तपाम्यहमहं वर्षं...

भगवद्गीतायाः श्लोकः ९.१९


श्लोकःसंपादित करें

 
गीतोपदेशः
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदःसंपादित करें

तपामि अहम् अहं वर्षं निगृह्णामि उत्सृजामि च अमृतं च एव मृत्युः च सत् असत् च अहम् अर्जुन ॥ १९ ॥

अन्वयःसंपादित करें

अर्जुन ! अहं तपामि, अहं वर्षं निगृह्णामि, अहम् उत्सृजामि च । अहम् एव अमृतं च मृत्युः च सत् असत् च ।

शब्दार्थःसंपादित करें

अर्जुन = हे अर्जुन !
अहं तपामि = अहं तापयामि
वर्षम् = वृष्टिम्
निगृह्णामि = रुणध्मि
उत्सृजामि च= त्यजामि अपि
अमृतं च एव = अमृतम् अपि
मृत्युः च = मरणं च
सत् = स्थूलं दृश्यम्
असत् च = सूक्ष्मं च ।

अर्थःसंपादित करें

अहमेव ग्रीष्मकाले आदित्यरूपः सन् जगदिदं तापयामि । वृष्टिकाले चतुरः मासान् जलं मुञ्चामि, अन्यान् अष्ट मासान् निगृह्णामि । अहमेव सर्वेषां जीवनं मृत्युश्च । अहमेव स्थूलं दृश्यं सूक्ष्मं च ।

सम्बद्धसम्पर्कतन्तुःसंपादित करें

सम्बद्धाः लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=तपाम्यहमहं_वर्षं...&oldid=418569" इत्यस्माद् प्रतिप्राप्तम्