त्रिविधिसंहिता अथर्वेदस्य अन्तर्भूता संहिता वर्तते। एतस्यां संहितायां त्रिस्र संहिताः सन्ति, अतः अस्याः नाम त्रविधिसंहिता इति। एतस्य संहितायाः अपरे नामनी "आचार्यसंहिता", "ऋषिसंहिता" च।

स्वरूपम् सम्पादयतु

अथर्ववेदस्य कौशिकसूत्रस्य दारिलभाष्ये आसां त्रिविधसंहितानां नाम्नः, स्वरूपस्य च परिचयो वर्तते। आसां संहितानां नामानि सन्ति - (१) आषीसंहिता, ( २) आचार्यसंहिता, ( ३) विधिप्रयोगसंहिता च। अस्यां त्रिविधसंहितायां ऋषिभिः परम्परागतप्राप्तमन्त्राणां सङ्कलनमस्ति । तेनैताः संहिताः ‘ऋषिसंहिता' नामभिः ख्याताः सन्ति । अपरसंहितायाः नाम आचार्यसंहिताऽस्ति ।

विषयवस्तु सम्पादयतु

अस्याः संहितायाः विवरणं दारिलभाष्ये निम्नरूपेण अस्ति - 'येन उपनीय शिष्यं पाठयति सा आचार्यसंहिता ।' उपनयनानन्तरं गुरुर्येन प्रकारेण शिष्यं वेदमध्यापयति, सा एव आचार्यसंहिता कथ्यते । उदाहरणार्थम् अथर्ववेदस्य मन्त्रोऽयम् उपस्थापयितुं शक्यते । शौनकीयाथर्वसंहितायाः प्रथमकाण्डस्य तृतीयसूक्तस्य प्रथमो मन्त्रः निम्नप्रकारकोऽस्ति।

विद्याशरस्य पितरं पर्जन्यं शतवृष्ण्यम्।

तेनाते तन्वे शंकरं पृथिव्याम् ते निषेचनं बहिष्टे अस्तु बालिति।।[१]

किश्चास्यैव सूक्तस्य अपरो मन्त्रोऽयमस्ति -

‘विद्याशरस्य पितरं मित्रं शतवृष्ण्यम्।

तेना ते तन्वे'******'अस्तु बालिति'।।

तृतीयोऽपि मन्त्र एवमेवाऽस्ति । अस्मिन् मन्त्रे– ‘विद्याशरस्य पितरम् आदौ तथा तेना ते तन्वे अस्तु बालिति’ अन्तेऽस्ति । एतेषां त्रयाणां मन्त्राणामनुशीलनेन प्रथमे मन्त्रे ‘पर्जन्यं शतवृष्ण्यम्' अपरस्मिन् मन्त्रे ‘मित्रं शतवृष्ण्यम्' तथा तृतीये मन्त्रे ‘तरुणं शतवृष्ण्यम्' इत्येते अंशा एव नवीनाः सन्ति । एतदतिरिक्तः एतेषां मन्त्राणाम्--'विद्याशरस्य पितरम् इत्यादौ तथा तेना ते तन्वे शङ्करं पृथिव्यां ते निषेचनं बहिष्टे बालिति' मन्त्रस्यांशः समनः अस्ति, प्रत्येकस्मिन् मन्त्रे अावृत्तमस्ति । अतः आचार्यः स्वशिष्यान् अध्यापनकाले केवलं मन्त्रे समागतानां नवीनांशानाम् अध्यापनम् अकारयत् । एतेषां नवीनमन्त्राणां सङ्ग्रह एव आचार्यसंहिताऽस्ति । अस्याः अाचार्यसंहितायाः पदपाठेन युक्ता हस्तलिखिता प्रतिः अपि उपलब्धा अस्ति। 

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भः सम्पादयतु

  1. ( १।३।१ )
"https://sa.wikipedia.org/w/index.php?title=त्रिविधसंहिता&oldid=423777" इत्यस्माद् प्रतिप्राप्तम्