नादर-शाहस्य भारते सैन्याभियानम्

नादर्-शाह् पारसस्य सम्राट् (1736 तः–47पर्यन्तम्) आसीत्। अफ़्शारीय-वंशस्य संस्थापकः यः उत्तर-भारते आक्रम्य 1739 तमे वर्षे मार्च्-मासे ढिल्लीं प्राहरत्। तस्य सेना सरलतया मुगल-सेनां करनाले पराभवत् तथा मुगल्-राजधानीम् अगृह्णात्।[१]

पूर्वदिशि बलहीनं पतनग्रस्तं मुगल-साम्राज्यं विरुध्य विजयप्राप्तेः सः पुनः मुख्यशत्रुं प्रतिवेश्यम् उस्मानीय-साम्राज्यं लक्षीकृत्य युद्धं पुनरारब्धवान् तथा उत्तरकाकेसक्षेत्रे मध्यजम्बुद्वीपे च युद्धाभियानानि कृतवान्।[२]

आक्रमणम् सम्पादयतु

1730 तमे वत्सरे नादर-शाहः पारसस्य शासकः अभवत्। तस्य सैनिकाः सफ़वीय-शासनतः इस्फ़हान्-नगरम् अगृह्णन्। तत्वत्सरे अफ़्शारीय-वंशः संस्थापितः। 1738 तमे वर्षे कंदहार-नगरम् आक्रमितं, यत्र होताकी-वंशस्य अफ़्गानिस्ताने अन्तिम-दुर्गः आसीत्। तत् पश्चात् सः हिन्दु-कुश-पर्वत-क्षेत्रं पारयित्वा मुगलैः शासिते उत्तर-भारते आक्रमणानि अकरोत्। यदा सः मुगल्-प्रदेशान् प्राविशत् तेन साकं जोर्जिया-देशीय-सामन्तः भावी पूर्वदिश्यजोर्जियायाः राजा इरेक्ले-द्वितीयः आसीत् यः नादरस्य सेनायां जोर्जिया-देशीय-सैनिकानां नेतृत्वम् अकरोत् ।.[३]

औरङ्ग्ज़ेबस्य मरणानन्तरम् उत्तराधिकारत्वं लब्धुं बहूनि युद्धानि संजातानि येन मुगल-साम्राज्यस्य दौर्बल्यं समभवत्। मराठाराष्ट्रम् मध्य-उत्तर-भारते विशाल-क्षेत्रम् अधीनम् अकरोत्। मुगल-सामन्ताः तु स्वतन्त्र-राष्ट्राणि अस्थापयन्। मुग़ल-सम्राट् मुहम्मद-शाहः विघटनम् अवरोद्धुम् असमर्थः आसीत्। राजकीय-शासनमपि भ्रष्टं बलहीनं जातं किन्तु अर्थव्यवस्था दृढा आसीत् ततः मुगलराष्ट्रस्य प्रतिष्ठा समृद्धिः च तदानीमपि महती आसीत्। नादर-शाहः देशस्य सम्पदं लुण्ठितुम् अवाञ्छत् यथा तस्य पूर्वम् आक्रमणकारिनः अकुर्वन्।

सः यैः अफ़्गान-विद्रोहिभिः युद्धम् कुर्वन् आसीत् ते काबुले शरणं न लभन्ते इति कृत्वा नादरः मुहम्मद-शाहं काबुल-समीपे मुगल-सीम्नः पिधातुम् अभ्यार्थयत्। मुहम्मद-शाहः तु अभ्यर्थनां स्वीकरोति स्म किन्तु पूर्त्यर्थं किमपि न कृतम्। नादरेण अपूर्तिः युद्ध-निमित्तं कृतम्।[४] तदा नादरः जोर्जिया-देशीयेन एरेक्ले-द्वितीय-इति सामन्तेन साकं प्रयाणं आरब्धवान्। नादरः हिन्दु-कुश-पर्वत-क्षेत्रं प्रति पलायनं कुर्वतः अफ़्गान-विद्रोहिनः पराजित्य घज़नी-काबुल-पेशावर इत्येतानि नगराणि गृहीत्वा पञ्जाबं प्रत्यागत्य लाहौरम् अगृह्णात्। तत्वर्षस्य अन्तस्य पूर्वं नादरः सिन्धु-नदीं प्रत्यागच्छत् यदा मुगलाः सेनां सज्जीकृतवन्तः।

