दूताङ्गदस्य छायानाटकस्य चतुरङ्कस्य कर्ता सुभटस्त्रयोदश्याः शताब्याः पूर्वार्धे गुर्जरेषु भीमद्वितीयस्य शासनकाले (११७०-१२३९ ख्रीष्टाब्दमध्ये) प्रातिभमालोकं प्रसारयामास । तदनन्तरं त्रिभुवनपाले शासति १२४३ ई० वर्षे कुमारपाल-यात्रामहोत्सवेऽस्य प्रथमप्रयोगोऽभवत्। गुर्जरराजसभाजितः सुभटश्चिरं सोमेश्वरेण सुरथोत्सवे नाम स्वमहाकाव्ये कविप्रवर इति प्रशंसितः । अस्य नाटकस्य प्रस्तावनायां सुभटः पद-वाक्य-प्रमाण-पारावरीण इति वर्णितः । दामोदरो हनुमन्नाटकेन हनुमन्तं नायकमुपनिबध्य यथा यशो लेभे तथानेन रूपकेणाङ्गदं प्रमुखतामापाद्य सुभटः।

दूताङ्गदम्  
अङ्गददौत्यस्य "राजा" रविवर्मणा निर्मितं चित्रम्
लेखकः अज्ञातः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

कथावस्तु सम्पादयतु

युद्धकाण्डस्योत्तरवृत्तमनुसृत्य दृश्यचतुष्टयेन संक्षिप्य निबद्धा। रामोऽङ्गदेन रावणं सन्दिशति-सीतां प्रत्यर्पय अन्यथा रक्षोवेश उत्साद्यते । अन्येद्युरङ्गदो रावणं संबोधयति - रे रे रावण रावणाः कति, बहूनेतान् वयं शुश्रुम प्रागेकं किल कार्तवीर्य-नृपतेर्दोर्दण्ड-पिण्डीकृतम्।

एकं नर्तन-दापितान्न-कवलं दैत्येन्द्र दासोजनै-

रेकं वक्तुमपत्नपामह इति त्वं तेषु कोऽन्योऽथवा॥

इत्युक्तवन्तमभिरावणेन कृतोपस्थापना मायामैथिली प्रत्युवाच -

एषामुपरि कस्मात् विद्यसे राघव तद् व्रज निजं नगरम्।

दत्ताहं निजहृदये साक्षीकृत्य मदनमेतस्मै॥

मदर्थं चिन्तां विहाय राक्षसैराक्रान्तं भरतं रक्षेति च रामं प्रति सन्देशं जगौ। नैवं सीताऽभिजातबालोचितां लज्जां जातु विसृजेदिति वितर्कयत्येव बालिसुते कापि राक्षसी रावणमुवाच - रक्षोराज, रक्ष-रक्ष सीताम् । तत्र लतापाशेनात्मानं सा घातयति । तदा रावणो दूरं गतः। युद्धे रावणो हतः रामः पुष्पकेणायोध्यां प्रत्यावर्तत।

समीक्षा सम्पादयतु

किमिदं छायानाटकं नाम ? सुभटः स्वयमिदं छायानाटकं प्रख्यापयति । मेघप्रभाचार्योऽपि स्वकृतं धर्माभ्युदयं नाम रूपकं छायानाट्यप्रबन्धं घोषयतीति कोऽत्र हेतुश्छायाशब्दसन्निवेशस्य। नैतादृशेषु रूपकेषु इतररूपकेभ्यो भेदकं किमपि तत्त्वं पश्यामः रङ्गेऽभिनयं छायया कृतं वक्तुमपि न युज्यते। अन्येषामपि हि तादृशोऽभिनयः सम्भाव्यते । इति वितर्क छायाशब्दस्य कोऽर्थ इति विचारः प्राथम्यं भजते । किन्तु ततोऽपि पूर्वमितराणामाचार्याणां संमतान्यत्र स्मरणमर्हन्ति । यथा -

डॉ० डे महोदयः स्व-संस्कृतसाहित्येतिहासग्रन्थे[१] छायानाटकमिति सर्वात्मना-संशयितं मन्वानोच्छायाभिनेयत्व-वैशिष्टयमपश्यन् नास्तिच्छायानाटकं किञ्चिदिति घोषयति । तस्याशयोऽयमास्ते यत्, तान्येवच्छायानाट्यत्वं भजेरन् यानि पटप्रतिविम्बिताकारमात्रैः तिरोहितशरीरैरेव पात्रैरभिनीयते।

विलसनमहोदयः छायाभासेनाभिनेयानि वा रूपरेखामात्राणि वा रूपकाणिछायारूपत्वेन मनुते।

कीथ-महाभागो नैव दूताङ्गदे विशेषं पश्यति येनेदं छायानाटकनाम्न: सार्थक्यं वहेत् ।

नैतेऽधुनातना मनीषिणः परम्परामनुरुन्धन्ति न वा वितर्कयन्ति कथंकारमीदृशानि रूपकाणिच्छायानाटकान्यमन्यन्त तैस्तैः कृतिभिर्नाट्यकर्तृभिरिति । प्रतिकृतिरत्रच्छाया मता नैव प्रतिबिम्बम् । यथा च श्रुतिः -

यादृगेव ददृशे तादृगुच्यते सं छायया दधिरे। [२]

अत्र प्रतिकृतिः छायामाहुः । यथा वा -

यस्यच्छायामृतं यस्य मृत्युः।[३] इत्यमृतमृत्यू हिरण्यगर्भस्य प्रतिकृतित्वमेव भजतः । अपि च -

छायेव विश्वंभुवनम्।[४] इति आङ्गल-शैडो-पर्यायत्वं नैव सर्वथापूरयतिच्छायाशब्दः । यदि तथा मन्येतापि, नैव हानिः । कालिदासः उपमाद्वारेण समर्थयति -

रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद्।

वल्मीकाग्रत प्रभवति धनुष्खण्डमाखण्डलस्य।।

इति रत्नानां छायाकिरणाभा निगदिता। सा च प्रतिमारूपैव । अत एव मूर्तिरपिच्छाया कथ्यते । प्रतिमापर्यायत्वेऽधिगते भासकृतस्य प्रतिमानाटकस्यापि छायानाटकत्वं स्थितम् । अथो वितन्यते - दिङ्नागस्य कुन्दमालास्याभिनवसंविधानस्योदाहरणम्। उत्तररामचरितस्य तृतीयोऽङ्कश्च्छायाङ्कत्वेनोपनिबद्धो भवभूतिना। तत्र हि सीताछायारूपमनुहरति । दर्शकास्तां पश्यन्ति, किन्तु रामेण सा प्रत्यक्ष नावलोक्यत इति । राजशेखरः शालभजिकमायोज्य स्वकृत्यं नाटिकां विद्धशालभञ्जिकां संज्ञापयति।

सिंहभूपालः कुवलयावलों नाटिकां रत्नपञ्चालिकेति नामान्तरेण व्यवहरति - तत्र हि प्रतिमानाटक इव रत्नपञ्चालिकायाः अभिनवः प्रयोगः। मायामयीं सीतामुपलक्ष्य हनुमन्नाटकमपि छायानाटकमिति निगद्यत इव। उल्लाघराघवे मायासीतायाश्छिन्नशिरो रावणेरामस्य पुरस्तात् कृत इति तन्नाटकमपिच्छायानाटकमाह सोमेश्वरः। यशोवर्मणो रामाभ्युदये रावणो मायासीतायाः शिरश्छिनत्ति ।

सर्वथा प्रतिमा वा प्रतिकृतिर्वा मायाकृतिर्वा पुत्तलिका वा छायापदेनाभिमता नाट्यकृताम् । अत्र पौराणिकी परम्पराऽपि सर्वथा पोषयति नः सिद्धान्तम् - सूर्यस्य तेजः सोढुमपारयन्ती सूर्यभार्या सञ्ज्ञा गृहादपससार । तया स्वप्रतिकृतिः 'छाया' गृहे नियोजिता। सूर्यश्च तां छायां संज्ञाममन्यत इति मत्स्यपुराणे[५] वर्णितम् । अत एव दूताङ्गदस्यच्छायानाटकत्वं प्रति सर्वथाश्वासिमो साधुनामकरणमिति । अत्र हि प्रहस्तो रङ्गमञ्चमधिष्ठापयति मायामैथिलीम् -

"(ततः प्रविशति प्रहस्तेन सह माया मैथिली) मैथली - जेदु जैदु अज्जउलो (इत्यभिदधाना रावणोत्सङ्गमारोहति)”

प्रकाशजनितं प्रकाशाभावकृतमाकाराभासमेव छायां मन्वाना बभ्रमुरेव यच्छायानाटकत्वं न कुत्रापीति।

सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणानि सम्पादयतु

  1. पृ० ५ ०२-४
  2. ऋग्वेदे ५.४४.६
  3. ऋग्वेद १०.१२१.२
  4. ऋ० १.७३.८
  5. ११.५
"https://sa.wikipedia.org/w/index.php?title=दूताङ्गदम्&oldid=466904" इत्यस्माद् प्रतिप्राप्तम्