गृह्णाति - ग्रह(उपादाने) अच् (३-१-१४३) ।

नक्षत्रताराग्रहसङ्कुलापि ज्योतिष्मती चन्द्रमसव रात्रिः - रघु ६-२२

गृह्णाति इति ग्रहः । स्वं परितः विद्यमानम् अयस्कान्त-कान्तिक्षेत्राणां प्रभावं गृह्णन्तः स्वस्य प्रभावं संयोज्य परावर्तनस्य आनयनतत्त्वं भवति ग्रहाणाम् । सर्वेषां ग्रहाणाम् इदमेव तत्त्वं भवति चेदपि भूमौ स्थित्वा यः परिशीलयति तेन तु भूग्रहस्य उपरि अन्येषां ग्रहाणां प्रभावः कः इति ज्ञातव्यं भवति । भूमेः उपरि विभिनसमयेषु विभिन्नग्रहाणां प्रभावः कीदृशः इति यदि अवगम्येत तर्हि भूवातावरणस्य स्थितिः ज्ञातुं शक्या । इदं वातावरणं सामूहिकप्रभावं यदि दर्शयेत् तर्हि तस्य तीव्रता अधिका इति ज्ञातुं शक्यते ।

सौरकुटुम्बव्यवस्था सम्पादयतु

सूर्यः, सूर्यं परितः भ्रमन्तः ग्रहाः, उपग्रहाः, धूमकेतवः.... इत्यादयः सौरकुटुम्बव्यवस्थायाः भागाः । विश्वस्य अयं कञ्चन लघुः भागमात्रम् । अस्माकं वासस्थानम् इयं भूमिः सौरकुटुम्बस्था एव । सूर्यनामकस्य नक्षत्रस्य परितः विविधासु कक्षासु एते ग्रहाः परिभ्रमन्ति इत्यतः अस्य सौरकुटुम्बव्यवस्था इति निर्दिश्यते । अस्याः व्यवस्थायाः प्रकाशदाता अस्ति सूर्यः । सूर्यं परितः भ्रमन्तः सर्वे ग्रहाः अपि कान्तिहीनाः एव । सर्वेषाम् उपग्रहाणां लघुग्रहाणां धूमकेतूनां कान्तिविषयकः आधारः अस्ति सूर्यः एव । केन्द्रे विद्यमानं सूर्यं परितः दीर्घवृत्ताकारकक्षासु ग्रहाः अन्ये खगोलपदार्थाः च सञ्चरन्तः भवन्ति । खगोलशास्त्ररीत्या नव ग्रहाः निर्दिष्टाः सन्ति ।

नवग्रहाः सम्पादयतु

रविः, चन्द्रः, कुजः, बुधः, गुरुः, शुक्रः, शनिः, राहुः, केतुश्च नवग्रहाः ।

रवितः भूकक्षायाः मध्यभागे विद्यमानाः ग्रहाः अन्तर्ग्रहाः इति निर्दिश्यन्ते । बुधः शुक्रश्च एषु अन्तर्भवन्ति । भूकक्षायाः अनन्तरं विद्यमानाः बाह्यग्रहाः इति निर्दिश्यन्ते । कुजतः अनन्तरं विद्यमानाः अत्र अन्तर्भवन्ति । खगोलशास्त्ररीत्या एते नव ग्रहाः इति निर्दिश्यन्ते - बुधः, शुक्रः, भूमिः, कुजः, गुरुः, शनिः, इन्द्रः (युरेनस्), वरुणः (नेप्चून्), यमः (प्लूटो) ।

क्रूर-सौम्यग्रहाः सम्पादयतु

रविः, कुजः, शनिः, राहुः, केतुश्च क्रूरग्रहाः
चन्द्रः, बुधः, गुरुः, शुक्रश्च सौम्यग्रहाः

पुरुष-स्त्री-नपुंसकग्रहाः सम्पादयतु

रविः, कुजः, गुरुश्च पुरुषग्रहाः
चन्द्रः, शुक्रः, राहुश्च स्त्रीग्रहाः
बुधः, शनिः, केतुश्च नपुंसकग्रहाः

ग्रहगतयः सम्पादयतु

ग्रहणां चलनम् अनुसृत्य केचन विशेषांशाः सूच्यन्ते । बिम्बग्रहयोः रविचन्द्रयोः वक्रगतिः विद्यते । छायाग्रहयोः राहुकेत्वोः ऋजुगतिः न विद्यते । ताराग्रहाणां कुज-गुरु-शुक्र-शनिग्रहाणां वक्र-अतिचार-स्तम्भनगतयः भवन्ति । एते वस्तुतः वक्रमार्गेण न सञ्चरन्ति । भूमिः अपि सञ्चरति इत्यतः भूमौ स्थित्वा यः परिशीलयति तस्य दृष्ट्या विभिन्नाः ग्रहाः विभिन्नगतियुक्ताः इव दृश्यन्ते ।

