तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् (योगसूत्रम्)

सूत्रसारः सम्पादयतु

सूत्रार्थः सम्पादयतु

पुरुषस्य ख्यातेः ( साक्षात्कारस्य ) कारणेन गुणान् प्रति, या उपेक्षाबुद्धिः भवति, सा एव परवैराग्यः उच्यते॥ १६॥ दृष्टेषु, वेदबोधितेषु च विषयेषु दोषद्रष्टा वितृष्ण-साधकः ( विवेकख्यातिकाले ) पुरुषस्य (परमात्मनः) दर्शनस्य अभ्यासेन तस्य पुरुषतत्त्वस्य शुद्धेः ज्ञानेन तृप्तचित्तयुक्तः भूत्वा स्थूलस्वरूपयुक्तेभ्यः, सूक्ष्मस्वरूपयुक्तेभ्यः च गुणेभ्यः अपि विरक्तः भवति। ( एवं प्रकारेण) द्वौ वैराग्यौ भवतः ( अपरः, परश्च)। एतयोः यः पश्चवर्ती अस्ति, सः ज्ञानस्य चरमकोटिकः वैशद्यमात्रः अस्ति, यस्य उदये सति आत्मदर्शी योगी एवम् अनुभवति यत्, प्राप्तव्यस्य प्राप्तिः जाता अस्ति, नष्टव्याः क्लेशाः नष्टाः जाताः सन्ति, एवञ्च (तत्) शृङ्खलाबद्धं संसारचक्रं भग्नं जातम् अस्ति, यस्य भग्नं विना जीवः पुनर्जन्मचक्रे बद्धः भूत्वा अनेकवारं जन्म प्राप्नोति, मृत्युं च प्राप्नोति। ज्ञानस्य पराकाष्ठा एव परवैराग्यम् अस्ति। कैवल्यम् एतस्य एव नान्तरीयकः अस्ति॥ १६॥

Indifference to the subtlest elements, constituent principles, or qualities themselves (गुणाः), achieved through a knowledge of the nature of pure consciousness (पुरुषः), is called supreme non-attachment (परवैराग्यम्).

व्यासभाष्यम् सम्पादयतु

दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति । तद्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रं, यस्योदये प्रत्युदितख्यातिरेवं मन्यते—प्राप्तं प्रापनीयं, क्षीणाः क्षेतव्याः क्लेशाः । छिन्नः श्लिष्टपर्वा भवसङ्क्रमः, यस्याविच्छेदाज्जनित्वा म्रियते । मृत्वा च जायत इति । ज्ञानस्यैव पराकाष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकं कैवल्यमिति ॥१६॥

भाष्यार्थः सम्पादयतु

दृष्टानां, वेदबोधितानां च विषयाणां दोषान् यः पश्यति, सः वितृष्णसाधकः ( विवेकख्यातिकाले ) पुरुषस्य दर्शनस्य अभ्यासेन तस्य पुरुषतत्त्वस्य शुद्धेः ज्ञानेन तृप्तचित्तयुक्तः भूत्वा स्थूलस्वरूपयुक्तेभ्यः, सूक्ष्मस्वरूपयुक्तेभ्यश्च अपि गुणेभ्यः विरक्तः भवति। ( एवमेव ) द्वौ वैराग्यौ भवतः ( अपरः, परश्च)। एतयोः यः पश्चवर्ती अस्ति, सः ज्ञानस्य चरमकोटिकः वैशद्यमात्रः (वैशद्य - Purity) अस्ति। तस्य ज्ञानस्य उदये सति आत्मदर्शी योगी अनुभवति यत्, प्राप्तव्यस्य प्राप्तः जाता अस्ति, नष्टव्यस्य क्लेशस्य नाशः जातः अस्ति, (तत्) शृङ्खलाबद्धं संसारचक्रं भद्नं जातमस्ति, यस्य भग्नं विना जीवः जन्ममरणयोः चक्रे सततं परिभ्रमति। ज्ञानस्य पराकाष्ठा एव परवैराग्यम् अस्ति। कैवल्यम् अपि एतस्य संसारचक्रस्य नान्तरीयकम् अस्ति। नान्तरीयकम् अर्थात्, प्रतिबन्धकस्य (अत्र संसारस्य) अभावः ॥ १६॥

