रिक्ट् प्लीडर्-त्वेन दायित्वम् अवहत् । ततः आजीवनं बालशिक्षणस्य कार्याय समार्पयत् ।

शिक्षणविद् गिजुभाई बधेका [४]सम्पाद्यताम्

गिजुभाई यदा दक्षिणामूर्तौ छात्रावासे कार्यं कुर्वन् आसीत्, तदा तेनानुभूतं यत्, “छात्रालयेन सह यदि विद्यालयः अपि स्यात्, तर्हि बालकानां विकासः सम्पूर्णरीत्या भूयात्” इति । अतः १९१८ तमस्य वर्षस्य 'जुलाई'-मासस्य प्रथमे (१/७/१९१८) दिनाङ्के सञ्चालकानां सहयोगेन सः कुमारविनयमन्दिरस्य स्थापनाम् अकरोत् । सः तस्य विद्यालयस्य आचार्यत्वेन कार्यं प्रारभत । वर्षचतुष्टयं गिजुभाई कुमारविद्यालयस्य आचार्यत्वेन दायित्वम् अवहत् । परन्तु तेषु चतुर्षु वर्षेषु दक्षिणामूर्तिः शिक्षणस्य कार्यशाला अभवत्, यस्यां गिजुभाई इत्यस्य मार्गदर्शने शिक्षकाः विद्यार्थिनः पाठयन्ति स्म ।

गिजुभाई यदा कुमारविद्यालये पाठयति स्म, तदा तेनानुभूतं यत्, “कुमारावस्थायां प्राप्ते सत्यपि बालकानां योग्यविकासः न जातः अस्ति । यतो हि एतेषां पूर्वशिक्षणं योग्यरीत्या नाभवत्” इति । बहूनां दिनानां मार्गान्वेषणानन्तरं गिजुभाई बालविद्यालयस्य स्थापनायाः निर्णयम् अकरोत् । तस्य चिन्तनम् आसीत् यत्, “कुमारावस्थायाः अपेक्षया बाल्यावस्थायां बालकनां विकासः अधिकवेगेन भवितुम् अर्हति । बाल्यावस्थायाः योग्यशिक्षणम् एव कुमारावस्थायां विकासस्य आधारः भवति । अधुना कुमारछात्राणां पृष्ठे यः परिश्रमः भवति, सः धूलिकायां गोमलस्य लेपनवत् भविष्यति” इति । अतः १९२० तमस्य वर्षस्य 'अगस्त'-मासस्य प्रथमे (१/८/१९२०) दिनाङ्के गिजुभाई बालविद्यालयस्य स्थापनाम् अकरोत् ।

बालशिक्षणे क्रान्तिःसम्पाद्यताम्

बालकाः यदा विद्यालयं गच्छन्ति, तदा तेषां मनसि कोऽपि विशेषभावः न भवति । तेषां मनसि शून्यम् एव भवति । अतः गिजुभाई इत्यनेन शून्यात् सर्जनं कर्तव्यम् आसीत् । शून्यात् सर्जनस्य भावः एव गिजुभाई इत्यस्मिन् नवचेतनाम् अपूरयत् । गिजुभाई पूर्वापेक्षया शीघ्रं कार्यं करोति स्म । स्वल्पे एव काले गुजरातराज्यस्य प्रत्येकस्मिन् कोणे दक्षिणामूर्तेः बालशिक्षणस्य चर्चा आरब्धा । विभिन्नानां पाठशालानाम् आचार्याः गिजुभाई इत्येनम् आहूय मार्गदर्शनम् इच्छन्ति स्म । गुजरातराज्यस्य विभिन्नेभ्यः स्थानेभ्यः जनाः दक्षिणामूर्तेः बालविद्यालयं द्रष्टुं गच्छन्ति स्म । गिजुभाई इत्यस्य लक्ष्यम् आसीत् यत्, “बालकानां विकासः भवेत् । तेषां भविष्यस्य सम्भावना पूर्णरीत्या समुद्भवेत्” इति । परन्तु तल्लक्ष्यं प्राप्तुं शिक्षकाणां, पालकानां च मार्गदर्शनम् आवश्यकम् आसीत् । गुजरातराज्यस्य विद्यालयेषु दण्डस्य स्थानं क्रीडाः, शिक्षायाः स्थानं वार्ताः, रटनस्य स्थानं स्पर्धाः च अनयन् । बालकाः विद्यालयं गन्तुं न बिभ्यति स्म । गिजुभाई इत्यस्य परिश्रमः तु सफलः अभवत्, परन्तु योग्यशिक्षकाणाम् अभावत्वात् शिक्षकप्रशिक्षणस्य आवश्यकता उद्भूता । अतः शिक्षकप्रशिक्षणस्य कार्यम् अपि गिजुभाई इत्यस्य उपरि आपतितम् । दक्षिणामूर्तेः कार्यालये गिजुभाई प्रातरारभ्य रात्रिपर्यन्तं कार्यं करोति स्म । शनैः शनैः तेन अनुभूतं यत्, “शून्यात् सर्जनं भवदस्ति । यत्र बालकानां कृते चिन्तयितुं कोऽपि तत्परः नासीत्, तत्र एतावन्तः जनाः बालशिक्षणार्थम् एवावत् चिन्तनं कुर्वन्तः सन्ति” इति । वयस्कान् स्त्रीपुरुषान् पाठयितुं गिजुभाई इत्ययं रात्रिविद्यालयस्य अपि आरम्भम् अकरोत् ।

