नात्यश्नतस्तु योगोऽस्ति...

भगवद्गीतायाः श्लोकः ९.१६

श्लोकः सम्पादयतु

 
गीतोपदेशः
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः सम्पादयतु

नात्यश्नतः तु योगः अस्ति न च एकान्तम् अनश्नतः न च अतिस्वप्नशीलस्य जाग्रतः न एव च अर्जुन ॥

अन्वयः सम्पादयतु

अर्जुन  ! अत्यश्नतः तु योगः न अस्ति । एकान्तम् अनश्नतः च न । अतिस्वप्नशीलस्य च न । जाग्रतः च न एव ।

शब्दार्थः सम्पादयतु

अर्जुन = हे अर्जुन
अत्यश्नतः तु = अत्यधिकं भोजनं कुर्वतः
योगः = समाधिः
न अस्ति = न विद्यते
एकान्तम् = सर्वथा
अनश्नतः च = भोजनम् अकुर्वतः अपि
न = न
अतिस्वप्नशीलस्य च = अतीव निद्रालोः अपि
न = न विद्यते
जाग्रतः च = निद्राविहीनस्य अपि
न एव = नैव विद्यते ।

अर्थः सम्पादयतु

यः अधिकं भोजनं करोति, यश्च भोजनमेव न करोति तयोः समाधिः न सम्भवति । एवं यः अत्यन्तं निद्राति, यश्च अत्यन्तं जागर्ति तयोरपि समाधिः न सम्भवति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु