प्रमुखा विकल्पसूचिः उद्घाट्यताम्

जनसङ्ख्या  ( /ˈənəsəŋkhjɑː/) (हिन्दी: जनसंख्या, आङ्ग्ल: Population) अर्थात् निवसतां जनानां सङ्ख्या इति । मानवरहितस्य विश्वस्य कल्पना अपि अकल्पनीया अस्ति । संसाधनानाम् उपयोगः, सामाजिकस्य, सांस्कृतिकस्य च वातावरणस्य निर्माणं मानवैः भवति । समाजस्य, अर्थव्यवस्थायाः च विकासे मानवस्य महत्वपूर्णं योगदानं वर्तते । मानवैः संसाधनानाम् उपयोगः प्रयोगश्च क्रियते[१]

वैश्विकजनसंख्यास्थितिः

कस्मिन् देशे कति स्त्रियः? कति पुरुषाः? कति बालकाः सन्ति ? इति ज्ञानम् आवश्यकं वर्तते । प्रतिवर्षे कति जनाः मृताः ? ये जायमानाः सन्ति ते कुत्र निवसन्ति ? ते किं कुर्वन्ति ? ते साक्षराः वा अशिक्षिताः सन्ति ? इति सर्वेषां प्रश्नानां निवारणाय सर्वकारः प्रतिदशवर्षं जनगणनां करोति [२] । २१ तमायाः शताब्द्याः प्रारम्भे विश्वस्य जनसङ्ख्या ६०० कोटिः इत्यस्मात् अपि अधिकः आसीत् इति सर्वकारैः सर्वेक्षणं कृतम् आसीत् ।

विश्वस्य जनसङ्ख्या असमानरूपेण विस्तृता अस्ति । जॉर्ज् बी. क्रेसी इत्यनेन उक्तं यत् – एशियामहाद्वीपे बृहद्स्थाने अल्पजनसङ्ख्या, अल्पस्थाने बहुजनसङ्ख्या च भवति[३]

मनुष्यः पृथ्व्याः संसाधनानाम् उत्पादनम्, उपयोगं च करोति । अतः एकस्मिन् देशे कति जनाः निवसन्ति ? इति ज्ञानम् आवश्यकम् अस्ति । ते जनाः कुत्र निवसन्ति ? कथं निवसन्ति ? तेषां जनसङ्ख्यायां किमर्थं वृद्धिः ? तेषां काः काः विशेषताः सन्ति ? एतादृशः प्रश्नाः जायन्ते । अतः तेषां प्रश्नानां निवारणाय सर्वत्र जनगणना भवति । जनगणनया अस्माकं देशस्य जनसङ्ख्या ज्ञायते[४]

अन्तर्विषयाः

जनगणनासम्पाद्यताम्

कस्मिंश्चित् निश्चिते समयान्तराले जनसङ्ख्यायाः आधिकारिकी गणना जनगणना इति कथ्यते । भारत-देशे सर्वप्रथमं १८७२ तमे वर्षे जनगणना कृता । यद्यपि १८८१ तमे वर्षे सम्पूर्णजनगणना अपि कृता । तस्मादेव कालात् प्रतिदशवर्षे जनगणना भवति । भारतीया जनगणना जनसाङ्ख्यिक्याः, सामाजिक्याः, आर्थिक्याः अङ्कानां बृहत्तमं स्रोतः वर्तते[५]

विश्वस्मिन् जनसङ्ख्यायाः प्रारूपं, वितरणं चसम्पाद्यताम्

जनसङ्ख्यायाः वितरणम् अर्थात् पृथिव्यां जनानां वितरणं वा निवासः । सामान्यतः विश्वस्य जनसङ्ख्यायाः ९०% जनाः पृथिव्याः १०% स्थले एव निवसन्ति [६]

विश्वस्य सर्वाधिकजनसङ्ख्यायुतेषु दशदेशेषु एव विश्वस्य ६०% जनाः निवसन्ति । तेषु देशेषु षड्देशाः एशिया-महाद्वीपे एव सन्ति[७]

विश्वस्य सघनजनसङ्ख्यायुताः देशाःसम्पाद्यताम्

  • चीन-देशे १२७.७६ कोटिः जनसङ्ख्या अस्ति ।
  • भारत-देशे १०२.७ कोटिः जनसङ्ख्या अस्ति ।
  • संयुक्त राज्य अमेरिका-देशे २८.१४ कोटिः जनसङ्ख्या अस्ति ।
  • इण्डोनेशिया-देशे २१.२१ कोटिः जनसङ्ख्या अस्ति ।
  • ब्राजील्-देशे १७.०१ कोटिः जनसङ्ख्या अस्ति ।
  • पाकिस्तान्-देशे १५.६५ कोटिः जनसङ्ख्या अस्ति ।
  • सी. आई. एस्.-देशे १४.६९ कोटिः जनसङ्ख्या अस्ति ।
  • बाङ्ग्लादेश-देशे १२.९२ कोटिः जनसङ्ख्या अस्ति ।
  • जापान्-देशे १२.६९ कोटिः जनसङ्ख्या अस्ति ।
  • नाइजीरिया-देशे ११.१५ कोटिः जनसङ्ख्या अस्ति[८]

भारतस्य जनसङ्ख्यायाः आकारः, तस्याः आधारेण वितरणम्सम्पाद्यताम्

२००१ तमे वर्षस्य मार्च-मासाभ्यान्तरं भारतस्य जनसङ्ख्या १०.२ कोटिः आसीत् । इयं जनसङ्ख्या सम्पूर्णविश्वस्य १६.७% आसीत् । १०.२ कोटिः जनाः भारतस्य ३२.८ लक्षं च. कि. मी. स्थले निवसन्ति [९]

२००१ तमस्य वर्षस्य जनगणनायाः अनुसारम् उत्तरप्रदेशराज्यस्य जनसङ्ख्या अधिकतमा अस्ति । तत्र १,६६० लक्षं जनाः निवसन्ति । किन्तु हिमालयक्षेत्रस्य सिक्किम-राज्ये ५ लक्षं, लक्षद्वीपे ६० सहस्रः जनाः निवसन्ति [१०]

भारत-देशस्य सार्धजनसङ्ख्या पञ्चराज्येषु एव अस्ति । उत्तरप्रदेशराज्यं, महाराष्ट्रराज्यं, बिहारराज्यं, पश्चिमबङ्गालराज्यम्, आन्ध्रप्रदेशराज्यम् च । क्षेत्रफलदृष्ट्या राजस्थानराज्यं सर्वराज्येषु बृहत्तमं वर्तते । तस्य राज्यस्य जनसङ्ख्या भारतस्य सम्पूर्णजनसङ्ख्यायाः ५.५ प्रतिशतं वर्तते [११]