साहित्यरचनासम्पाद्यताम्

गिजुभाई स्वशक्त्यनुसारं शिक्षणजगतः सेवां कुर्वन् आसीत् । परन्तु शिक्षणक्षेत्रे एतावान् अन्धकारः व्याप्तः आसीत् यत्, एकस्य गिजुभाई इत्यस्य अस्तित्वं न गण्यम् आसीत् । अतः गिजुभाई इत्यनेन अन्धकारं परिहर्तुं साहित्यमाध्यमेन स्वविचाराणां व्यासः वर्धितः । सः बालवार्ताः, बालनाटकानि, बालकाव्यानि च अलिखत्, येन बालकाः हास्येन सह अध्ययनं कर्तुं पारयेयुः । शिक्षकाणां मार्गदर्शनार्थं दिवास्वप्नम् इति पुस्तकम् अलिखत् । दिवास्वप्नम् एतावत् प्रसिद्धम् अस्ति यत्, अद्यापि शिक्षकप्रशिक्षणस्य अभ्यासक्रमे अनिवार्यत्वेन दिवास्वप्नस्य समावेशः भवति । तेन अन्यानि उत्कृष्टसाहित्यानि अपि शिक्षणक्षेत्राय समर्पितानि । यथा –

  • शिक्षणसम्बद्धाः रचनाः [५] :-
देवनागरी गुजराती
दिवास्वप्न દિવાસ્વપ્ન
वार्तानुं शास्त्र વાર્તાનું શાસ્ત્ર
मा-बाप थवुं आकरूं छे મા-બાપ થવું આકરૂં છે
स्वतन्त्र बालशिक्षण સ્વતન્ત્ર બાલશિક્ષણ
मॉन्टेसरी पद्धति મૉન્ટેસોરી પદ્ધતિ
अक्षरज्ञान योजना અક્ષરજ્ઞાન યોજના
बाल क्रीडाङ्गणो બાલ ક્રીડાંગણો
शिक्षक हो तो શિક્ષક હો તો
घरमां बाळके शुं करवुं ઘરમાં બાળકે શું કરવું
  • बालसम्बद्धाः रचनाः :-
देवनागरी गुजराती
ईसपनां पात्रो ઈસપનાં પાત્રો
किशोर साहित्य (६ भागाः) કિશોર સાહિત્ય (૬ ભાગ)
बाल साहित्य माळा (२५ भागाः) બાલ સાહિત્ય માળા (૨૫ ભાગ)
बाल साहित्य वाटिका (२८ भागाः) બાલ સાહિત્ય વાટિકા (૨૮ ભાગ)
जङ्गल सम्राट टारज़ननी अद्भुत कथाओ (१० भागाः) જંગલ સમ્રાટ ટારઝનની અદ્ભુત કથાઓ (૧૦ ભાગ)
बाल साहित्य माळा – २ (८० भागाः) બાલ સાહિત્ય માળા- ૨ (૮૦ ભાગ)
  • अन्याः रचनाः :-
देवनागरी गुजराती
बोरसदनी वीराङ्गनाओ બોરસદની વીરાંગનાઓ
बारडोलीनी हिजरत બારડોલીની હિજરત
चालो वांचीए ચાલો વાંચીએ
प्रसङ्गिक मनन પ્રાસંગિક મનન
शान्त पळोमां શાંત પળોમાં
आफ्रिकानी सफरे આફ્રિકાની સફરે
आफ्रिका साम्भर्युं આફ્રિકા સાંભર્યું