विशेषार्थः सम्पादयतु

'अपरवैराग्य'स्य लक्षणम् उक्त्वा सूत्रकारः अधुना 'परवैराग्य'स्य लक्षणं कथयति। तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् – पुरुषख्यातेः यद् गुणवैतृष्ण्यं, तत् परं वैराग्यं परवैराग्यमित्यर्थः। पुरुषख्याति-सिद्धेः अनन्तरं पुरुषस्य साक्षात्कारत्वात् साधकस्य चित्तस्य या सत्त्वगुणं प्रति अर्थात् सात्त्विकवृत्तिं प्रति अपि या वितृष्णा भवति, सा एव 'परवैराग्यम्' इत्युच्यते। एतत्तु स्पष्टं जातम् अस्ति यत्, परवैराग्यं लौकिकान्, पारलौकिकान् च विषयान् प्रति वितृष्णायाः रूपेण भवति। परवैराग्यं ज्ञानमात्रं प्रति अर्थात् ( सत्त्व)-गुणं प्रति अपि वितृष्णारूपं भवति। 'प्रथमं वैराग्यं विषयविषयं द्वितीयं गुणविषयम् भवति ।'

अपरवैराग्यात् सम्प्रज्ञातसमाधिः सिद्ध्यते। अत एव अपरवैराग्यं सम्प्रज्ञातसमाधेः हेतुः उत उपायः अभवत्। किन्तु एतत् (अपर)-वैराग्यम् असम्प्रज्ञातसमाधेः साक्षात् हेतुः उत उपायः न भवितुम् अर्हति, यतः एतत् सम्प्रज्ञातसमाधिफलकम् अर्थात् ज्ञानफलकम् अस्ति। परवैराग्यं, यत् एतत् सम्प्रज्ञानम् उत ज्ञानं प्रति प्रति वितृष्णारूपम् उत औदासीन्यरूपं भवति, अतः तत् असम्प्रज्ञातसमाधेः साक्षात् हेतुः उत उपायः न भवति। अत एव एतत् 'परम्' उत 'प्रकृष्टम्' वैराग्यम् इत्युच्यते। 'तद्वैराग्यं परं प्रकृष्टं...भवति, निरोधसमाधेः अत्यन्तानुकूलत्वात्'।

शब्दार्थः सम्पादयतु

• तत् = that

• परम् = is higher, superior, supreme, transcendent

• पुरुष = pure consciousness, Self

• ख्यातेः = through knowledge, vision, discernment

• गुण = elements, prime qualities, constituents, attributes; (three gunas of sattvas, rajas, tamas)

• वैत्युष्ण्यम् = state of freedom from desire or craving (for the gunas)

विशेषशब्दार्थः सम्पादयतु

दृष्टानुश्रविकविषयदोषदर्शी विरक्तः - लौकिकानां, पारलौकिकानां च विषयाणां दोषाणां साक्षात्कारकर्ता वीतरागसाधकः पुरुषदर्शनाभ्यासस्य कारणेन विवेकख्यातिकाले पुरुषस्य शुद्धस्वभावस्य साक्षात्कारस्य अभ्यासे ('पौनःपुन्येन निषेवणं तस्मात्' - निषेवणम् - पुरुषतत्त्वस्य पौनःपुन्येन अभ्यासः) सति ।

तच्छुद्धेः - तस्य पुरुषस्य शुद्धेः अर्थात् त्रिगुणातीतायाः निर्मलतायाः ।

प्रविवेकेन - गुणपुरुषयोः प्रकर्षेण विवेकः - प्रविवेकः तेन, विविक्तज्ञानेन, तात्त्विकज्ञाने वा।

आप्यायितबुद्धिः ( भूत्वा ) - 'आप्यायिता, परिपूर्णा, कृतकृत्या', 'तृप्ता, समाप्तपुरुषार्था' बुद्धिः यस्य सः तथोक्तो भूत्वा अर्थात् परिपूर्णबुद्धियुक्तो भूत्वा उत आप्तबुद्धियुक्तो भूत्वा।

व्यक्ताव्यक्तधर्मकेभ्यो गुणेभ्य: - अभिव्यक्तिरूपधर्मैः, अनभिव्यक्तिरूपधर्मैः च युक्तेभ्यः गुणेभ्यः ( सत्त्वरजस्तमस् ) । सर्वथा विरक्त इति - विरक्तः अर्थात् उदासीनः भवति।

एवं प्रकारेण सह 'विवेकख्यातेः' अपि विरक्तः भवति, यतः विवेकख्यातिः अपि तु सत्त्वगुणात्मिका एव भवति।

'स तथाभूतो योगी गुणेभ्यो व्यक्ताव्यक्तधर्म केभ्यः सर्वथा विरक्तः सत्त्वपुरुषान्यताख्यातावपि गुणात्मिकायां यावद्विरक्त इति ।'

तद् द्वयं वैराग्यम् -

(१) अपरवैराग्यम्

(२) परवैराग्यम् ।

'तस्मादुभयं परस्परभिन्नं वैराग्यमित्यर्थः ।' तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम्-तत्र-तयोर्द्वयोर्मध्ये, अर्थात् तयोः उभयोः वैराग्ययोः मध्ये। यदुत्तरम्, यत् परवर्तिनं वैराग्यम् अस्ति अर्थात् 'परवैराग्यम्' । तज्ज्ञानप्रसादमात्रम् - तत् (परमवैराग्यम्) ज्ञानस्य प्रसादमात्रम् एव अस्ति। चरमकोटिकः वैशद्यः (वैशद्य - Purity) अस्ति एवञ्च निविषय-प्रतिफलमात्रम् अस्ति। अर्थात् तत्र ज्ञेयं किमपि नावशिष्यते। तत् ज्ञेयविषयराहित्यं 'मात्र'-शब्दस्य प्रयोगेण प्रकटितः भवति। 'मात्रग्रहणेन निर्विषयतां सूचयति, तदेवं हि तादृशं चित्तसत्त्वं रजोलेशमलेनापि अपरामृष्टम् अस्याश्रयोऽत एव ज्ञानप्रसाद इत्युच्यते ।

एतस्य ज्ञानप्रसादस्य स्वरूप-वर्णनं कुर्वन् भाष्यकारः कथयति यत् -

यस्योदये — जिस ( ज्ञानप्रसाद ) के उदित होने पर ।

प्रत्युदितख्यातिः - आत्मज्ञानयुक्तः योगी, 'निष्पन्नात्मज्ञानो योगी' एवं मन्यते उत ईदृशं जानाति -

1) प्राप्तं प्रापणीयम् - यत्किमपि प्राप्तव्यम् आसीत्, तत् प्राप्तम् अस्ति।

2) क्षीणाः क्षेतव्याः क्लेशाः - नष्टव्याः पञ्चक्लेशाः नष्टाः जाताः। क्षि+क्तः =क्षीणाः, नष्टाः (बहु० ) /क्षि+ तव्यत् = क्षेतव्याः (बहु० ) नष्टकर्तव्याः क्लेशाः। श्लिष्टपर्वा - सम्मिलिताः ( संयुक्ताः) पर्वयुक्ताः। श्लिष्टानि संगुम्फितानि पर्वाणि खण्डानि यस्यासौ। भवसंक्रमः - भवः, जन्म, संसारो वा तस्य संक्रमः चक्रम्, संसारचक्रम् । 'देहादेहान्तरसञ्चाराख्यः संसारः। छिन्नः जातः उत छिन्न-भिन्नः जातः।

यस्य - संसारचक्रस्य, अविच्छेदात् – विच्छेदनत्वात् (जन्तुः) जनित्वा अर्थात् जन्म प्राप्य, म्रियते - मरणं प्राप्नोति। मृत्वा च - मरणं प्राप्य जायते - जन्म भवति। इति — एषः शब्दः वाक्यसमाप्तेः सूचकः अस्ति। विषयस्य उपसंहारं कुर्वन् भाष्यकारः कथयति यत् -