जनसङ्ख्यायाः घनत्वम्सम्पाद्यताम्

पृथिव्यां निवसतां जनानां मर्यादिता क्षमता भवति । अतः जनानां सङ्ख्यायाः, भूमेः प्रारूपस्य ज्ञानम् आवश्यकं भवति । तयोः अनुपातः अपि ज्ञातव्यः अस्ति । सः अनुपातः एव जनसङ्ख्यायाः घनत्वम् इति कथ्यते [१२]

संयुक्त राज्य अमेरिका राष्ट्रस्य उत्तर-पूर्वभागः, यूरोप्-खण्डस्य उत्तर-पश्चिमभागः दक्षिणभागश्च, एशिया-खण्डस्य दक्षिण-पूर्व भागः, पूर्वभागश्च इत्येतेषु जनसङ्ख्यासान्द्रता २०० जनाः अस्ति [१३]

उत्तरदक्षिणध्रुवयोः समीपे, उष्णमरुस्थले, शीतमरुस्थले, विषुवत्-रेखायाः समीपे, उच्चवर्षीयेषु, क्षेत्रेषु च जनसङ्ख्यायाः घनत्वम् अत्यन्तं न्यूनम् अस्ति । तत्र विरलप्रदेशाः सन्ति [१४]। तेषां जनसङ्ख्यासान्द्रता १ जनः एव अस्ति ।

विश्वस्मिन् जनसङ्ख्याघनत्वस्य मध्यमप्रकारकाणि क्षेत्राणि अपि सन्ति । तेषु जनसङ्ख्यासान्द्रता ११ तः ५० जनाः अस्ति । यथा – एशियामहाद्वीपे चीन-देशस्य पश्चिमभागः, भारतस्य दक्षिणभागः, यूरोप्-महाद्वीपे नार्वे, स्वीडन् इति [१५]

घनत्वाधारेण भारतस्य जनसङ्ख्यायाः वितरणम्सम्पाद्यताम्

जनसङ्ख्यायाः घनत्वेन असमानवितरणस्य प्रतिरूपं दृश्यते । प्रति एकके क्षेत्रफले निवासिनः जनाः जनसङ्ख्याघनत्वम् इति उच्यते । विश्वस्य अधिकजनसङ्ख्यायुतेषु देशेषु भारतम् अन्यतमं वर्तते [१६]

२००१ तमे वर्षे भारतस्य जनसङ्ख्यासान्द्रता ३२५ जनाः आसीत् । तदा पश्चिमबङ्गालराज्यस्य जनसङ्ख्यासान्द्रता ९०४ जनाः प्रतिचतुरस्रकिलोमीटर्मितम् आसीत् । किन्तु अरुणाचलप्रदेश-राज्यस्य जनसङ्ख्याघनत्वं १३ जनाः प्रतिचतुरस्रकिलोमीटर्मितम् एव आसीत् [१७]

असम-राज्यस्य, प्रायद्वीपीयराज्यानां च जनसङ्ख्याघनत्वं मध्यमं वर्तते । पर्वतीयक्षेत्रैः, मध्यमवर्षया, अल्पोर्वरामृत्तिकया तेषां राज्यानां जनसङ्ख्याघनत्वं प्रभावितं भवति ।

औत्तराहक्षेत्रभागस्य, दक्षिणदिशि केरलस्य च जनसङ्ख्याघनत्वम् अत्यधिकं वर्तते । यतः तत्र समतलानि क्षेत्राणि, उर्वरामृत्तिका च प्राप्यते । तत्र पर्याप्तमात्रायां वर्षा भवति [१८]

जनसङ्ख्यायाः वितरणे प्रभावकाः कारकाःसम्पाद्यताम्

जनसङ्ख्या वितरणे त्रीणि प्रभावोत्पादकानि कारकाणि सन्ति । तानि - भौगोलिककारकम्, आर्थिककारकम्, सामाजिककारकं, सांस्कृतिककारकम् च इति [१९]

भौगोलिकः कारकःसम्पाद्यताम्

भौगोलिककारकस्य अपि चत्वारः उपकारकाः सन्ति । ते – जलस्य उपलब्धता, भू-आकृतिः, जलवायुः, मृत्तिकाः च इति ।

जलस्य उपलब्धतासम्पाद्यताम्

जलं जीवनस्य सर्वाधिकं महत्वपूर्णं कारकं वर्तते । अतः यत्र जलस्य अभावः न भवेत् तत्र एव जनाः निवासं कर्तुं वाञ्च्छन्ति [२०] । पानार्थं, स्नानार्थं, भोजनार्थं, पशुभ्यः, सस्यानाम् उत्पादनार्थं, उद्योगार्थं, नौकासञ्चालनार्थं च जलस्योपयोगः क्रियते । अतः नदीनां तटीयक्षेत्रेषु अधिकाः जनाः निवसन्ति ।

भू-आकृतिःसम्पाद्यताम्

जनाः समतलक्षेत्रेषु निवासं कर्तुम् इच्छन्ति । यतो हि समतलक्षेत्रेषु सस्योत्पादने, मार्गनिर्मार्णे, उद्योगेषु च सानुकूल्यं भवति । परिवहनतन्त्रस्य विकासे पर्वतीयक्षेत्राणि अवरोधकानि भवन्ति । अतः तानि क्षेत्राणि प्रारम्भे कृषेः औद्योगिकविकासाय अनुकूलानि न भवन्ति । तेन कारणेन तत्र जनसङ्ख्यायाः घनत्वं न्यूनं भवति [२१]। गङ्गा-नद्याः क्षेत्रं विश्वस्य सर्वाधिकजनसङ्ख्याप्रदेशेषु अन्यतमं वर्तते । किन्तु हिमालयस्य पर्वतीयक्षेत्रेषु जनसङ्ख्याघनत्वं न्यूनं भवति ।

जलवायुःसम्पाद्यताम्

अत्युष्णमरुस्थलानां विषमजलवायुः मानवीयनिवासाय प्रतिकूलो भवति । यत्र अनुकूलः वायुः भवति तत्र जनाः निवसितुम् आकर्षयन्ति [२२] । यत्र अधिकवर्षा, विषमजलवायुः, शुष्कजलवायुः भवति तत्र अल्पजनसङ्ख्या प्राप्यते । भूमध्यसागरीयप्रदेशे सरलजलवायोः कारणात् आरम्भिककालादेव अधिकजनसङ्ख्या वर्तते ।

मृत्तिकाःसम्पाद्यताम्

उर्वराः मृत्तिकाः कृषिनिमित्तं महत्वपूर्णाः सन्ति । अतः उर्वरामृत्तिकभूमिष्ठ प्रदेशेषु बहवः जनाः निवसन्ति [२३] । यतः ताः मृत्तिकाः गहनकृषेः स्तम्भायमानाः भवितुं शक्नुवन्ति । किन्तु यत्र अल्प-उर्वरामृत्तिकाः भवन्ति तत्र अल्पजनसङ्ख्या भवति ।

आर्थिकः कारकःसम्पाद्यताम्

आर्थिककारकस्य त्रयः उपकारकाः सन्ति । खानिजम्, नगरीकरणम्, औद्योगिकीकरणं च ।

खानिजःसम्पाद्यताम्

येषु क्षेत्रेषु खानिजनिक्षेपाः सन्ति । तत्र जनाः उद्योगार्थम् आकृष्टाः भवन्ति । खननेन, औद्योगिकगतिविधिभिः वृत्तिः उत्पद्यते [२४] । अतः कुशलकार्यकर्तारः अर्धकुशलकार्यकर्तारः वा तत्र निवसितुं गच्छन्ति । तेन तस्य स्थानस्य जनसङ्ख्या वर्धते ।

नगरीकरणम्सम्पाद्यताम्

नगरेषु वृत्तये बहवः अवसराः, शैक्षणिकव्यवस्थाः, चिकित्साव्यवस्थाः, परिवहनानि, सञ्चाराय महत्वपूर्णानि साधनानि च प्राप्यन्ते । अतः जनाः नगरं प्रति आकृष्टाः भवन्ति [२५]। तस्मात् जनाः ग्रामात् नगरं प्रत्यागच्छन्ति । तेन कारणेन नगरस्य प्रारूपं, जनसङ्ख्या च वर्धते । विश्वस्य बृहत्तमानि नगराणि प्रतिवर्षम् अधिकमात्रायां जनान् आकर्षयन्ति ।

औद्योगिकरणम्सम्पाद्यताम्

औद्योगिकसंस्थाः जनेभ्यः वृत्तिं प्रददति । तेन जनाः वृत्त्यर्थम् आकृष्टाः भवन्ति । तासु संस्थासु श्रमिकाः, परिवहनचालकाः, विक्रयकर्तारः, चिकित्सकाः, अध्यापकाः इत्यादयः भवन्ति [२६] । जापान्-देशे कोबे-ओसाकाप्रदेशे अनेके उद्योगाः सन्ति । तेन कारणेन जनानां सङ्ख्या अधिका वर्तते ।

सामाजिकः सांस्कृतिकश्च कारकःसम्पाद्यताम्

केषाञ्चित् स्थानानां धार्मिकं, सांस्कृतिकं च महत्वं भवति । अतः जनाः तत्स्थानं प्रति आकृष्टाः भवन्ति [२७] । येषु क्षेत्रेषु सामाजिकीसमस्या राजनैतिकीसमस्या च वर्तते, ततः जनाः निर्गच्छन्ति । विरलक्षेत्रेषु निवासाय सर्वकारः अपि जनान् प्रेरयति ।

जनसङ्ख्यावृद्धिः, जनसङ्ख्यापरिवर्तनस्य च प्रक्रियासम्पाद्यताम्

जनसङ्ख्या एका परिवर्तनशीलप्रक्रिया वर्तते । जनानां सङ्ख्यायां, वितरणे, सङ्घटने च निरन्तरं परिवर्तनं भवति । इदं परिवर्तनं तिसृणां प्रक्रियानां परस्परसंयोगस्य प्रभावैः भवति । जन्म, मृत्युः, प्रवासश्च [२८]

जनसङ्ख्यावृद्धिःसम्पाद्यताम्

जनसङ्ख्यावृद्धिः अर्थात् कस्मिंश्चित् समयान्तरे कस्यचित् देशस्य, राज्यस्य च निवासिनां जनानां सङ्खायां परिवर्तनम् इति । अस्य परिवर्तनस्य प्रकारद्वयं वर्तते । सापेक्षवृद्धिः, प्रतिवर्षस्य परिवर्तनेषु प्रतिशतम् च[२९]

प्रतिवर्षं प्रतिशतकं वा जनसङ्ख्यायां वृद्धिः सम्पूर्णजनसङ्ख्यायाः परिमाणं भवति । उदाहरणत्वेन यथा – २००१ तमस्य वर्षस्य जनसङ्ख्यायाः १९९१ तमस्य वर्षस्य जनसङ्ख्यायां न्यूनीकृतायां सतयां काचित् सङ्ख्या प्राप्यते । सा निरपेक्षवृद्धिः कथ्यते [३०]

जनसङ्ख्यावृद्ध्याः परिमाणं महत्वपूर्णं कार्यं वर्तते । अस्य गणना प्रतिशते भवति । इयं वार्षिकवृद्धिः कथ्यते । १९५१ तमे वर्षे भारतस्य जनसङ्ख्या ३.६ कोटिः आसीत् । तदनन्तरं २००१ तमे वर्षे भारतस्य जनसङ्ख्या १०.२ कोटिः अभवत् [३१]

भारतस्य जनसङ्ख्यावृद्धिः, परिमाणं चसम्पाद्यताम्

  • १९५१ तमे वर्षे सम्पूर्णजनसङ्ख्या ३६१.० लक्षम् आसीत् । एकस्मिन् दशके ४२.४३ लक्ष सापेक्षवृद्धिः अभवत् । १.२५ प्रतिशतं वार्षिकवृद्धिः जाता[३२]
  • १९६१ तमे वर्षे सम्पूर्णजनसङ्ख्या ४३९.२ लक्षम् आसीत् । एकस्मिन् दशके ७८.४३ लक्षं सापेक्षवृद्धिः अभवत् । १.९६ प्रतिशतं वार्षिकवृद्धिः जाता ।
  • १९७१ तमे वर्षे सम्पूर्णजनसङ्ख्या ५४८.२ लक्षम् आसीत् । एकस्मिन् दशके १०८.९२ लक्षं सापेक्षवृद्धिः अभवत् । २.२० प्रतिशतं वार्षिकवृद्धिः जाता [३३]
  • १९८१ तमे वर्षे सम्पूर्णजनसङ्ख्या ६८३.३ लक्षम् आसीत् । एकस्मिन् दशके १३५.१७ लक्षं सापेक्षवृद्धिः अभवत् । २.२२ प्रतिशतं वार्षिकवृद्धिः जाता ।
  • १९९१ तमे वर्षे सम्पूर्णजनसङ्ख्या ८४६.४ लक्षम् आसीत् । एकस्मिन् दशके १६३.०९ लक्षं सापेक्षवृद्धिः अभवत् । २.१४ प्रतिशतं वार्षिकवृद्धिः जाता [३४]
  • २००१ तमे वर्षे सम्पूर्णजनसङ्ख्या १०२८.७ लक्षम् आसीत् । एकस्मिन् दशके १८२.३२ लक्षं सापेक्षवृद्धिः अभवत् । १.९३ प्रतिशतं वार्षिकवृद्धिः जाता [३५]

