तस्मात्सर्वेषु कालेषु...


श्लोकः सम्पादयतु

 
गीतोपदेशः
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ७ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः सम्पादयतु

तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च मय्यर्पितमनोबुद्धि माम् एव एष्यसि असंशयः ॥ ७ ॥

अन्वयः सम्पादयतु

तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मयि अर्पितमनोबुद्धिः माम् एव एष्यसि । असंशयः ।

शब्दार्थः सम्पादयतु

तस्मात् = ततः हेतोः
सर्वेषु = सकलेषु
कालेषु = समयेषु
माम् अनुस्मर = मां ध्याय
युद्ध्य च = युद्धं च कुरु
मयि = परमात्मनि
अर्पितमनोबुद्धिः = समर्पितचित्तः
माम् एव = परमात्मानम् एव
एष्यसि = प्राप्नोषि
असंशयः = संशयः नास्ति ।

अर्थः सम्पादयतु

ततः सकलेषु समयेषु मां ध्याय युद्धं च कुरु । यदि मय्येव मनः समर्पयसि तर्हि मामेव प्राप्नोषि । अत्र संशयः नास्ति । (सल्पात्मकं मनः, व्यवसायात्मिका बुद्धिः ।)

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु