दक्षिणगोवामण्डलम्

(दक्षिणगोवामण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)

दक्षिणगोवामण्डलं ( /ˈdəkʃhɪnəɡɑːməndələm/) (हिन्दी: दक्षिण गोवा जिला, आङ्ग्ल: North Goa) गोवाराज्यस्य अन्यतरं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मडगांव इति महानगरम् । अस्य मण्डलस्य रचना १९८७ तमे वर्षे ‘मे’-मासस्य त्रिंशत्तमे दिनाङ्के अभूत् ।

दक्षिणगोवामण्डलम्

South Goa District
दक्षिणगोवा जिल्ला
दक्षिणगोवामण्डलम्
गल्गिबगसमुद्रतटः
Location of दक्षिणगोवामण्डलम्
देशः  India
राज्यम् गोवाराज्यम्
उपमण्डलानि मुरगांव, साल्सेट(मडगांव), क्यूपेम, कानकोना(चाउडी), सङ्गेम, धारबन्दोरा
विस्तारः १९६६ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) ६,४०,५३७
Government
 • मण्डलसङ्गाहकः
(District Collector)
एन. डी. अग्रवाल
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८९.५७%
भाषाः कोङ्कणी, हिन्दी, आङ्ग्लं, पुर्तगाली
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website southgoa.nic.in

भौगोलिकम् सम्पादयतु

दक्षिणगोवामण्डलस्य विस्तारः १९६६ च.कि.मी.-मितः अस्ति । गोवाराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरगोवामण्डलं, दक्षिणदिशि, पश्चिमदिशि उत्तरकन्नडमण्डलम्, पूर्वदिशि अरबीसमुद्रश्चास्ति । अस्मिन् मण्डले ३२० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा- ओरी, तलपोना, गल्गिबग, चपोरा, साल

जनसङ्ख्या सम्पादयतु

 

दक्षिणगोवामण्डलस्य जनसङ्ख्या(२०११) ६,४०,५३७ अस्ति । अत्र ३,२२,४६३ पुरुषाः, ३,१८,०७४ स्त्रियः, ६६,९०६ बालकाः (३४,३७९ बालकाः, ३२,३७९ बालिकाः) सन्ति । अत्र पुं-स्त्री अनुपातः १०००-९८६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७.८४% आसीत् । अत्र साक्षरता ८९.५७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९३.४०% स्त्री - ८७.५९% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ मुरगांव २ साल्सेट(मडगांव) ३ क्यूपेम ४ कानकोना(चाउडी) ५ सङ्गेम ६ धारबन्दोरा ।

कृषिः वाणिज्यं च सम्पादयतु

रागी(Finger millet), तण्डुलः, नारिकेलं, काजूतकं(Cashew), 'जवार्', ‘बाजरा’ च अस्य मण्डलस्य प्रमुखाणि कृष्युत्पादनानि सन्ति ।

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहवः समुद्रतटाः सन्ति । तेषु कोल्वा-बेनोलिम्-बोगमलो-पेलोलिम्-वोर्के-कोवोलोसिम्-अगोन्डा-बेनावलीसमुद्रतटाः प्रख्याताः सन्ति । अत्र श्रीमल्लिकार्जुनमन्दिरम् अस्ति । तत् मन्दिरं मडगांवतः चत्वारिंशत् कि.मी. दूरे कानकोना(चाउडी)-उपमण्डलेऽस्ति । षोडशे शताब्दे तत् मन्दिरं क्षत्रियाः स्थापितवन्तः इति जनमान्यता । अस्य जीर्णोद्धारकार्यं १७७८ तमे वर्षे अभूत् इति उल्लिखितम् इतिहासे । मन्दिरं काष्ठकलायाः उत्तमोदाहरणमस्ति । मन्दिरं परितः षष्ठिः देवताः सन्ति । काष्ठेन निर्मिताः स्तम्भाः, आकृतयः, तोरणानि च आकर्षणं जनयन्ति । रथसप्तमी-सिंहोत्सवकाले तत्र सहस्राधिकाः भक्ताः गच्छन्ति । अतः तत् ऐतिहासिकं, धार्मिकं च स्थलमस्ति । अस्मिन् मण्डले श्रीगोकर्णमठः अस्ति । तस्य स्थापना १४७५ तमे वर्षे अभूत् । सः मठोऽपि वीक्षणीयः ।

बाह्यानुबन्धः सम्पादयतु

http://southgoa.nic.in/profile.htm southgoa.nic.in

"https://sa.wikipedia.org/w/index.php?title=दक्षिणगोवामण्डलम्&oldid=318056" इत्यस्माद् प्रतिप्राप्तम्