१९५१ वर्षतः १९८१ वर्षं यावत् जनसङ्ख्यायाः वार्षिकवृद्धिमानं नियमितरूपेण वर्धते स्म । अनेन ज्ञायते यत् जनसङ्ख्यायां तीव्रवृद्धिः जाता । अतः १९५१ तमे वर्षे ३६.१० कोटिः इत्यस्मात् १९८१ तमे वर्षे ६८.३० कोटिः जाता [३६] । किन्तु १९८१ तमात् वर्षात् वृद्धिमानं न्यूनम् अभवत् । तदानीन्तने काले जन्ममानस्य तीव्रतया क्षयः जातः । तथापि १९९० तमे वर्षे सम्पूर्णजनसङ्ख्यायां १८.२० कोटिः जनानां वृद्धिः अभवत् ।

भारतस्य जनसङ्ख्या अत्यधिका वर्तते । अयं चिन्ताजनकः विषयः अस्ति । भारतस्य जनसङ्ख्यायां वार्षिकवृद्धिः १५५ लक्षं वर्तते । संसाधनानां, पर्यावरणस्य संरक्षणस्य च निष्क्रियकरणे सा पर्याप्ता वर्तते [३७]

वृद्धिमाने न्यूनता जन्ममानस्य नियन्त्रणाय प्रयासानां सफलतां प्रदर्शयति । तथापि जनसङ्ख्यावृद्धिः भवति । अतः २०४५ तमे वर्षे भारतदेशे चीन-देशात् अपि अधिका जनसङ्ख्या भवितुं शक्यते [३८]

जनसङ्ख्यायाः वृद्धेः परिवर्तनस्य वा प्रक्रियासम्पाद्यताम्

जनसङ्ख्यापरिवर्तनस्य मुख्याः तिस्रः प्रक्रियाः वर्तन्ते | जन्ममानं, मृत्युमानं, प्रवासश्च । जन्ममानमृत्युमानयोः अन्तरं जनसङ्ख्यायाः प्राकृतिकवृद्धिः वर्तते [३९]

एकस्मिन् वर्षे प्रतिसहस्रव्यक्तिः ये जीवितबालकाः भवन्ति तेषां बालकानां मानं जन्ममानं कथ्यते । इदं मानं वृद्धेः एकं प्रमुखं घटकं वर्तते । यतः भारतेऽस्मिन् सर्वदा जन्ममानं मृत्युमानात् अधिकं भवति [४०]

एकस्मिन् वर्षे प्रतिसहस्रव्यक्तिः मृतव्यक्तीनां सङ्ख्या मृत्युमानं कथ्यते । मृत्युमानस्य तीव्रतया ह्रासः अभवत् । अतः भारत-देशे जनसङ्ख्यायाः वृद्धिमानस्य मुख्यं कारणम् अस्ति [४१]

१९८० तमवर्षपर्यन्तम् उच्चजन्ममानेन, मृत्युमानस्य ह्रासेन च जन्ममानमृत्युमानयोः अन्तरम् अधिकम् अभवत् । तेन कारणेन जनसङ्ख्यावृद्धिमानम् अधिकं जातम् [४२] । १९८१ तमात् वर्षात् जन्ममाने अपि अल्पह्रासः जातः । अतः जनसङ्ख्यावृद्धिमाने अपि ह्रासः अभवत् ।

जनसङ्ख्यावृद्धेः तृतीयघटकः अस्ति प्रवासः [४३] । जनानाम् एकस्मात् क्षेत्रात् अन्यत्र गमनं प्रवासः इति कथ्यते । प्रवासस्य प्रकारद्वयं वर्तते । आन्तरिकः (स्वदेशे) प्रवासः, अन्ताराष्ट्रियः (देशात् बहिः अपि) प्रवासश्च ।

आन्तरिकप्रवासेन जनसङ्ख्यायाः माने किमपि परिवर्तनं न भवति । किन्तु अनेन प्रवासेन एकस्य देशस्य आन्तरिकजनसङ्ख्यावितरणं प्रभावितं भवति [४४] । जनसङ्ख्यायाः वितरणे, जनसङ्ख्यायाः घटकेषु परिवर्तने प्रवासः महत्वपूर्णः विद्यते ।

भारत-देशे जनाः ग्रामीणक्षेत्रात् नगरं प्रति प्रवासं बहुधा कुर्वन्ति । यतः अपकर्षणेन इयं स्थितिः जन्यते [४५] । ग्राम्यविस्तारे निर्धनतायाः प्रभावेण, वृत्तेः अभावेन च जनाः नगरं प्रति वृत्त्यर्थं, धनोपार्जनार्थं च गच्छन्ति ।

जनसङ्ख्यापरिवर्तनस्य महत्वपूर्णघटकः अस्ति प्रवासः । अयं प्रवासः केवलं जनसङ्ख्यायाः संरचनाम् एव न परिवर्तयति, अपि तु आयुषः, लिङ्गस्य च आधारितानि परिवर्तनानि भवन्ति [४६] । भारत-देशे ग्रामीणप्रवासैः नगरेषु जनसङ्ख्यायां नियमितत्वेन वृद्धिः अभवत ।

आयुसंरचनासम्पाद्यताम्

कस्मिंश्चित् देशे जनसङ्ख्यायाः आयुस्संरचना तत्रस्थानाम् आयुस्समूहानां जनानां सङ्ख्यां प्रदर्शयति । इयं जनसङ्ख्यायाः मूख्यविशेषतासु अन्यतमा वर्तते [४७] । कस्याः व्यक्तेः आयुः तस्य इच्छायाः, क्रयणस्य, कार्यस्य च क्षमतां प्रभावयति । तेन कारणेन बालकानां, वयस्कानां, वृद्धानां च सङ्ख्या कस्यचित् क्षेत्रस्य आर्थिकसामाजिकस्वरूपस्य निर्धारणं करोति [४८]

कस्यचित् राष्ट्रस्य जनसङ्ख्या त्रिषु वर्गेषु विभज्यते । बालकः, वयस्कः, वृद्धश्च ।

बालकः (१५ वर्षात् न्यूनः)सम्पाद्यताम्

बालकाः आर्थिकरूपेण उत्पादनशीलाः न भवन्ति । बालकेभ्यः भोजनं, वस्त्राणि, स्वास्थ्यसम्बन्धिन्यः सुविधाः च प्रदातव्याः भवन्ति [४९]

वयस्कः (१५ तः ५९ वर्षपर्यन्तं)सम्पाद्यताम्

वयस्काः आर्थिकरूपेण उत्पादनशीलाः, जैविकरूपेण प्रजननशीलाः च भवन्ति । अयं जनसङ्ख्यायाः कार्यशीलः वर्गः अस्ति [५०]

वृद्धः (५९ तः अधिकः)सम्पाद्यताम्

वृद्धाः आर्थिकरूपेण उत्पादनशीलाः भवितुं शक्नुवन्ति । एते स्वैच्छिकतया कार्यं कर्तुं शक्नुवन्ति । किन्तु प्रवेशप्रक्रियया एतेषां नियुक्तिः न भवति [५१]

भारतदेशे ३४.४ % बालकाः, ५८.७ % वयस्काः, ६.९ % वृद्धाः च सन्ति । बालकानां, वृद्धानां च प्रतिशतं जनसङ्ख्यायाः आश्रितानुपातं प्रभावयति [५२] । यतः एते समूहाः उत्पादकाः न भवन्ति ।

आयु-लिङ्गयोः सूच्यग्रस्तम्भःसम्पाद्यताम्

जनसङ्ख्यायाः आयुर्लिङ्गयोः संरचना क्रियते । तस्याभिप्रायः अस्ति यत् देशे विश्वस्मिन् वा स्त्रीपुरुषयोः सङ्ख्या इति । जनसङ्ख्यायाः आयुलिङ्गयोः संरचनां दर्शयितुं जनसङ्ख्या-सूच्यग्रस्तम्भः उपयुज्यते [५३]

जनसङ्ख्यासूच्यग्रस्तम्भस्य आकृत्या जनसङ्ख्यायाः वैशिष्ट्यं परिलक्षितं भवति [५४]। पिरामिड्-इत्यस्मिन् आयुर्वर्गे वामभागः पुरुषाणां प्रतिशतं, दक्षिणभागः स्त्रीणां प्रतिशतं च प्रदर्शयति ।

विस्तारिता जनसङ्ख्यासम्पाद्यताम्

नाइजीरिया इत्यस्य देशस्य आयुर्लिङ्गयोः सूच्यग्रस्तम्भः त्रिभुजाकारः वर्तते । सः अल्पविकसितदेशानां प्रतिरूपम् अस्ति [५५]। पिरामिड्-इत्यस्मिन् उच्चजन्ममानेन निम्नायुवर्गेषु विशालजनसङ्ख्या प्राप्यते । बाङ्लादेश, मैक्सको इत्येतयोः पिरामिड्-इत्यस्य संरचना अपि समाना एव अस्ति ।

स्थिरजनसङ्ख्यासम्पाद्यताम्

ऑस्ट्रेलिया-देशस्य आयर्लिङ्गयोः सूच्यग्रस्तम्भः घण्टाकारः वर्तते । पिरामिड्-इत्यस्य शीर्षभागः शुण्डाकारः भवति [५६]। तेन दृश्यते यत् जन्ममानं मृत्युमानं च प्रायः समानम् एव । तेन कारणेन जनसङ्ख्या स्थिरा भवति ।

ह्रासमाना जनसङ्ख्यासम्पाद्यताम्

जापान-देशस्य पिरामिड्-इत्यस्य आधारः संकीर्णः, शीर्षः शुण्डाकारः च अस्ति । तेन निम्नजन्ममानं, निम्नमृत्युमानं च ज्ञायते । तेषु देशेषु जनसङ्ख्यायाः वृद्धिः ऋणात्मिका भवति [५७]

ग्रामीण-नगरीयं सङ्घटनम्सम्पाद्यताम्

निवासस्य आधारेण एव जनसङ्ख्यायाः ग्रामीणं, नगरीयं च विभाजनं भवति । सामाजिकदृष्ट्या, आजीविकायाः दृष्ट्या च ग्रामीणं, नगरीयं च जीवनं परस्परं भिन्नम् अस्ति [५८]। ग्रामीणक्षेत्रेषु, नगरीयक्षेत्रेषु च आयु-लिङ्गयोः सङ्घटनस्य, व्यावसायिकीसंरचनायाः, घनत्वस्य, विकासस्य च स्तरः भिन्नः भवति ।

यतो हि ग्रामीण-नगरीयजनसङ्ख्यायाः मापदण्डः देशेषु अपि परस्परं भिन्नः भवति । सामान्यत्वेन यत्र जनाः प्राथमिकक्रियासु संलग्नाः भवन्ति तत् ग्रामीणक्षेत्रम् उच्यते [५९] । यत्र जनाः अधिकजनसङ्ख्यायाम् अवैध-प्राथमिकक्रियासु संलग्नाः भवन्ति तत् नगरीयक्षेत्रम् इति कथ्यते ।

पाश्चात्ययूरोपीयेषु देशेषु ग्रामीणनगरीययोः लिङ्गानुपाते अन्तरं भवति । पाश्चात्यदेशानां ग्रामीणक्षेत्रेषु स्त्रीणां तुलनायां पुरुषाणां संङ्ख्या अधिका वर्तते । किन्तु नगरीयक्षेत्रेषु स्त्रीणां तुलनायां पुरुषाणां सङ्ख्या न्यूना वर्तते [६०]। यद्यपि नेपाल्-देशस्य, पाकिस्ता-देशस्य, भारत-देशस्य च स्थितिः विपरीता अस्ति । नगरीयक्षेत्रेषु वृत्तीनाम् अवसराः प्राप्यन्ते । अतः यूरोप्, कनाडा, संयुक्त राज्य अमेरिका इत्येतेषां देशानां नगरीयक्षेत्रेषु स्त्रीणां सङ्ख्या अधिका वर्तते । कृषिः अपि विकसितदेशेषु यन्त्राधारिता अस्ति । अयं व्यवसायः प्रायः पुरुषप्रधानः अस्ति[६१] । किन्तु एशिया-महाद्वीपस्य नगरीयक्षेत्रेषु पुरुषप्रधानेन प्रवासेन लिङ्गानुपातः अपि पुरुषाणां सानुकूलः वर्तते । उल्लेखनीयम् अस्ति यत् भारतसदृशेषु देशेषु ग्रामीणक्षेत्राणां कृषिकार्येषु स्त्रीणाम् अपि साहाय्यम् अधिकं भवति[६२] । नगरेषु आवासस्य अभावः, निवासस्य बहुमूल्यं, वृत्त्यर्थम् अवसराणाम् अभावः, सुरक्षायाः अभावः च भवति । तेन कारणेन स्त्रियः ग्रामात् नगरं प्रति प्रवासं न कुर्वन्ति ।

केषाञ्चित् देशानां ग्रामीण-नगरीयसङ्घट्नम् अधः प्रदत्तम् अस्ति [६३]

  • फिनलैण्ड्-देशे प्रतिसहस्रपुरुषाणां (१००० पुरुषाणां) तुलनायां ९८६ ग्रामीणाः स्त्रियः, १०८३ नगरीयाः स्त्रियः च सन्ति ।
  • कनाडा-देशे प्रतिसहस्रपुरुषाणां (१००० पुरुषाणां) तुलनायां ९४१ ग्रामीणाः स्त्रियः, १०४० नगरीयाः स्त्रियः च सन्ति ।
  • न्यूजीलैण्ड्-देशे प्रतिसहस्रपुरुषाणां (१००० पुरुषाणां) तुलनायां ९३५ ग्रामीणाः स्त्रियः, १०५१ नगरीयाः स्त्रियः च सन्ति ।
  • ब्राजील्-देशे प्रतिसहस्रपुरुषाणां (१००० पुरुषाणां) तुलनायां ९०८ ग्रामीणाः स्त्रियः, १०६३ नगरीयाः स्त्रियः च सन्ति ।
  • जिम्बाब्वे-देशे प्रतिसहस्रपुरुषाणां (१००० पुरुषाणां) तुलनायां ११२९ ग्रामीणाः स्त्रियः, १००७ नगरीयाः स्त्रियः च सन्ति ।
  • नेपाल-देशे प्रतिसहस्रपुरुषाणां (१००० पुरुषाणां) तुलनायां १०१२ ग्रामीणाः स्त्रियः, ९३९ नगरीयाः स्त्रियः च सन्ति ।

लिङ्गानुपातःसम्पाद्यताम्

प्रतिसहस्रपुरुषाणाम् अनुपाते स्त्रीणां सङ्ख्या लिङ्गानुपातः कथ्यते । अयम् अनुपातः स्त्रीपुरुषयोः समानतायाः एकः महत्वपूर्णः सूचकः वर्तते [६४] । देशे लिङ्गानुपातः प्रायः स्त्रीणां पक्षे न भवति । १९५१ तः २००१ वर्षपर्यन्तं भारतस्य लिङ्गानुपातः अधः प्रदत्तः अस्ति ।

  • १९५१ तमे वर्षे भारतस्य ९४६ (प्रतिसहस्रपुरुषाणाम् अनुपाते स्त्रियः) लिङ्गानुपातः आसीत् ।
  • १९६१ तमे वर्षे भारतस्य ९४१ (प्रतिसहस्रपुरुषाणाम् अनुपाते स्त्रियः) लिङ्गानुपातः आसीत् ।
  • १९७१ तमे वर्षे भारतस्य ९३० (प्रतिसहस्रपुरुषाणाम् अनुपाते स्त्रियः) लिङ्गानुपातः आसीत् ।
  • १९८१ तमे वर्षे भारतस्य ९३४ (प्रतिसहस्रपुरुषाणाम् अनुपाते स्त्रियः) लिङ्गानुपातः आसीत् ।
  • १९९१ तमे वर्षे भारतस्य ९२९ (प्रतिसहस्रपुरुषाणाम् अनुपाते स्त्रियः) लिङ्गानुपातः आसीत् ।
  • २००१ तमे वर्षे भारतस्य ९३३ (प्रतिसहस्रपुरुषाणाम् अनुपाते स्त्रियः) लिङ्गानुपातः आसीत् ।

साक्षरतामानम्सम्पाद्यताम्

साक्षरता कस्यचिद् देशस्य जनसङ्ख्यायाः महत्वपूर्णम् अस्ति । स्पष्टमस्ति यत् ये जनाः शिक्षिताः सन्ति ते एव बुद्धिपूर्वकं निर्णयं कर्तुं शक्नुवन्ति[६५] । ते शोधविकासयोः कार्याणि अपि कर्तुं शक्नुवन्ति । साक्षरतास्तरे न्यूनताया कारणेन आर्थिकप्रगतौ बाधा भवति । आर्थिकविकासस्य स्तरः एव साक्षरतायाः कारणं, परिणामः च अस्ति [६६]

२००१ तमवर्षस्य जनगणनानुसारं कस्याश्चिद् व्यक्तेः आयुः सप्तवर्षाणि वा तस्मादधिकं भवेत् । यदि सः काञ्चिद् भाषां ज्ञातुं शक्नोति तर्हि सः साक्षरश्रेण्याम् अन्तर्भवति[६७]

२००१ तमस्य वर्षस्य जनगणनानुसारं देशस्य साक्षरतामानं ६४.८४ % आसीत् [६८] । तस्मिन् पुरुषाः ७५.२६% प्रतिशतं, स्त्रीणां ५३.६७% प्रतिशतं च आसीत् ।

व्यावसायिकी संरचनासम्पाद्यताम्

आर्थिकरूपेण क्रियाशीलजनसङ्ख्यायाः प्रतिशतं विकासस्य एकं महत्वपूर्णं लिङ्गं वर्तते । विभिन्नप्रकारकव्यवसायानुसारं कृतं जनसङ्ख्यायाः वितरणं "व्यावसायिकी संरचना" कथ्यते । प्रत्येकेषु देशेषु भिन्नव्यवसायार्थं भिन्नव्यावसायिकाः भवन्ति । व्यवसायाः तिसृषु श्रेणिषु विभक्ताः सन्ति । प्राथमिकः, द्वैतियिकः, तार्तियिकः च [६९]

प्राथमिकः व्यवसायःसम्पाद्यताम्

अस्मिन् व्यवसाये कृषिः, पशुपालनं, वृक्षारोपणं, मत्स्यपालनं, खननम् इत्यादयः क्रियाः सम्मिलिताः सन्ति [७०]

द्वैतियिकः व्यवसायःसम्पाद्यताम्

उत्पादकः उद्योगाः, भवनं, निर्माणकार्यं च अस्मिन् व्यवसाये सम्मिलिताः भवन्ति [७१]

तार्तियिकः व्यवसायःसम्पाद्यताम्

अस्मिन् व्यवसाये परिवहनानि, सञ्चारः, वाणिज्यं, प्रशासनं, सेवाः इत्यादयः सम्मिलिताः सन्ति [७२]

विकसितेषु, विकासशीलेषु च देशेषु विभिन्नकार्यकर्तृणाम् अनुपातः अपि भिन्नः एव भवति । विकसितेषु देशेषु द्वैतियिकेषु, तार्तियिकेषु च कार्येषु कार्यकर्तॄ णां जनानां सङ्ख्यायाः अनुपातः अधिकः भवति । विकासशीलदेशेषु प्राथमिककार्येषु जनानाम् अनुपातः अधिकः भवति । भारत-देशस्य जनसङ्ख्यायाः ६४% जनाः कृषिकार्यं कुर्वन्ति । द्वैतियिके, तार्तियिके च क्षेत्रे कार्यरतानां जनानां सङ्ख्यायाः अनुपातः १३ तः २० प्रतिशतम् अस्ति [७३]

स्वास्थ्यम्सम्पाद्यताम्

जनसङ्ख्यायाः संरचनायाः एकः महत्वपूर्णः घटकः स्वास्थ्यम् अपि अस्ति । स्वास्थ्येन विकासप्रक्रिया प्रभाविता भवति । सर्वकारेण प्रचाल्यमानानां कार्यक्रमाणां निरन्तरप्रयासेन भारतस्य जनसङ्ख्यायाः स्वास्थ्यस्तरः समीचीनः जातः [७४] । १९५१ तमे वर्षे भारतस्य जनसङ्ख्यायाः मृत्युमानं २५ जनाः प्रतिसहस्रजनेषु आसीत् । किन्तु २००१ तमे वर्षे तन्मानं न्यूनं जातम् । तदा ८.१ जनाः प्रतिसहस्रजनेषु अभवन् । १९५१ तमे वर्षे सामान्यतः आयुः ३६.७ वर्षाणि आसीत् । २००१ तमे वर्षे तस्यां वृद्धिर्जाता । तदा ६४.६ वर्षाणि अभवन् [७५]

सङ्क्रामकरोगाणां निवारणेन, रोगाणां निवारणाय आधुनिकोपकरणानां प्रयोगेण भारतस्य स्थितिः समीचिना जाता । भारते स्वास्थ्यस्य स्तरः इत्येकः चिन्ताजनकः विषयः अस्ति । भारतस्य जनसङ्ख्यायाः बृहत्तमः भागः कुपोषणेन प्रभावितः अस्ति [७६] । ग्रामेषु केषुचित् क्षेत्रेषु एव शुद्धपेयजलं, स्वास्थ्यरक्षायै सुविधाः च उपलब्धाः सन्ति ।

किशोराणां जनसङ्ख्यासम्पाद्यताम्

किशोराणां जनसङ्ख्या भारतस्य जनसङ्ख्यायाः महत्वपूर्णं लक्षणं वर्तते । अयं भारतस्य जनसङ्ख्यायाः पञ्चमो भागः अस्ति । किशोरावस्थायां व्यक्तेः आयुः १० तः १९ वर्षपर्यन्तं भवति । एते भविष्यत्कालस्य महत्वपूर्णानि मानवसंसाधनानि सन्ति [७७] । किशोरेभ्यः अधिकानां पोषकतत्त्वानाम् आवश्यकता वर्तते । कुपोषणेन तेषां स्वास्थ्यहानिः, विकासे अवरोधः च भवितुं शक्यते । किन्तु भारते किशोरेभ्यः भोजने पोषकतत्त्वानाम् अभावः वर्तते । बह्व्यः किशोरबालिकाः रक्तहीनतायाः पीडिताः सन्ति [७८]

जनसङ्ख्यापरिवर्तनस्य प्रभावाःसम्पाद्यताम्

कस्याञ्चित् विकासशीलार्थव्यवस्थायां जनसङ्ख्यायाः अल्पवृद्धिः अपेक्षिता वर्तते । तथापि समयान्तरे जनसङ्ख्यावृद्धेः समस्याः उत्पद्यन्ते । संसाधनेभ्यः अपि अधिकाः समस्याः उत्पद्यन्ते [७९] । अतः ये संसाधनानि जनसङ्ख्यानां पोषणं कुर्वन्ति तेऽपि अक्षमाः भविष्यन्ति । एड्स्/एच्. आई. वी. (एक्वायर्ड् इम्यून् डेफिसिएन्सी सिन्ड्रोम्) इत्यादिनां रोगाणां प्रभावेण मृत्युमाने वृद्धिर्जाता । तेन जनसङ्ख्यावृद्धौ न्यूनता आगता ।

जनाङ्किकीयं सङ्क्रमणम्सम्पाद्यताम्

जनाङ्किकीयं सङ्क्रमणम् एकः सिद्धान्तः वर्तते । कस्यचित् क्षेत्रस्य जनसङ्ख्यायाः वर्णने अस्य सिद्धान्तस्य उपयोगः कर्तुं शक्यते [८०] । यदा समाजः उन्नतिं करोति तदा सः औद्योगिकः साक्षरश्च भवति । तेन कारणेन मृत्युमानं, जन्ममानं च न्यूनं भवति । इदं परिवर्तनावस्थायां भवति । अतः सामूहिकरूपेण इदं जनांकिकीयं चक्रम् कथ्यते [८१]

जनसङ्ख्यानियन्त्रणस्य उपायाःसम्पाद्यताम्

बालकानां जनने अन्तरालं भवेत् इति सुखिपरिवारस्य आयोजनपद्धतिः वर्तते । तेन कारणेन मर्यादितजनसङ्ख्यावृद्धिः, स्त्रीणां समीचीनं स्वास्थ्यं च भवति । गर्भ-निरोधकस्य व्यवस्था अपि बृहत्परिवाराय उपकारिणी अस्ति । तेन जनसङ्ख्यायाः नियन्त्रणेन साहाय्यं भवति [८२]

