घटोत्कचः भीम हिडिम्बयोः पुत्रः । महाभारते पमुखभूमिकायाः एषः महाबलवान् आसीत्।

घटोत्कचस्य जन्मसम्पाद्यताम्

लाक्षागृहस्य दाहसमये सुरङ्गमार्गेण परिभ्रंशनं कृत्वा पाण्ड्वाः मात्रा समं वनम् अगच्छन् । भीमसेनं विना अन्ये सर्वे दीर्घमार्गचलनेन श्रान्ताः असन् । अतः कस्यचित् वृक्षस्य अधः विश्रान्तिं कुर्वन्ति स्म। माता कुन्ती पिपासार्दिता जलम् अपृच्छत् । भीमसेनः जलमूलम् अन्विष्य अगच्छत् । कञ्चित् जलशयः प्राप्य तत्र स्वयं पिपासाम् उपशमय्य, मात्रे अन्येषां कृते च जलं सङ्गृह्य यादा निर्गतवान् श्रान्ताः सहोदरादयः निद्रिताः। अतः भीमः तत्र रक्षणकार्यम् अकरोत् ।

हिडिम्बामिलनम्सम्पाद्यताम्

तस्मिन् एव वने हिडिम्बः नाम कश्चित् भयानकः असुरः निवसति स्म। तत्र पाण्डवानाम् आगमनेन मानवानाम् गन्धं प्राप्य सः तान् ग्रहीतुम् स्वसहोदरीं हिडिम्बां प्रेषितवान् । तत्र गता हिडिम्बाः संरक्षणं कुर्वतः भीमास्य अङ्गसौष्ठवं सुन्दरवदनं च दृष्ट्वा अनुरक्ता अभवत्। सा तस्याः रक्षसीमायया अपूर्वा सुन्दरी अभवत् । भीमसेनस्य समीपम् आगतां तां भीमसेनः अपृच्छत् सुन्दरि का भवती रात्रिसमये अस्मिन् भकङ्करे कानने एकाङ्गिनी किं करोति? हिडिम्बा उक्तवती हे नरश्रेष्ठ अहं हिडिम्बा नाम राक्षसी। युष्मान् सर्वान् भक्षितुं बद्ध्वा अनेतुं मे पिता आदिष्टवान्। किन्तु मम हृदयेन भवान् अकृष्टः । अहं भवन्तं पतिरूपेण प्राप्तुम् इच्छामि । मम सहोदरः हिडिम्बः दुष्टः महाक्रूरः च किन्तु तस्य तस्य बन्धानात् भवतः सर्वान् मोचयित्वा सुरक्षितस्थानपर्यन्तं प्रापयिष्यामि । हिडिम्बायाः आगमनं विलम्बमानं दृष्ट्वा हिडिम्बः ताम् अन्विष्य तत् स्थानमागतवान् यत्र हिडिम्बा भीमेन सह अस्ति । भीमसेनेन सह प्रेमालपयन्तीं हिडिम्बां दृष्ट्वा क्रोधितः। तां दण्डयितुं तस्याः समीपं गच्छन्तं हिडिम्बम् अवरुध्य भीमसेनः रे दुष्ट राक्षस स्त्रीं ताडयितुं त्वया लज्जा नानुभूयते किम् ? यदि भवान् तावान् वीरः तर्हि मया सह युद्धं करोतु। एवमुक्त्वा भीमः तेन सह मल्लयुद्धम् आरब्धवान्। कोलाहलं श्रुत्वा कुन्ती अन्ये च पाण्डवाः जागरिताः । तत्र राक्षसेन सह युद्धं कुर्वाणं भीमं, पार्श्वे सुन्दरीं कन्यां च दृष्ट्वा कुन्ती अवदत् । पुत्री का त्वम् इति। हिडिम्बा तु सर्वं वृत्तान्तं न्यवेदयत् । अर्जुनः धनुः गृहीत्वा हिडिम्बां मारयितुम् उद्युक्तः । किन्तु भीमः बाणत्यागेन तं निवारितवान्। यतो हि सः भीमस्य वैरी भीमः एव हनिष्यति । पश्चात् भीमं हिडिम्बं सम्यक् गृगीत्वा वायुमण्डले बहुवाअं परिक्राम्य भूमौ निपातितवान् येन हिडिम्बः गतासुः अभवत् । हिडिम्बस्य मरणानन्तरं पाण्डवाः ततः प्रस्थागुम् उद्यताः। तदा हिडिम्बा कुन्त्याः पादयोः निपत्य हे मातः अहं भवत्यः पुत्रं भीमसेनं पतिरूपेण स्वीकृतवती भवन्तं मां स्वीकुर्वन्तु इति प्रार्थितवती । हिडिम्बायाः हृदये भीमस्य विषये प्रबलं प्रेम संलक्ष्य युद्धिष्ठिरः अवदत् । हिडिम्बे अहं मम सहोदरं भीमं भवत्यै अर्पयामि किन्तु सः दिने भवत्या सह भवति रात्रौ अस्माभिः सह भवति इति । अनेन सन्तुष्टा हिडिम्बा भीमेन सह आनन्देन जीवन यापितवती ।

घाटोत्कचोदयःसम्पाद्यताम्

कालक्रमेण तयोः दाम्पत्यफलरूपेण पुत्रस्य जन्म अभवत् । जननकाले तस्य शिरसि केशाः नासन् इति कारणेन घटोत्कचः इति नाम अभवत् । सः जातसमये एव प्रौढः अभवत् । कालान्तरेण हिडिम्बा पुत्रं घटोत्कचं पाण्डवानां निकटं नीत्वा एषः भवतां सहोदरस्य पुत्रः अतः एषः सर्वदा भवतां सेवायां भवति इति । घटोत्कचः सश्रद्धः पाण्डवानां कुन्त्याः च चरणेषु प्रणम्य अवदत् मे योग्यं कार्यं यच्छन्तु। अस्य वचनानि श्रुत्वा कुन्ती अवदत् अस्मद्वंशे भवान् ज्येष्ठः पौत्रः अस्ति। समये सन्निहिते भवतः सेवाम् अवश्यम् उपयुञ्जामहे। तदा घाटोत्कचः अवदत् भवन्तः यदाकदापि मां स्मरन्तु अहं भवतां सेवायाम् उपस्थितो भविष्यामि इति। एवमुक्ता सः यथागतम् अचलत् ।

बाह्यानुबन्धःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=घटोत्कचः&oldid=365237" इत्यस्माद् प्रतिप्राप्तम्