ग्रहः वक्रगतेः कालः स्थिरकालः वक्रगतेः आरम्भसमये रवेः दूरम् पुनः ऋजुमार्गे
बुधः २४ दिनानि १ दिनम् १४-२० डिग्रिपरिमितम् १७-२० डिग्रिपरिमितम्
शुक्रः ४२ दिनानि २ दिनम् २९ डिग्रिपरिमितम् २९ डिग्रिपरिमितम्
कुजः ८० दिनानि ३ दिनम् २२८ डिग्रिपरिमितम् १३२ डिग्रिपरिमितम्
गुरुः २४० दिनानि ५ दिनम् २४५ डिग्रिपरिमितम् ११६ डिग्रिपरिमितम्
शनिः १४० दिनानि ५ दिनम् २५१ डिग्रिपरिमितम् १०९ डिग्रिपरिमितम्
इन्द्रः ११५ दिनानि ६ दिनम् २५१ डिग्रिपरिमितम् १०३ डिग्रिपरिमितम्
वरुणः १५७ दिनानि ६ दिनम् २५९ डिग्रिपरिमितम् १११ डिग्रिपरिमितम्
यमः १६० दिनानि ७ दिनम् २६० डिग्रिपरिमितम् १०९ डिग्रिपरिमितम्

ग्रहाणाम् दश अवस्थाः सम्पादयतु

१ स्वस्थावस्था

स्वक्षेत्रे विद्यमानः ग्रहः स्वस्थावस्थां विन्दति ।

२ दीप्तावस्था

उच्चक्षेत्रे विद्यमानः ग्रहः दीप्तावस्थां विन्दति ।

३ मुदितावस्था

मित्रक्षेत्रे विद्यमानस्य ग्रहस्य अवस्था ।

४ शान्तावस्था

समक्षेत्रे विद्यमानस्य ग्रहस्य अवस्था ।

५ शक्तावस्था

वक्रग्रहस्य अवस्था ।

६ पीडावस्था

राशौ ९ पादे विद्यमानस्य ग्रहस्य अवस्था ।

७ दीनावस्था

शत्रुक्षेत्रे ग्रहस्य अवस्था ।

८ विकलावस्था

अस्तङ्गतस्य ग्रहस्य अवस्था ।

९ खलावस्था

नीचस्थाने विद्यमानस्य ग्रहस्य अवस्था ।

१० भीतावस्था

अतिचारस्थाने विद्यमानस्य ग्रहस्य अवस्था ।
स्वस्थ-दीप्त-मुदित-शान्तावस्थासु विद्यमानाः ग्रहाः शुभफलानि यच्छन्ति ।
शक्तावस्थायां शुभग्रहाः वक्राः भवन्ति चेत् शुभफलम्, अशुभग्रहाः वक्राः भवन्ति चेत् पीडादीनि अशुभफलानि यच्छन्ति ।
पीड-दीन-विकल-खल-भीतावस्थासु विद्यमानाः ग्रहाः अशुभफलानि यथा न यच्छेयुः, घटनाः पूर्णाः यथा स्युः तथा कुर्वन्ति ।

ग्रहाणां राजादिविभागाः सम्पादयतु

कालपुरुषस्यांगविशेषसम्बन्धग्रहाः

कालात्मा च दिवानाथो मनः कुमुदबान्धवः ।
सत्त्वं कुजो विजानीयाद् बुघो वाणीप्रदायकः ॥
देवेज्यो ज्ञानसुखदो भृगुवीर्यप्रदायकः ।
विचार्यतामिदं सर्वं छायासूनुश्च दुःखदः ॥
राजानौ भानुहिमगू नेता ज्ञेयो धरात्मजः ।
बुधो राजकुमारश्च सचिवौ गुरुभार्गवौ ।
प्रेष्यको रविपुत्रश्च सेना स्वर्भानुपुच्छकौ ।
एवं क्रमेण वै विप्र ! सूर्यादीनां विचिन्तयेत् ॥ (बृहत्पाराशरहोराशास्त्रं – ३/१-४)
कालात्मादिनकृन्मनस्तुहिनगुः सत्त्वं कुजो ज्ञो वचो ,
जीवो ज्ञानसुखे सितश्च मदनो दुःखं दिनेशात्मजः ।
राजानौ रविशीतगू क्षितिसुतो नेता कुमारो बुधः,
सूरिदानवपूजितश्च सचिवौ प्रेष्यः सहस्रांशुजः ॥

अर्थात् कालपुरुषस्य आत्मा सूर्यः, चन्द्रमा मनः । मङ्गलः सत्त्वस्य, बुधः वाण्याः, गुरुः ज्ञानसुखयोः शुक्रः बलस्य प्रतिनिधिः वर्तते । पुनः सूर्यः चन्द्रश्च राजानौ स्तः । मङ्गलः नेता, बुधः राजकुमारः गुरुः शुक्रश्च मन्त्री, शनिश्च दासः भवति ।

ग्रहाः सम्पादयतु

  1. रविः
  2. चन्द्रः
  3. मङ्गलः
  4. बुधः
  5. गुरुः
  6. शुक्रः
  7. शनिः
  8. राहुः
  9. केतुः
  10. इन्द्रः(युरेनस्)
  11. वरुणः (नेप्चून्)
  12. यमः (प्लूटो)
"https://sa.wikipedia.org/w/index.php?title=ग्रहविज्ञानम्&oldid=395335" इत्यस्माद् प्रतिप्राप्तम्