नन्नय्यः
नन्नय्यः | |
---|---|
197x197अणवः</img> | |
जननम् | तनुकु |
आवासीय क्षेत्र | राजमहेन्द्रवरम् |
अन्य नामानि | नन्नय भट्टुः,नन्नय भट्टारकः,नन्नय |
उपजीविका | राजराजनरेन्द्रस्य कुलब्रह्मणः कविः |
प्रसिद्धः | महाभारतस्य रचयिता आदिकविः |
वेतनं | --- |
पद नाम | आदिकविः |
धर्म | हिन्दू |
पत्नी / पति | --- |
बालकाः | --- . |
नन्नय्य भट्टारकः (लोकप्रियतया नन्नया अथवा नन्नय्य इति नाम्ना प्रसिद्धः ) (११ शताब्दी ई. ) तेलुगुसाहित्ये " आदिमकविः " इति प्रसिद्धः अस्ति | सः वेदाध्यायसम्पन्नः, वेदवेदांगविद्,शब्दशासनः, संहिताभ्यासकः च। नानापुराणविज्ञाननिलयः;अविरलजपहोम तत्परः, वैयाकरणी ,वागानुसासनः। संस्कृतम्,आन्ध्र-भाषायां च तस्य पण्डित्यम् आसीत् । संस्कृतमहाभारतस्य रूपान्तरणं श्रीमदान्ध्रमहाभारतम् इति नाम्ना रचितकवित्रये (त्रयः कविः)एषः प्रथमः आसीत्। महाभारतं तेलुगुभाषायां प्रथमकाव्यमिव प्रसिद्धा जाता। तेलुगुसाहित्ये महाभारतस्य कृते साहित्यिकं मूल्यं अधिकं वर्तते। चम्पूकाव्यशैल्यायां महाभारतं श्रेष्ठलेखनाशैल्यानां कृते प्रतिबिम्बम् इव अस्ति ।
आन्ध्रशब्दचिन्तामणिः इति प्रथम तेलुगुव्याकरणग्रन्थं नन्नय्यः संस्कृते रचितवन्तः इति मन्यन्ते। अष्टाध्यायी,वाल्मीकिव्याकरणम् इत्यादि संस्कृतभाषाव्याकरणानाम् अनुसरणं कृतवन्तः। परन्तु पाणिनिविधिना विरुध्दरुपेण सः स्वस्य व्याकरणं पञ्चखण्डेषु विभजनं कृतवन्तः। ते संज्ञा,सन्धिः,अजन्तम्,हलन्तम्,क्रिया ।
केवलम् आदिकविनाम्ना एव न, शब्दशासनः, वागनुशासनः इत्यादि नाम्नापि प्रसिद्धः अभवत्।यदि वयं नन्नयभारतस्य श्रेष्ठतमं,विकसितं च भाषां पश्यामश्चेत् नन्नयभारतात् पूर्वमेव तेलुगुसाहित्ये कृतयः आसन् इति संकेतः भवति। एतस्य पुर्वमेव विद्यमनपद्यशासनेषु श्लोकाः,तथा च अनन्तर काले पल्कुरिकि सोमनस्य उल्लिखितानां अनेकप्रक्रियाणां साहित्यिकरूपैः च विषयान् निर्धारितमस्ति ।कविप्रशंसाः। .
इतिहासः
सम्पादयतुनन्नयः वेङ्गिदेशस्य राज्ञः राजराजनरेन्द्रस्य आस्थान कविः आसीत् । वेङ्गिदेशः ८००० योजन पर्यन्तम् आसीत्। पश्चिमस्यां दिशि पूर्वघट्टः, पूर्वस्यां दिशि पूर्वसमुद्रः, उत्तरस्यां दिशि गोदावरीनदी, दक्षिणस्यां दिशि कृष्णानदी, एतेषां मध्ये तेलुगुदेशः विराजते्। अस्य वेङ्गिपुरस्य शासनं कुर्वतः राजमहेन्द्रस्य नाम्ना राजमहेन्द्रवरम् इति अस्य नगरस्य नाम अभवत् ।
राजराज नरेन्द्रः - राजराज नरेन्द्रस्य (1019–1061 ई.) प्रतिमा (राजमण्ड्रि रैल्वे स्टेषन् मद्ये)
अवतारिकायां भारत इति ग्रन्थे नन्नयः किमपि आरक्षणं न कृतवान् । अस्मिन् विषये भास्कररामायणं तथैव अस्ति। तिक्कना सोमयाजी प्रथमतया स्वप्नकथां षष्ठ्यन्तं च समावेशितवान् । नारायणभट्टुः महाभारतस्य लेखने योगदानं दत्तवान् इति नन्नयः उल्लेखं करोति ।