गवां त्याज्यमपि गोमयं मानवलोकस्य सस्यलोकस्य च महोपकाराय भवति ।

  • उदररोग - अर्श - पाण्डु - कामला - कृमिरोग - चिकित्सासु गोमूत्रम् उपयुज्यते ।
  • प्रत्यहं प्रातरुत्थाय गोसमीपं गत्वा एकं माषदालं निमज्जयितुं यावत् आवश्यकं तावत् गोमूत्रं तीर्थरूपेण स्वीक्रियते चेत् रोगनिरोधकशक्ति: वर्धते इति प्रतीति: ।
  • गोमूत्रम् उत्तमं सस्यपोषकं भवति । एकलीटर्मितं गोमूत्रं दशलीटर्मितेन जलेन योजयित्वा सस्यमूले सेचनेन सस्यं पुष्टं सत् शीघ्रं बहु फलति ।
  • कृषिक्षेत्रे कीटनााशकत्वेन अपि गोमूत्रम् उपयुज्यते । 25 लीटर्मिते जले 500 मि. ली. गोमूत्रं योजयित्वा सस्यानाम् उपरि प्रोक्षणेन सामान्यकीटबाधा निवारिता भवति ।
  • 20 लीटर्मिते गोमूत्रे 250मि.ली निम्बतैलं योजयित्वा ताम्रपात्रे क्वथनीयम् । क्वथनेन अवशिष्टार्धं शीतलं कृत्वा शोधनीयम् । एतत् कृषिरक्षकं तीव्रद्रावणम् । 25 लीटर्मिते जले एतस्य द्रावणस्य 500 मि.ली. योजयित्वा केदारेषु सेचनीयम् ।
  • कुलित्थबीजानि संरक्षितुं गोमूत्रस्य उपयोगं कुर्वन्ति ।
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
जीवामृत,गोमुत्रस्य उपयोगं
जीवामृत,गोमुत्रस्य उपयोगं



गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमुत्रस्य उपयोगं
चिकित्सासु गोमुत्रस्य उपयोगं
चिकित्सासु गोमुत्रस्य उपयोगं

रासायनिकसस्यपोषकाणां, रासायनिकक्रिमिनाशकानां च (ॐड्डठणड्ढट्टञण् इठज्ञदड्ढण्ड्ढेठज्ञथ ÷ ॐड्डठणड्ढट्टञण् ख्ठथदड्ढथड्ढदठथ ) उपयोगेन अद्य प्राकृतिक-भूसार: क्षीयमाण: अस्ति । सस्यानां रोगनिरोधकशक्ति: अपि हीयमाना दृश्यते । शाका:, फलानि , आहारधान्यानि च विषयुक्तानि भवन्ति । अत: सम्पूर्णरासायनिकरहित - कृषि -उत्पन्नानि निर्मातुम् उद्युक्ता: सन्ति कृषका: कृषिविज्ञानिनश्च । विदेशे, भारते बृहन्नगरेषु च क्वचित् रासायनिकरहितकृष्युत्पन्नानां विक्रयणसंस्था: अपि आरब्धा: सन्ति । अस्यां कृषिपद्धतौ गोमूत्र - निम्ब - तमाख्वादिभि: मध्वाज्यादिभि: निर्मितानि गोमयनिर्मितानि च कीटनाशकानि, सस्यपोषकाणि भूसारवर्धकानि च प्रधानतया उपयुज्यन्ते ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गोमूत्रम्&oldid=410425" इत्यस्माद् प्रतिप्राप्तम्