(कालः – १८. ०२. १९०९ तः १२. ०३. १९७८)

एषः डा. जे. जे. चिनायः (Dr J.J. Chenoy) प्रसिद्धः सस्यविज्ञानी आसीत् । अयं डा. जे. जे. चिनायः १९०९ तमे वर्षे फेब्रवरिमासस्य १८ दिनाङ्के भारतदेशस्य गुजरातराज्यस्य कछ्–प्रान्तस्य "भुज्” इत्यत्र जन्म प्राप्नोत् । अस्य पूर्णं नाम जेम्षेड्जि जीजाभाई चिनायः इति । एषः आधुनिके सस्यविज्ञाने १९२९ तमे वर्षे मुम्बईविश्वविद्यालयतः "बि एस्सि” पदवीं प्राप्नोत् । बाल्ये एव पिता पितामहः च दिवं गतौ इति कारणतः अयं डा. जे. जे. चिनायः उन्नताध्ययनम् अत्यन्तं श्रमेण अकरोत् । विद्यार्थिजीवने अयम् उत्तमः वाग्मी अपि आसीत् । १९३१ तमे वर्षे उन्नतश्रेण्याम् "एम् एस्सि” पदवीं प्राप्नोत् । संशोधनविद्यार्थिवेतनस्य साहाय्येन अग्रिमस्य अध्ययनस्य निमित्तम् इङ्ग्लेण्ड्–देशम्अगच्छत् । तत्र प्रख्यातस्य एफ्. गि. ग्रेगोरि इत्यस्य प्राध्यापकस्य मार्गदर्शने १९३५ तमे वर्षे लण्डन्–नगरे स्थितात् इम्पीरियल्-महाविद्यालयतः "डाक्टरेट्” पदवीं प्राप्नोत् ।


एषः डा. जे. जे. चिनायः डाक्टरेट्–पदव्याः प्राप्त्यनन्तरं भारतम् एव प्रत्यागत्य लयालपुरस्य केन्द्रकार्पाससमितौ (Central Cotton Committee) किञ्चित् कालं यावत् कार्यम् अकरोत् । १९४१ तमे वर्षे भारतीयकृषिसंशोधनसंस्थायां (Indian Agriculture Research Institute) सह-आर्थिकसस्यशास्त्रज्ञरूपेण (Assistant Economical Botonist) कार्यम् आरब्धवान् । १९५९ तमे वर्षे केनडादेशस्य माण्ट्रियाल्–प्रदेशे प्रवृत्ते अन्ताराष्ट्रिय–सस्यशास्त्र–काङ्ग्रेस् (International Botony Congress) मध्ये, तथा च १९६४ तमे वर्षे एडिन्बरो–प्रदेशे प्रवृत्ते अन्ताराष्ट्रिय–सस्यशास्त्रकाङ्ग्रेस् (International Botony Congress) मध्ये प्रतिभायाः प्रदर्शनम् अकरोत् । तस्य फलरूपेण १९७५ तमे वर्षे रष्यादेशस्य लेनिन्ग्राड्प्रदेशे प्रवृत्तस्य अन्ताराष्ट्रियसस्यशास्त्रकाङ्ग्रेसस्य (International Botony Congress) उपाध्यक्षरूपेण आह्वानं प्राप्नोत् । तदनन्तरं सन्दर्शकप्राध्यापकरूपेण इङ्ग्लेण्ड्, हालेण्ड्, फ्रान्स्, जर्मन्, बेल्जियं, स्वीडन्, नार्वे, रष्या इत्यादीन् देशान् अगच्छत् । एषः डा. जे. जे. चिनायः अल्पावधौ रोगराहित्येन वर्धमानानां नूतनानां सस्यवंशाणां संशोधनम् अकरोत् । न केवलं तावत् अपि तु जलाभाव–परिस्थितौ अपि वर्धमानान् सस्यवंशान् संशोधितवान् । अस्य डा. जे. जे. चिनायस्य नेतृत्वे गुजरातविश्वविद्यालये अनेके जीवविज्ञानिनः राष्ट्रियस्तरे अन्ताराष्ट्रियस्तरे च अनेकानि संशोधनानि अकुर्वन् । शताधिकाः जनाः अस्य डा. जे. जे. चिनायस्य मार्गदर्शने "डाक्टरेट्”–पदवीं प्राप्नुवन् । भारतीयविज्ञान–अकादम्याः (Indian Academy of Science) फेलो इति यदा चितः अभवत् तदनन्तरम् अपि भावनगरं, वडोदरां, कोल्कत्तानगरम् इत्यादीन् प्रदेशान् गत्वा सस्यविज्ञानस्य विषये प्रौढानां प्रबन्धानां मण्डनम् अकरोत् ।

सः कोशीयसस्यशास्त्रस्य विषये तथा अणुजीवविज्ञानस्य विषये च अयं डा. जे. जे. चिनायः २५० अपेक्षया अधिकानि लेखनानि लिखितवान् । अयं डा. जे. जे. चिनायः निवृत्तेः अनन्तरम् अपि संशोधनं न स्थगितवान् । विश्वविद्यालयसाहाय्य–अकादम्याः (University Grants Academy) आश्रये अनेन लिखितं "रोल् आफ् अस्कार्बिक् आसिड् इन् प्लाण्ट्स् आण्ड् मेटबालिसम्” इति पुस्तकम् अत्यन्तं प्रसिद्धम् अस्ति । अयं डा. जे. जे. चिनायः यत्र यत्र गच्छति स्म तत्र सर्वत्र उत्साहं, कार्यतत्परतां च वर्धयति स्म । तथैव समयपालने, साहाय्याचरणे, सहनशीलयायाम् अपि सः अग्रगण्यः आसीत् । तादृशः डा. जे. जे. चिनायः १९७८ तमे वर्षे मार्चमासस्य १२ दिनाङ्के इहलोकम् अत्यजत् ।

""

"https://sa.wikipedia.org/w/index.php?title=डा_जे_जे_चिनाय&oldid=368387" इत्यस्माद् प्रतिप्राप्तम्