ततः श्वेतैर्हयैर्युक्ते...
भगवद्गीतायाः श्लोकः १.१४
श्लोकः
सम्पादयतु- ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
- माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुर्दशः (१४) श्लोकः ।
पदच्छेदः
सम्पादयतुततः, श्वेतैः, हयैः, युक्ते, महति, स्यन्दने, स्थितौ । माधवः, पाण्डवः, च, एव, दिव्यौ, शङ्खौ, प्रदध्मतुः ॥
अन्वयः
सम्पादयतुततः माधवः पाण्डवशः च श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः ।
शब्दार्थः
सम्पादयतुअर्थः
सम्पादयतुततः पश्चात् भगवान् श्रीकृष्णः अर्जुनश्च धवलवर्णैः अश्वैः उह्यमानेन महता रथेन तत्र समागतौ । तौ च युद्धोत्साहवर्धनाय स्वीयौ अलौकिकौ शङ्खौ ध्मातवन्तौ ।
रामानुजभाष्यम्
सम्पादयतुततस्तं घोषमाकर्ण्य सर्वेश्वरेश्वरं पार्थसारथी रथी च पाण्डुतनयस्त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः ॥१.१४॥
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in