ज्ञानस्यैव पराकाष्ठा वैराग्यम् - एतत् (पर)वैराग्यम् एव ज्ञानस्य पराकाष्ठा अर्थात् अन्तिमा सीमा अस्ति। एतस्याः सीमायाः अनन्तरम् अर्थात् 'असम्प्रज्ञातसमाधि'-काले ज्ञानम् अपि न भवति।

एतस्यैव हि नान्तरीयकं कैवल्यम् - एतस्य परवैराग्यस्य एव अविनाभावी नियतपरवर्ती ( Necessary corrollary or invariable consequent ) विदेहकैवल्यम् अस्ति।

'तस्मादेतस्य हि नान्तरीयकमविनाभावि कैवल्यमिति ।

अर्थात् एतस्य परवैराग्यस्य उदये सति कैवल्यम् अवश्यम्भावी भवति, अत एव कैवल्यं परवैराग्यस्य नान्तरीयकः इत्युच्यते। नान्तरीयकम् - अन्तरा = विना, भवतीति ( अन्तरा+छ:, गहादित्वात् छप्रत्ययः ) अन्तरीयम्; तदेव स्वार्थे कप्रत्ययात् अन्तरीयकम् (तद् विना जायमानम् अर्थात् तस्मात् असम्बन्धितम्); एतस्य विपरीते अर्थे, 'न तथा' इति नान्तरीयकम् (नैकधेत्यादिवत्सुप्सुपासमासः), अविनाभावी, उत अवश्यम्भावी, नियतसम्बन्धी। अत एव उच्यते यत्, 'येन विना यन्न भवति तन्नान्तरीयकम् ।' अत्र, येन ( कैवल्येन ) विना ( यत् परवैराग्यं ) न भवति, तत् (कैवल्यं) नान्तरीयकम् अविनाभावि (नियतम् -यो०वा पृ० ५१)। कैवल्यं विना परवैराग्यं न भवति, एतस्य कथनस्य तात्पर्यम् अस्ति यत्, परवैराग्ये प्राप्ते सति कैवल्यम् अपि नियतरूपेण भवति। एवं भवितुं नार्हति यत्, परवैराग्यं तु भवेत्, परन्तु कैवल्यं भवेत्। 'एतस्मिन्नेव सति कैवल्यमावश्यकं नान्यस्मिन् ज्ञाने यमनियमादौ वैराग्ये वा तत्सत्त्वेऽप्यसम्प्रज्ञातानुदयेनाशेषतः प्राचीनकर्मक्षयानियमतः कषायसम्भवतश्च मोक्षे विलम्बसम्भवादिति ॥ १६ ॥

अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति।

अधुना द्वयोः ( अभ्यास-वैराग्ययोः ) उपाययोः निरुद्धचित्तवृत्तियुक्तस्य साधकस्य सम्प्रज्ञातसमाधेः कः प्रकारः भवति ? इति उच्यते।

विशेषव्याख्या सम्पादयतु

  • पुरुषख्याति-सिद्धेः अनन्तरं पुरुषस्य साक्षात्कारत्वात् साधकस्य चित्तस्य या सत्त्वगुणं प्रति अर्थात् सात्त्विकवृत्तिं प्रति अपि या वितृष्णा भवति, सा एव 'परवैराग्यम्' इत्युच्यते।
  • वैशद्य - Purity
  • नान्तरीयकम् - प्रतिबन्धकस्य अभावः। 'येन विना यन्न भवति तन्नान्तरीयकम् ।' अत्र, येन ( कैवल्येन ) विना ( यत् परवैराग्यं ) न भवति, तत् (कैवल्यं) नान्तरीयकम् अविनाभावि (नियतम् -यो०वा पृ० ५१)।
  • निषेवणम् - पुरुषतत्त्वस्य पौनःपुन्येन अभ्यासः


पातञ्जलयोगसूत्राणि
  पूर्वतनः
----
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् (योगसूत्रम्) अग्रिमः
योगश्चित्तवृत्तिनिरोधः
 
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः


सम्बद्धाः लेखाः सम्पादयतु

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine