जोसेफ़ लुयि लग्राञ्जे

जोसेफ़ लुयि लग्राञ्जे सम्पादयतु

जोसेफ़ लुयि लग्राञ्जे ( २५ जनवरी १७३६- १० एप्रिल १८१३ ) इटालिदेशीय: गणितज्ञ: ज्यौतिषिक: च आसीत् । स: गणित-विश्लेषणक्षेत्रे , सङ्क्या सिद्धान्ते , शास्त्रीयगणितशास्त्र, खगोलीययन्त्रशास्त्रादीनां क्षेत्रेषु महत् योगदानम् कृतम् । क्रि.श १७६६ तमे वर्षे स्विस्स लियोनार्ड आय्लरस्य फ़्रैन्च दिआलम्बर्टस्य च निर्देशनेन स: प्रश्यन् अकादमी आफ़ सायिन्सस् इत्यस्य संस्थाया: गणितविभागस्य निर्देशक: अभवत् । स: अत्र द्वादशवर्षेभ्य: कार्यं कुर्वन् बहूनि ग्रन्थानि विरचयति स्म , यानि बहूनि फ़्रेन्च अकादमी आफ़ सायिन्सस् संस्थया पुरस्कृतानि अभवन् ।

जोसेफ़ लुयि लग्राञ्जे

परिचयः सम्पादयतु

लग्राञ्जस्य समाधिः

लग्राञजस्य यन्त्रशास्त्र-विश्लेषण विषयक: ग्रन्थ: बर्लिन् नगरे क्रि.श १७८८ तमे वर्षे प्रकाशितम् अभवत् । अयं ग्रन्थ: न्यूटननन्तरं शास्त्रीय यन्त्रशास्त्रस्य संहिता इवाभवत् । अयमेव कृति: भविष्ये गणितात्मकभौतशास्त्रस्य अभिवृद्धये आधार: अभवत् नवदशशताब्धे ।

क्रि.श १७८७ तमे वर्षे , ५१ आयुषि स: बर्लिन् नगरात् पारिस् नगरं अगच्छत् । स: मृत्युपर्यन्तम् अत्रैव निवसति स्म । फ़्रेन्च महाक्रान्तौ एष: प्रमुखं पात्रं निर्वहति स्म । स: क्रि.श १७९४ तमे वर्षे इकोले महाविद्यालये गणितविश्लेषणस्य प्रथम: प्राध्यापक: अभवत् । स: बिरु दे लाङ्गित्युड् संस्थाया: संस्थापकसदस्य: अपि आसीत् । तदनन्तरं क्रि.श १७८९ वर्षे फ़्रेन्चदेशे अमात्य: अभवत् ।

पुरस्कारा: सम्पादयतु

आय्लर् लग्राञ्जस्य नामं बर्लिन् संस्थाया: निर्वाचनार्थं प्रस्तावयति स्म तदनन्तरं क्रि.श १७५६ तमे वर्षे तत्र नियुक्तो अभवत् । क्रि.श १७९० वर्षे रायल् सोसय्टि आफ़ एडिन्बराह संस्थाया: सदस्यत्वेन नियुक्तो अभवत् । १८०६ तमे वर्षे मननीयसंस्थाया: रायल् स्वीडिश् अकादमी आफ़ सायिन्सस् वैदेशिकसदस्य: अभवत् । १८०८ फ़्रेन्च राष्ट्रादिपति: नेपोलियन् एतस्मै “ लिजियन् आफ़ हानर्” “कौन्ट आफ़ एम्पैर् “ इति पदवीद्वयेन सम्मानयति स्म । १८१३ वर्षे तस्य मरणस्य सप्ताहपूर्वं “ ग्रान्ड क्राय्श आफ़ दि आर्डर् आफ़ रियूनियन् “ इति गौरवेन पुरस्कृतो अभवत् । मरणानन्तरं पारिस् नगरस्य पान्थियान् तस्य देहस्य अन्तसंस्कार: कृत: । १७६४ तमे वर्षे ज्योतिषिकशास्त्रे चन्द्रमण्डलस्य विषये तस्य अन्वेषणार्थं फ़्रेन्च अकादमी आफ़ सायिन्सस् पुरस्कारेण सम्मानित: । अयमेव पुरस्कार: पुन: तस्मै १७७२,१७७४,१७७८ वर्षे च दत्तम् ।

सम्बद्धाः लेखाः सम्पादयतु