गुणविष्णुः
गुणविष्णुः साममन्त्रेषु व्याख्याम् अलखित्। तस्य साममन्त्रव्याख्यानस्य नाम मिथिलायां बङ्गप्रदेशे च प्रसिद्धमस्ति । तत्र सामवेदिनां नित्यनैमित्तिकविधीनाम् उपयोगिनः साममन्त्राणां व्याख्याकृता । अयं मिथिलायाः बङ्गप्रदेशस्य वा कस्मिश्चिदपि भागे न्यवसत् । अस्य छान्दोग्यमन्त्रभाष्यस्यैकं संस्करणं ‘कलकत्ता-संस्कृत-परिषद्’ नाम्नः संस्थातः प्रकाशितमभवत् । अस्य ग्रन्थस्य प्रस्तावनायां विद्वान् सम्पादकः गुणविष्णोः विषये अनेकेषां ज्ञातव्यविषयाणां विवेचनं कृतवान् । छान्दोग्यमन्त्रभाष्येदं सामवेदस्य कौथुमशाखायामुपरि अस्ति।[१] ‘सायणकृतमन्त्रभाष्यस्य आधारः गुणविष्णोः भाष्यमेवाऽस्ति' इति प्रवदन्ति प्रत्यालोचकाः । हलायुधेनाऽप्यस्य ग्रन्थस्योपयोगः कृतः’ इत्यपि प्रमाणं प्राप्यते। गुणविष्णुः बल्लालसेनोऽथवा तस्य प्रसिद्धपुत्रस्य लक्ष्मणसेनस्य राज्यकाले विद्यमानः आसीत् । अतोऽस्य समयः विक्रमस्य द्वादशशतकस्य चरमभागः त्रयोदशशतकस्यादिमभागश्च निश्चीयते । अस्य द्वावन्यावपि ग्रन्थौ स्तः - मन्त्रब्राह्मणभाष्यम्, पारस्करगृह्यसूत्रभाष्यञ्चेति । अनेन ज्ञातो भवति यदयं महानुभावः स्वसमयस्य वैदिकः अासीदिति ।
सम्बद्धाः लेखाः
सम्पादयतुसन्दर्भः
सम्पादयतु- ↑ 'हलायुधेन काण्वे कौथुमे गुणविष्जुना'