लोकमान्यः इति ख्यातः श्रीबालगङ्गाधरतिलकः महोदयः दार्शनिकः न्यायवादी पत्रिकाकर्ता स्वात्रन्त्र्यान्दोलने रतः च आसीत् शिक्षण क्षेत्रे विद्यालयान् स्यापयित्वा महाराष्ट्रे शिक्षाप्रसारकार्यं कृतवान् । स्वातन्त्र्यप्रियः तिलकमहोदयः ‘स्वराज्यं मम जन्मसिध्दः अधिकारः’ इति घोषितवान् । जुलैमासे बालगङ्गाधरतिलकमहोदयस्य जयन्तीं विशेषतः महाराष्ट्रे वैभवेन आचरन्ति ।

श्री बालगङ्गाधरतिलकः महाराष्ट्रराज्ये रत्नगिरि जिल्लायां २३- जुलै १८५६ तमे दिने जन्म प्राप्तवान् । बालतिलकस्य पिता गङ्गाधरतिलकः, बाल्ये बालतिलकः गणिते अतीव कुशलः आसीत् । संस्कृतं सम्यक् अधीतवान् । बालतिलकः न्यायशास्त्रे १८७९ तमे वर्षे पदवीधरः अभवत् । अनन्तरं न्यायवादिवृत्तिम् आरब्धवान् ।

आङ्ग्लानां विरुध्दं न्यायशास्त्रानुसारमेव न्यायालये विविधप्रसङ्गेषु वादं कृतवान् । तिलकमहोदयः आङ्ग्लानां भयकारकः इत्येव प्रसिध्दः आसीत् । बालगङ्गाधरतिलकः तस्मिन्नवसरे श्री गोपालकृष्ण गोखलेमहोदयः महाराष्ट्रे भारतसेवकसङ्घस्य स्थापनां कृतवान् आसीत् । बालगङ्गाधरतिलकः श्री गोखले महोदयं स्वराजकीयगुरुः इति स्वीकृतवान् । भारतसेवकसङ्घं प्रविश्य स्वातन्त्र्यान्दोलनकार्ये प्रवृत्तः अभवत् । तास्मिन् समये शिक्षणस्य सौलभ्यं सर्वत्र नासीत् । अतः तिलकमहोदयः ग्रामेष्वपि अनेकेषां विद्यालयानां स्थापनां कृतवान् । अनेके विद्यालयाः अद्यापि कार्यम् उत्तमतया कुर्वन्तः सन्ति । एते ‘तिलक विद्यापीठः इति खाताः सन्ति ।

बालगङ्गाधरतिलकः सुभाषचन्द्रबोसः लालालजपतरायः बिपिन चन्द्रपाल इत्यादिभिः साकम् उग्रमार्गे स्थितः आन्दोलनकर्ता आसीत् । जनेषु जागर्तिं कर्तुं गणेशोत्सवं शिवाजीजयन्तीं च सार्वजनिकस्व रुपेण आचरितुम् आरम्भं कृतवान् । पर्वेर्वसु नृत्यगीतादि साम्स्कृतिक विषयैः साकं देशप्रेम अपि योजितवान् । धार्मिकसांस्कृतिकविकासेन साकं जनानां राजकीयज्ञानं च दत्तवान् । उत्तमलेखकः श्रीबालगङ्गाधरतिलकः केसरी ’इति मराठीभाषायां ‘मराठा’ इति आङ्गलभाषायां च पत्रिके प्रकटितवान् । पत्रिकासु राष्ट्रियविषये उत्तमलेखान् प्रकटयति स्म । महाराष्ट्रराज्ये स्वराज्य्विषये उत्तमजागर्तिं कर्तुं बहुधा प्रयत्नं कृतवान् । श्रेष्ठचिन्तकः दार्शनिकः श्रीबालगङ्गाधरतिलकः भगवदगीतायाः ‘गीतारहस्यम्’ इति उत्तमां व्याख्यां कृतवान् । तत्र कर्मसिध्दान्तस्य महत्वं दत्तवान् ।

भारतदेशे स्वातन्त्र्यान्दोलनं प्रवर्तितमासीत् । सर्वे जनाः बालगङ्गाधरतिलकं ‘लोकमान्य’ इति गौरवं दत्तवन्तः । देशभक्तः अभिमानी बालगङ्गाधरतिलकः स्वकीयं सर्वस्वं तिलकविद्यापीठाय देशाय च अर्पितवान् । क्रिस्तशके १९२० तमे वर्षे बालगङ्गाधरतिलकः मृतः अभवत् । महाराष्ट्रे श्रीबालगङ्गाधरतिलकस्य पुण्यतिथिमपि भक्त्याया आचरन्ति । श्री बालगङ्गाधरतिलकस्य जीवनं देशभक्तिः कार्याणि च सर्वैः अनुसरणीयानि सन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=तिलकजयन्ती&oldid=408148" इत्यस्माद् प्रतिप्राप्तम्