तन्वी।

प्रतिचरणम् अक्षरसङ्ख्या 24

भूतमुनीनैर्यतिरिह भतना: स्भौ भनयाश्च यदि भवति तन्वी। केदारभट्टकृत- वृत्तरत्नाकर:३.१०६

ऽ।। ऽऽ। ।।। ।।ऽ ऽ।। ऽ।। ।।। ।ऽऽ

भ त न स भ भ न य ।

यति: पञ्चभि: सप्तभि: द्वादशभि:च।

उदाहरणम् - धर्मविलोपो जगति यदि भवेत्पुष्टमधर्ममतमपि च काले
ह्यात्मवशस्य स्वयमवतरणं यद्यपि जननमरणरहितोऽहम् ।
साधुसुरक्षां खलदलदलनं सुस्थिरधर्मपदमपि च कर्तुं
जन्म च दिव्यं मम कृतिमपि यो वेत्ति स जन्ममरणभयमुक्त:॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=तन्वी&oldid=408945" इत्यस्माद् प्रतिप्राप्तम्