बेञ्जामिन् पाल

(डा. बि. पि. पाल् इत्यस्मात् पुनर्निर्दिष्टम्)


(कालः – १९०६ तः १९८९)

बेजमिन् पौल्

एषः डा. बि. पि. पाल् (Dr. B. P. Paul) प्रसिद्धः पुष्पकृषेः नेता । एषः १९०६ वर्षे भारते जन्म प्राप्नोत् । सः भारते पुष्पकृषिः उद्यमत्वेन अभिवृद्धिं प्राप्नोत् यत् तदर्थम् अहर्निशं कार्यम् अकरोत् । सः एषः डा. बि. पि. पाल् उत्तमः सस्यशास्त्रज्ञः, आनुवंशतज्ञः, कृषिविज्ञानी, शासकः च आसीत् । एषः डा. बि. पि. पाल् भारतीय–कृषि–संशोधन–केन्द्रस्य सस्यशास्त्रविभागस्य मुख्यः आसीत् । अनन्तरं तस्याः एव संस्थायाः निर्देशकः अभवत् । कृषिविज्ञाने स्नातकोत्तरशिक्षणस्य मार्गदर्शनं नेतृत्वं च अस्य एव आसीत् । भारतस्य विभिन्नेषु भागेषु युवविज्ञानिनां निमित्तम् उन्नतशिक्षणस्य व्यवस्ताम् अपि एषः डा. बि. पि. पाल् एव अकरोत् ।

एषः डा. बि. पि. पाल् पुष्पकृषिम् एव उपवृत्तित्वेन आश्रितवान् । ४० वर्षाणि यावत् पुष्पकृषिम् अकरोत् अपि । पाटलपुष्पाणां "डा. होमीबाबा”, "डेल्ली प्रिन्सेस्”, "नलगरराजा”, "बञ्जारन्” इत्यादयः वंशाः अनेन एव सृष्टाः । पाटलकृषेः विषये तेन लिखितं "भारते पाटलपुष्पम्” (Rose in India) इति पुस्तकम् अपि अत्यन्तं प्रसिद्धम् अपि । एषः डा. बि. पि. पाल् विदेशेषु अपि "पाटलपुष्पतज्ञः” इत्येव प्रसिद्धः आसीत् । बहुविधानां वर्णानां पुष्पसदृशाणां पर्णानां "बुगेन् विल्या” नामकस्य आलङ्कारिकसस्यवंशस्य लतायाः अभिवृद्धिं कृत्वा "डा. आर्. आर्. पाल्” नामकं नूतनं वंशम् एव सृष्टवान् एषः डा. बि. पि. पालः । सः देहलीस्थस्य "वृक्षमित्रकूटस्य" अपि अध्यक्षः आसीत् । एषः डा. बि. पि. पालः १९७२ तमे वर्षे उद्योगात् निवृत्तिम् आप्नोत् । तथैव च १९८९ तमे वर्षे इहलोकात् ।

""

"https://sa.wikipedia.org/w/index.php?title=बेञ्जामिन्_पाल&oldid=423555" इत्यस्माद् प्रतिप्राप्तम्