चेडीजनाः,चेतीजनाः अथवा चेत्याः स्थानद्वये वसन्ति स्म । नेपालस्य पर्वतश्रेणिषु एकं केन्द्रम् आसीत् । अपरं च केन्द्रं कौसम्बीसमीपस्थे बुन्देल्खण्डे आसीत् । एते चेत्याः कुरुदेशस्य वात्स्यदेशस्य मध्ये विद्यमानस्य यमुनाप्रदेशस्य मध्यभागे वसन्ति स्म । मध्ययुगस्य अवधौ चेदीराज्यस्य दक्षिणसीमा नर्मदानदीपर्यन्तं विस्तृता आसीत् । महाभारते उक्तं "सूक्ति"नामकं स्थानम् अथवा सूक्तिमत्याः सोत्तिवत्तागारं तेषां राजधानी आसीत् । चेतीवंशः भारतस्य प्राचीनवंशः आसीत् इति उल्लेखः दृश्यते ऋग्वेदे । खार्वेलास्थ"हथिगुम्फ"शासनानुगुणं चेतीजनानाम् एका शाखा कलिङ्गराज्ये अपि अधिकारे आसीत् ।

१६ जनपदान् दर्शयत् मानचित्रम्
"https://sa.wikipedia.org/w/index.php?title=चेदी&oldid=366105" इत्यस्माद् प्रतिप्राप्तम्