गोन्दियामण्डलं (मराठी: गोंदिया जिल्हा, आङ्ग्ल: Gondia district) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं गोन्दिया इति नगरम् | भण्डारामण्डलस्य विभाजनं कृत्वा १ मे १९९९ दिनाङ्के गोन्दियामण्डलं स्थापितम् । आदिवासिबहुसङ्ख्याङ्कं मण्डलम् इदम् ।

गोन्दियामण्डलम्

Gondia District

गोंदिया जिल्हा
मण्डलम्
महाराष्ट्रराज्ये गोन्दियामण्डलम्
महाराष्ट्रराज्ये गोन्दियामण्डलम्
देशः  India
जिल्हा गोन्दियामण्डलम्
उपमण्डलानि अर्जुनी/मोरगाव, आमगाव, सडक/अर्जुनी, सालेकसा, गोन्दिया, गोरेगाव, तिरोडा, देवरी
विस्तारः ५,६४० च.कि.मी.
जनसङ्ख्या(२०११) १३,२२,५०७
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://gondia.gov.in


भौगोलिकम् सम्पादयतु

महाराष्ट्रराज्यस्य ईशान्यभागे गोन्दियामण्डलं स्थितमस्ति । गोन्दियामण्डलस्य विस्तारः ५,६४० च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पश्चिमदिशि भण्डारामण्डलम्, दक्षिणदिशि गडचिरोलीमण्डलं, पूर्वदिशि छत्तीसगढराज्यम्, उत्तरदिशि मध्यप्रदेशराज्यं च अस्ति । अस्मिन् मण्डले १,१९७ मि.मी.मितः वार्षिकवृष्टिपातः भवति । वैनगङ्गा इति अस्य मण्डलस्य मुख्यनदी ।

जनसङ्ख्या सम्पादयतु

जनगणनानुगुणं(२०११) गोन्दियामण्डलस्य जनसङ्ख्या १३,२२,५०७ अस्ति । अस्मिन् मण्डले ६,६१,५५४ पुरुषाः, ६,६०,९५३ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. क्षेत्रे २५३ जनाः वसन्ति, अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २५३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.१४% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९९९ अस्ति । अत्र साक्षरता ८४.९५% अस्ति । गोन्दियामण्डलस्य ८२.९२% जनाः ग्रामीणभागे निवसन्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-

१ अर्जुनी/मोरगाव

२ आमगाव

३ सडक/अर्जुनी

४ सालेकसा

गोन्दिया

६ गोरेगाव

७ तिरोडा

८ देवरी

मण्डलमिदं भागद्वये विभक्तं, तौ च भागौ देवरी, गोन्दिया च । अस्मिन्मण्डले ९५४ ग्रामाः सन्ति । द्वे एव मुख्यनगरे स्तः । ते तिरोडा, गोन्दिया च ।

प्रशासनम् सम्पादयतु

अस्मिन् मण्डले ८ पञ्चायतसमितयः सन्ति । द्वे नगरपरिषदौ, ५५६ ग्रामपञ्चायतसमितयः च कार्यरताः सन्ति ।

सांस्कृतिकविशेषाः सम्पादयतु

अस्मिन् मण्डले आदिवासिबहुसङ्ख्याकानि उपमण्डलानि बहूनि वर्तन्ते, अतः तेषां विशिष्टा संस्कृतिः अपि दृश्यते । 'गोण्ड, कोलाम, माडिया, परधान' इत्येताः अनुसूचितजनजातयः अत्र निवसन्ति । तेषां 'गोण्डी', 'माडिया' इत्येते भाषे । 'पेरसा पेन' इति तेषां देवता नाम । एते जनाः शुभावसरेषु, सस्यसङ्ग्रहणावसरेषु च 'रेला' इति उत्सवम् आचरन्ति । 'ढोल' इति तेषां नृत्यम् । दसरा(दशहरा), दीपावलिः च तेषां प्रमुखोत्सवः । अत्रस्थाः आदिवासिजनाः अरण्यवासिनः।


वीक्षणीयस्थलानि सम्पादयतु

  • इतियाडोह जलबन्धः
  • नवेगाव-राष्ट्रियोद्यानम् - अर्जुनी उपमण्डलात् ६५ कि.मी. दूरे स्थितम् अस्ति ।
  • पद्मपुर - गोन्दिया इत्यस्मात् उपमण्डलात् ३० कि.मी. दूरे अस्ति । भवभूतेः जन्मस्थानम् इदम् ।
  • नाग्रा - गोन्दिया इत्यस्मात् उपमण्डलात् ५ कि.मी. दूरे अस्ति । पुरातत्वविभागेन उत्खननम् अत्र कृतम् । १५ तमे शतके निर्मितं शिवमन्दिरम् अत्र अस्ति ।
  • नागझिरा वनम् - प्रसिद्धम् अभयारण्यम् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गोन्दियामण्डलम्&oldid=480258" इत्यस्माद् प्रतिप्राप्तम्