नागौरमण्डलम्

(नागौरमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)

नागौरमण्डलं (हिन्दी: नागौर जिला, आङ्ग्ल: Nagaur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति नागौरनामकं नगरम् ।

नागौरमण्डलम्
मण्डलम्
राजस्थानराज्ये नागौरमण्डलम्
राजस्थानराज्ये नागौरमण्डलम्
देशः भारतम्
States and territories of India राजस्थानराज्यम्
Area
 • Total १७,७१८ km
Population
 (२००१)
 • Total ३३,४०,२३४
Website http://nagaur.nic.in
कुच्चमन् किला
कुच्चमन् किला

भौगोलिकम् सम्पादयतु

नागौरमण्डलस्य विस्तारः १७७१८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जयपुरमण्डलं, पश्चिमे जोधपुरमण्डलम्, उत्तरे बीकानेरमण्डलं, चुरूमण्डलं, सीकरमण्डलं च, दक्षिणे अजमेरमण्डलं, पालीमण्डलं, जोधपुरमण्डलं च अस्ति । अस्मिन् मण्डले ३६.१६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं नागौरमण्डलस्य जनसङ्ख्या ३३४०२३४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.२५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४८ अस्ति । अत्र साक्षरता ६४.०८ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि-

  • नागौर
  • खिन्वसार
  • जायल
  • डेगाना
  • मेरता
  • डीडवाना
  • लदनू
  • प्रभातसर
  • मकरना
  • कुचमान

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • नागौर किला
  • लदनू
  • दादीमतिमातामन्दिरम्
  • मीराबाई-मन्दिरम्
  • कुचमान किला
  • खाटू-श्यामजीमन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नागौरमण्डलम्&oldid=483057" इत्यस्माद् प्रतिप्राप्तम्