स्वतन्त्रतान्दोलने योगदानम्सम्पाद्यताम्

१९३० तमे वर्षे आभारतं स्वतन्त्रतायाः ईप्सायां लीनम् आसीत् । सर्वत्र आङ्ग्लविरोधीनि आन्दोलनानि भवन्ति स्म । स्वातन्त्र्यसेनानिनः जनसहयोगेन पदयात्राः, सम्मेलनानि, कारागारयात्राः च कुर्वन्तः आसन् । तेषु दक्षिणामूर्तेः सहस्थापकः नरसिंहः अपि आसीत् । नरसिंहभाई महात्मना प्रेरिते लवणान्दोलने योगदानम् अकरोत् । तस्मिन् आन्दोलने योगदानत्वात् नरसिंहः कारागारे आसीत् । गिजुभाई स्वशिक्षणप्रथायाः परिष्कारस्य कार्ये रतः आसीत् । परन्तु नरसिंहभाई इत्यस्य कारावासस्य समाचारं श्रुत्वा सोऽपि स्वतन्त्रतान्दोलने योगदानं कर्तुम् उद्यतः अभवत् ।

महात्मनः नेतृत्वे गिजुभाई लवणसत्याग्रहे योगदानम् अयच्छत् । परन्तु शिक्षणपूजकः सः स्वतन्त्रतान्दोलने अपि शिक्षणस्य कार्यमेव अकरोत् । स्वतन्त्रतान्दोलनाय यौ दम्पती गृहात् बहिः गच्छतः स्म, तौ स्वशिशूनां विषये मुहुर्मुहुः चिन्तनं कुरुतः स्म । केचन बालकानां पोषणाय आन्दोलनाय अगत्वा गृहे एव तिष्ठन्ति स्म । परन्तु गिजुभाई बालकानां रक्षणस्य, आवश्यकतापूर्तेः च दायित्वं स्वीकृत्य तेषु नवोर्जायाः सिञ्चनम् अकरोत् । ततः बारडोली-ग्रामस्य जनाः निर्भीकतया आन्दोलने भागं ओढुं स्वतन्त्राः आसन् ।

आन्दोलनस्य रणक्षेत्रमपि गिजुभाई इत्यस्य कृते शिक्षणस्य विद्यालयः अभवत् । सः प्रतिदिनं प्रातः ग्राम्यबालकान् स्नापयित्वा (नहला कर) क्रीडामाध्यमेन पाठयति स्म । सः नित्यं नवीनगीतानि, वार्ताः, कथाः च श्रावयित्वा बालकानां सर्जनात्मक-कल्पनात्मक-क्रियात्मकशक्तीनां विकासं करोति स्म । तस्य गीतेषु देशभक्तिः, समर्पणं, त्यागस्य च भावः भवति स्म । बालकाः पितरौ विस्मृत्य आदिनं गिजुभाई इत्यनेन सह पठन्ति स्म, क्रीडन्ति स्म, भ्रमन्ति स्म । ग्राम्यबालानां पाठनस्य तम् अनुभवं गिजुभाई ‘बाळ क्रीडाङ्गण’ (બાળ ક્રીડાંગણ) इत्यनेन पुस्तकमाध्यमेन समाजस्य सम्मुखम् उपास्थापयत् ।

गिजुभाई इत्यनेन आङ्ग्लविरुद्धं बालसेना सज्जा कृता आसीत् । सः आन्दोलनस्य भागरूपाणाम् अनेकानां परिषदां रचनाम् अपि अकरोत् । वानरसेना, माञ्जरसेना इत्यादयः परिषदः आसन् । बालकाः आन्दोलने यथा योग्यं योगदानं दद्युः, तथा तेषां मानसिकविकासः भवेत् इति गिजुभाई इत्यस्य उद्देशः आसीत् । हंसाबेन महेता इत्यस्याः अध्यक्षतायां गुजरातराज्यस्य सुरत-महानगरे वानरसेनायाः एका सभा आयोजिता । सभायाम् अधिकबालकानाम् अपेक्षा नासीत् । यतो हि बालकाः सभासु रुचिं न धरन्ते । परन्तु तस्यां सभायां बालकानां विशालसमूहः आसीत् । व्यवस्थापकस्य सर्वं गणितं व्यर्थम् अभवत् । शनैः शनैः सभायाः वातावरणम् उग्रं, कोलाहलपूर्णं च अभवत् । बालकाः किमपि अनिष्टं न कुर्युः इति गिजुभाई वार्ताः आरभत । एकस्याः पृष्ठे द्वितीया, द्वितीयायाः पृष्ठे तृतीया एवम् अविरतवार्ताः गिजुभाई अकथयत् । सभायां यः कोलाहलः आसीत्, सः “वन्दे मातरम्” जयघोषे परिवर्तितः ।

आन्दोलनस्य दिनेषु यदा बोरसदमण्डले गिजुभाई आसीत्, तदा सः ग्राम्यस्त्रीणां पदयात्रायाः उपरि आङ्ग्लानां दण्डप्रहारम् अपश्यत् । निर्दयिनः आङ्ग्लाः स्त्रीणां सम्मानस्य हननं कुर्वन्तः अमानवीयम् आचरणं कुर्वन्ति स्म । एतादृशं हृदयद्रावकं दृश्यं दृष्ट्वा गिजुभाई 'बारडोलीनी हिजरत' इति पुस्तकम् अलिखत् । स्त्रीणां करुणरोदनस्य, अप्रतिमसाहसस्य च वर्णनं तेन तस्मिन् पुस्तके कृतम् अस्ति ।

देशे आन्दोलनस्य वातावरणं दृष्ट्वा गिजुभाई आश्वस्तः आसीत् यत्, शीघ्रं हि भारतगणराज्यं स्वतन्त्रं भविष्यति इति । परन्तु स्वातन्त्र्यानन्तरं यदि जनाः अशिक्षिताः एव भविष्यन्ति, तर्हि अन्ये आगत्य तान् पराधीनतायाः पाशे बन्धयिष्यन्ति (बाँध देंगे) इति भयः अपि तस्य मनसि आसीत् । अतः सः शिक्षणज्ञानयोजनायाः रचनाम् अकरोत् । सः शिक्षणशास्त्रस्य सिद्धान्तान् जनसामान्यान् कथयति स्म । सः एतस्य प्रचारस्य कृते ‘चालो वांचीए’ (ચાલો વાંચીએ) -नामकम् एकं पुस्तकम् अपि अलिखत् । तस्य पुस्तकस्य प्रप्रथमं सफलप्रयोगं सः बीजल-नामकस्य मन्दिरद्वारपालस्य उपरि अकरोत् । ततः सः प्रतिग्रामं गत्वा शिक्षणस्य, अक्षरज्ञानस्य च प्रचारम् आरभत । भावनगरस्य शासनपक्षः गिजुभाई इत्यस्य साहाय्यम् अपि करोति स्म । गिजुभाई इत्यस्य शिक्षणप्रचारेण प्रभावितः बॉम्बे-प्रदेशस्य मुख्यप्रधानः बाळासाहेब खरे गिजुभाई इत्येनं न्यवेदयत् यत्, “भवान् राज्यस्य प्रौढशिक्षणविभागस्य दायित्वं स्वीकरोतु” इति । परन्तु गिजुभाई बालविकासस्य कार्यं त्यक्तुं नेच्छति स्म । अतः विनयेन सह तत्कार्यं नाङ्ग्यकरोत् ।

अन्तिमदिनेषु गिजुभाईसम्पाद्यताम्

गिजुभाई इत्यस्य बालशिक्षणस्य विचारः आगुजरातराज्यम् अङ्गीकृतः । अतः गिजुभाई इत्यस्य मार्गदर्शनार्थं सर्वे तं पौनःपुन्येन आह्वयन्ति स्म । बालशिक्षणेन सह गिजुभाई अन्यस्य मार्गदर्शनार्थं यात्राः अपि करोति स्म । शनैः शनैः तस्य शरीरम् अशक्तम् अभवत्, येन सः रुग्णः अभवत् । व्याधिः, उदरपीडा, श्वसनसमस्या इत्यादिभिः रोगैः सः ग्रसितः अभवत् ।

वैद्यः तं विश्रान्तिं स्वीकर्तुम् अवदत् । परन्तु गिजुभाई वैद्यस्य परामर्शम् अवगण्य नित्यं बालशिक्षणस्य कार्यं करोति स्म । एकदा नरसिंहः अवदत्, “अश्वः यदा श्रान्तः भवति, तदा तु तेन निश्चयेन विश्रान्तिः स्वीकरणीया” इति । नरसिंहस्य व्यङ्ग्यम् अवगम्य गिजुभाई प्रत्युदतरत्, “नानाभाई ! ये जनाः दीर्घायुष्यस्य कामनां कुर्वन्ति, तादृशाः मूर्खाः केऽपि न भवन्ति । शतवर्षस्य आयोः कामनां कृत्वा तस्मिन् आयौ दशवर्षस्यापि कार्यं न करणीयम् इति मह्यं न रोचते । अहं तु पञ्चाशत्वर्षस्य आयौ शतवर्षस्य कार्यं कृत्वा गन्तुम् इच्छामि । भोजनं, शयनं, वृत्तिः, मनोरञ्जनं, विश्रामः इत्यादीनि तुच्छकार्याणि कृत्वैव अहं गन्तु नेच्छामि, अपि तु विशेषकार्यं कृत्वा सन्तोषेण प्रस्थानम् इच्छामि” इति ।