थॉमस् माल्थस् इत्यनेन स्वस्य सिद्धान्ते उक्तं यत् खाद्यापूर्तेः अपेक्षया जनानां सङ्ख्यायां तीव्रतया वृद्धिर्भविष्यति । अतः तस्य परिणामेन दुष्कालः, रोगाः, विवादाः च भविष्यन्ति [८३] । तदा जनसङ्ख्यावृद्धौ न्यूनता भविष्यति ।

राष्ट्रियजनसङ्ख्यायाः नीतिःसम्पाद्यताम्

यदि परिवारेषु सीमितमात्रायां सदस्याः भवन्ति, तर्हि व्यक्तीनां स्वास्थ्याय कल्याणाय च ध्यानं दातुं शक्यम् अस्ति । अतः भारतसर्वकारेण १९५२ तमे वर्षे "व्यापक परिवार नियोजन" नामकस्य कार्यक्रमस्य प्रारम्भः कृतः । इयं योजना इदानीमपि कार्यरता अस्ति । “जनसङ्ख्या नीति २०००” बहुवर्षाणां प्रयासानां परिणामः अस्ति [८४]

“राष्ट्रिय जनसङ्ख्या नीति २०००” इतीयं १४ वर्षपर्यन्तं बालकेभ्यः शुल्कहीनं शिक्षणं प्रदातुं, शिशुमृत्युमानं न्यूनीकर्तुं, बालिकानां विवाहाय आयुर्वृद्ध्यर्थं च प्रोत्साहनं करोति [८५]

राष्ट्रियजनसङ्ख्यायाः नीतिः २००० किशोरश्चसम्पाद्यताम्

अस्यां योजनायां भारतसर्वकारेण किशोराणां सम्पूर्णसंरक्षणाय कार्याणि कृतानि सन्ति । किशोराणां यौवनसम्बन्धिनीः समस्याः, गर्भधारणसमस्याः च महत्वपूर्णाः सन्ति । अतः अवाञ्छितगर्भधारणे एषा योजना कार्यरता अस्ति । किशोरबालकानां, किशोरबालिकानां च रक्षणं महत्वपूर्णम् आवश्यकं घटकं वर्तते [८६] । अस्यां योजनायां बहवः कार्यक्रमाः प्रचालिताः सन्ति । तेषु कार्यक्रमेषु कार्यकर्तारः किशोरबालकान् किशोरबालिकाः च प्रति विलम्बेन विवाहाय, सन्तानस्य उत्पत्तये च प्रोत्साहनं कुर्वन्ति

कस्मैचित् अपि राष्ट्राय तत्रत्याः जनाः ’बहुमूल्यानि संसाधनानि’ सन्ति । शिक्षितैः स्वस्थैः जनैः एव कार्यशक्तिः प्राप्ता भवति [८७]

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यनुबन्धाःसम्पाद्यताम्

सन्दर्भःसम्पाद्यताम्

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 56. ISBN 8174505253. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 8. ISBN 8174506748. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 8. ISBN 8174506748. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 56. ISBN 8174505253. 
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 56. ISBN 8174505253. 
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 8. ISBN 8174506748. 
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 8. ISBN 8174506748. 
  8. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 9. ISBN 8174506748. 
  9. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 56. ISBN 8174505253. 
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 57. ISBN 8174505253. 
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 57. ISBN 8174505253. 
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 9. ISBN 8174506748. 
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 9. ISBN 8174506748. 
  14. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 9. ISBN 8174506748. 
  15. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 9. ISBN 8174506748. 
  16. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 57. ISBN 8174505253. 
  17. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 57. ISBN 8174505253. 
  18. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 57. ISBN 8174505253. 
  19. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 10. ISBN 8174506748. 
  20. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 10. ISBN 8174506748. 
  21. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 10. ISBN 8174506748. 
  22. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 10. ISBN 8174506748. 
  23. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 10. ISBN 8174506748. 
  24. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 10. ISBN 8174506748. 
  25. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 10. ISBN 8174506748. 
  26. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 10. ISBN 8174506748. 
  27. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 10. ISBN 8174506748. 
  28. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 59. ISBN 8174505253. 
  29. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 59. ISBN 8174505253. 
  30. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 59. ISBN 8174505253. 
  31. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 59. ISBN 8174505253. 
  32. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 59. ISBN 8174505253. 
  33. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 59. ISBN 8174505253. 
  34. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 59. ISBN 8174505253. 
  35. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 59. ISBN 8174505253. 
  36. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 59. ISBN 8174505253. 
  37. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 60. ISBN 8174505253. 
  38. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 60. ISBN 8174505253. 
  39. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 60. ISBN 8174505253. 
  40. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 60. ISBN 8174505253. 
  41. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 60. ISBN 8174505253. 
  42. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 60. ISBN 8174505253. 
  43. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 60. ISBN 8174505253. 
  44. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 60. ISBN 8174505253. 
  45. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 60. ISBN 8174505253. 
  46. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 60. ISBN 8174505253. 
  47. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 60. ISBN 8174505253. 
  48. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 61. ISBN 8174505253. 
  49. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 61. ISBN 8174505253. 
  50. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 61. ISBN 8174505253. 
  51. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 61. ISBN 8174505253. 
  52. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 61. ISBN 8174505253. 
  53. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 19. ISBN 8174506748. 
  54. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 19. ISBN 8174506748. 
  55. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 19. ISBN 8174506748. 
  56. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 19. ISBN 8174506748. 
  57. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174506748. 
  58. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174506748. 
  59. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174506748. 
  60. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174506748. 
  61. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174506748. 
  62. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174506748. 
  63. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174506748. 
  64. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 61. ISBN 8174505253. 
  65. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 61. ISBN 8174505253. 
  66. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174506748. 
  67. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  68. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  69. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  70. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  71. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  72. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  73. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  74. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  75. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  76. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  77. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  78. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 62. ISBN 8174505253. 
  79. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 15. ISBN 8174506748. 
  80. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 15. ISBN 8174506748. 
  81. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 15. ISBN 8174506748. 
  82. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 16. ISBN 8174506748. 
  83. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 16. ISBN 8174506748. 
  84. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 63. ISBN 8174505253. 
  85. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 63. ISBN 8174505253. 
  86. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 63. ISBN 8174505253. 
  87. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2014). समकालीन भारत. 1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 63. ISBN 8174505253. 
"https://sa.wikipedia.org/w/index.php?title=जनसङ्ख्या&oldid=440034" इत्यस्माद् पुनः प्राप्तिः