गुप्तसाम्राज्यम्

गुप्तसाम्राज्यम्
गुप्तसाम्राज्यम् क्रि.पू.४००
कालक्रमः
कालः क्रि.पू. २४०-५५०
पूर्ववंशः कन्ववंशः
आगमिवंशः पालवंशः
प्रस्थापकः {{{प्रस्थापकः}}}
राज्यम्
शासनप्रकारः राज्यम्
प्रधानपुरी पाटलिपुत्रः
मुख्यभाषाः {{{मुख्यभाषाः}}}
मतानि {{{मतानि}}}
गुप्तसाम्राज्यकालस्य अयस्तम्भः

क्रि श ४ शतकः ५ शतकपर्यन्तम् आसीत् गुप्तसाम्राज्यम् भारते । गुप्तानां काले समग्रं भारतम् एकीकृतम् अभवत् । भारतीये इतिहासे गुप्तकालः "भारतस्य सुवर्णकालः" इत्येव उल्लिखितः अस्ति । तदवसरे भारते विज्ञानं राजनैतिकव्यवहारः च प्रवृद्धौ । गुप्तवंशः श्रीगुप्तेन स्थापितः। अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायां कालिदासार्यभट्टविष्णुशर्मवराहमिहिरादयः विद्वांसः अवसन्। ६ शतके गुप्तसाम्राज्यस्य पतनानन्तरं पुनः भारतं बहूनां राजानां मध्ये विभक्तम् अभवत् । मध्य-एषियानां हूणानाम् अक्रमणस्य कारणतः गुप्तसाम्राज्यस्य नाशः अभवत् । तदनन्तरम् अपि गुप्तानां सोदरसम्बन्धी वंशः कश्चन मगधस्य शासनं करोति स्म ।

गुप्तवंशस्योद्भवनम्Edit

एस्.अल्टेकरः नामकः ऐतिहासकः गुप्तवंशिनः वैश्याः इति मन्यते यथा स्मृतिषु 'गुप्त'इति शब्दः वैश्याणां नामन्तरे एव उपयुक्तः इति कथ्यते।

श्रीगुप्तघटोत्कचौEdit

श्रीगुप्तः(२४०-२८०) घटोत्कचः(२८०-३१९) च मगधायाः राजानौ आस्ताम्।

चन्द्र्गुप्तःI (३१९-३३५)Edit

चन्द्रगुप्तःI एव प्रथमः गुप्तमहाराजः आसीत्। सः कुमारदेवी नाम लीच्चवीराजपुत्रीं परिणीय तेषाम् उपकारेण प्रयागं साकेथपुरीं च अजयत्। सः राजाधिराजः इति अभिधानं प्राप्तवान्।

समुद्रगुप्तः (३३५-३८०)Edit

समुद्रगुप्तः सः महान् सेनापतिः आसीत्। सः पाञ्चलान् मालवान् यौधेयान् अभिरान् च अजयत्। तस्य साम्राज्यस्य सीमाः उत्तरदिशि हिमालयः दक्षिणे नर्मदा पुर्वस्यां दिशि लौहित्य पश्चिम्याम् च यमुना अभवन्। सः अश्वमेधयज्ञम् अकरोत्। तस्य सभायां हरिशेना वसुबन्धुः अर्यसङ्गादयः पण्डिताः अवसन्। सः विष्णुभक्तः आसीत्।


रामगुप्तःEdit

रामगुप्तः समुद्रगुप्तस्य पुत्रः आसीत्। सः देवीचन्द्रगुप्तनाट्ये वर्णितः। तस्य केचन सिकाः अपि सन्ति।

चन्द्रगुप्तःII-विक्रमादित्यः(३८०-४१३)Edit

चन्द्रगुप्तविक्रमादित्यः दत्तदेव्याः पुत्रः आसीत्। सः कुन्तलदेशस्य (द्रुवस्वामिनी) नागदेशस्य (कुभेरनागा) च राजकुमार्यौ परिणीतवान्। तस्य दुहिता प्रभावती गुप्ता वाकाटक राजानम् रुद्रसेनम् विवाहम् अकरोत्।

सः रुद्रसिंहविराजितान् शकान् विजित्य सौराष्ट्रम् अन्तर्गतवान्। सः वङ्गान् च अजयत्। ततः सः पश्चिमोत्तरदिशि वक्षुतीरे वसतः परसिकान् कम्बोजान् हूणान् पुर्वस्यां दिशि च किराटान् किन्नरान् च अभिभवति स्म। सः देवगरपुरे दशावतारमन्दिरम् अस्थापयत्। तस्य शासने चित्रकला शिल्पकला साहित्यम् च् अवर्धन्त। तस्य सभायां नवरत्नानि अवसन् तेषु कालिदासः एकः

कुमारगुप्तःI (४२३-४५५)Edit

कुमारगुप्तःI विक्रमादित्यस्य द्वितीयः पुत्रः आसीत्। सः महेन्द्रादित्यः इति संज्ञाम् उरीकृतवान्।

स्कन्दगुप्तः(४५५-४६७)Edit

स्कन्दगुप्तः गुप्तवंशस्य अन्तिमः महान् राजा आसीत्। सः विक्रमादित्यः इति अभिधानम् उरीकृतवान्। तेन पश्चिमोत्तरदिशायाः पराक्रमन्तः हूणाः जिताः।

साम्राज्यस्य अन्तःEdit

ओप्रटोरमानमिहिरकुलैः नेतारः हूणाः निर्बलान् गुप्तराजान् अजयन्।

अन्तिमगुप्तराजाःEdit

सेनाEdit

गुप्तराज्ञां सेना सम्यक्प्रणिहिता वीर्यवती चासीत्। सेनायां बहवः धन्विनः पादसैनिकाः च अवर्तन्त। धनाः अयसा अथवा वेणुना निर्मिताः आसन्। शूलकवचखङ्गयुक्ताः सैनिकाः ताम् अपालयन्। ते सकवचान् गजान् उपायुजन्। तेषां सेनायां बहवः रथिनः आसन्। ते नगरनाशकाणि शस्त्राणि बिन्दिपालन् च उपायुजन्। तेषाम् नौसेना अपि आसीत्।

राजनीतिःEdit

राष्ट्रं षड्विंशति प्रदेशरूपेण विभक्तम् आसीत्। एवं प्रदेशाः विषयरूपेण विभक्ताः आसन्। विषयपतिः अधिकरणसङ्गसहितः विषयं समधितिष्ठति स्म। सङ्गे नगरश्रेष्ठी सार्थवाहः प्रथमकुलिका प्रथमकायस्था चाभवन्। विषयस्य खण्डः वीथी इति कथ्यते।

दायम्Edit

 
अजन्तागुहबौद्धचित्रम्
  • गणितविज्ञानादि क्षेत्रेषु च अवर्धन्त। अस्मिन् काले एव आर्यभटः वराहमिहिर: ब्रह्मगुप्त: इत्यादयः गणितज्ञाः अवसन्।
  • बहूनि काव्यानि नाटकानि च रचिताः। कालिदासः अपि अस्मिन् काले एव अवसत्।
  • नालन्दादयः विश्वविद्यालयाः स्थापितानि।
  • अस्मिन् काले राजानः अनेके देवालयान् स्तूपान् च अमिन्वन्। तेषु गुप्तलिप्याम् अनेकानि अभिलेखनानि कृतानि।

बाह्यसम्पर्कतन्तुःEdit