१९१६ तमे वर्षे गिजुभाई दक्षिणामूर्तेः यत् आजीवनसभ्यपदं प्रापत्, तत् १९३६ तमे वर्षे पूर्णम् अभवत् । विनयेन समयस्य अवलोकनं कृत्वा गिजुभाई दक्षिणामूर्तेः त्यागम् अकरोत् । संस्थां न त्यक्तुम् सर्वे अनेकवारं तस्मै परामर्शम् अयच्छन्, परन्तु सर्पः यथा जीर्णत्वचं त्यजति, तथैव गिजुभाई दक्षिणामूर्तेः त्यागम् अकरोत् ।

यद्यपि गिजुभाई चलितुम् अपि असमर्थः अभवत्, तथापि सः स्वकार्यं नात्यजत् । यतो हि तस्य जीवनस्य लक्ष्यद्वयम् अवशिष्टम् आसीत् । सः बालविद्यापीठस्य स्थापनां कर्तुम् इच्छति स्म, तथा च बालज्ञानकोशस्य निर्माणं कर्तुम् इच्छति स्म । परन्तु तल्लक्ष्यद्वयं साकारम् अकृत्वैव सः जीवनस्य यात्रां समापयत् ।

मृत्युःसम्पाद्यताम्

एकस्मिन् दिने सः कस्यचित् मूर्खसंन्यासिनः कथां श्रुत्वा बालकवत् अरोदत् । ततः एकस्मिन् पत्रे स्वहृदयपीडाम् अलिखत्, “आत्मदर्शनस्य मम ईप्सा अपूर्णा एव अभवत् । अहं स्वहृदयपीडां कं वदानि ?” इति । एतादृशैः गहनचिन्तनैः सह तस्य जीवनस्य अन्तिमश्वासः निकटम् आगच्छति स्म । सः मृत्युरूपस्य मध्यान्तरस्य प्रतीक्षां कुर्वन् एतस्य जन्मनः विषये बहुधा चिन्तयति स्म । पक्षाघातेन पीडितः सः यदा मुम्बई-महानगरस्य हरिकिशनदास-रुग्णालये आसीत् [६], तदा एकस्मिन् दिने सः अन्वभवत् यत्, तस्य अन्तिमः समयः निकटः अस्ति । अतः सः स्वलेखन्या कांश्चन अन्तिमविचारान् एकस्मिन् पत्रे अलिखत्, "जीवनं शास्वतं नास्ति । अहं स्वजीवनस्य अन्तिमश्वासं स्वीकरोमि । मम मृत्यौ सति कोऽपि मा रोदितु" इति । ततः एकं दीर्घं श्वासं स्वीकृत्य सः देहम् अत्यजत् । जीवनस्य प्रत्येकश्वासं बालसेवायै समर्प्य बालकानां "सस्मश्रुः माता" (मूछाळी माँ) १९३९ तमस्य वर्षस्य 'जून'-मासस्य त्रयोविंशतितमे (२३/६/१९३९) दिनाङ्के जगत् अत्यजत् । तस्य कार्याणि अनेकानां बालकानां, शिक्षकाणां जीवनं पर्यवर्तयन् । अद्यापि तस्य नाम्ना जनमनसि श्रद्धायाः, निष्ठायाः, दृढसङ्कपनायाः भावः समुद्भवति । बालकानां हितेच्छवे कोटिशः नमस्काराः ।

सम्बद्धाः लेखाःसम्पाद्यताम्

उद्धरणम्सम्पाद्यताम्

  1. "उपनामानि". परिचयदानम्. sureshbjani.wordpress.com. Retrieved १४/०३/२०१५. 
  2. "सश्मश्रुः माता". परिचयलेखनम्. teachersofindia.org. Retrieved १४/३/२०१५. 
  3. "गिरजाशङ्करः". परिचयलेखनम्. gujaratisahityaparishad.com. Retrieved १४/३/२०१५. 
  4. "शिक्षणविद् गिजुभाई बधेका". Retrieved १४/३/२०१५. 
  5. "शिक्षणसम्बद्धाः रचनाः". sureshbjani.wordpress.com. sureshbjani. Retrieved १४/३/२०१५. 
  6. "हरिकिशनदास-रुग्णालये". परिचयलेखनम्. gujaratisahityaparishad.com. Retrieved १४/३/२०१५. 
"https://sa.wikipedia.org/w/index.php?title=गिजुभाई_बधेका&oldid=422867" इत्यस्माद् पुनः प्राप्तिः