24 दिनाङ्के फ़रवरि-मासे 1739 तमे वत्सरे करनाल-युद्धे, नादरः मुगलान् पराजितवान्। मुहम्मद-शाहः आत्मसमर्पणमकरोत् तथा उभौ ढिल्लीं प्राविशताम्। तस्मै ढिल्ल्याः कुञ्चिका समर्पिता।[५] 20 दिनाङ्के मार्च्-मासे 1739 प्रविश्य रक्तदुर्गे  शाह-जहानस्य कक्षे निवासमकरोत्। तस्य नाम नाणकेषु लिखितं, जामा-मस्जिद-इत्यादिषु ढिल्ल्यां महमदीय-पूजा-स्थलेषु पूजा-पाठेषु उल्लेखितं च। अग्रिमे दिने नादर-शाहः सभाम् आयोजयत्।

 
मुग़ल-सम्राजः अफ़्शारीयः दूतयोर्मध्ये चर्चा
 
a vilifying portrayal of Nader Shah in the battle of Karnal by Adel Adili
 
Nader Shah finds his troops had been killed in rioting. From Surridge, Victor (1909). Romance of Empire: India. 

नरसंहारः सम्पादयतु

अफ़्शारीयाक्रमणेन नगरे विक्रेय-मूल्यानि अवर्धन्त। नगर-शासकः मूल्यानि न्यूनिकर्तुम् प्रायतत। किन्तु यदा अफ़्शारीय-सैनिकान् बलात् आदेशम् प्रवर्तितुम् पहाडगंजं प्रैष्यत्, स्थानीय-विक्रेतारः निराकरोति। तथा हिंसाघटनानि जातानि येषु अफ़्शारीय-सैनिकाः मारिताः हताः च अभवन्।

यदा किंविदन्ती प्रसृता यत् रक्तदुर्गे कयाचित् रक्षिकया नादिरस्य हननं जातम् तदा 21 मार्च् दिनाङ्के संजाते संक्षोभे केचन भारतीयाः अफ़्शारीय-सैनिकान् प्रहृत्य 3000 अघ्नन्।[६] हनने क्रुद्धः नादिरः प्रतिकारार्थं ढिल्ल्यां नरसंहारम् आरभत।

22 मार्च् दिनाङ्के प्रातःकाले नादर-शाहः कवचं धारयित्वा अश्वमारुह्य सुनेह्रि-मस्जिद-इत्यत्र उपाविशत्। आनक-गोविषाणिक-ध्वनिना सह खड्गं तरङ्गसदृशं विचालयति येन पश्यन्तः अफ़्शारीय-सैनिकाः आनन्दं प्रदर्श्य श्लाघनाक्रोशम् अकुर्वन्। प्रहारं नरसंहारम् आरब्धुं  च सङ्केतः अस्ति। प्रायः झटिति पूर्णतया सायुधाः अफ़्शारीय-सैनिकाः निरायुधेषु निवासिषु खड्ग-अग्न्यस्त्र-प्रहारान् अकुर्वन्। यत्किमपि कर्तुम् अफ़्शारीय-सैनिकेभ्यः अनुमतिः प्रदत्ता लुण्ठनस्य भागः च अपि प्रतिश्रुतः आसीत्।

ढिल्ल्यां चान्द्नीचौक-दरीबाकालान, फ़तेह्पुरि-फ़ैज़बाज़र-हौज़काज़ि-जोहरीबाज़ार-इत्यादीनां क्षेत्राणां एवमेव लाहोरि-अजमेरी-काबुली-द्वाराणां शवाः सङ्गृहीताः। तेषु क्षेत्रेषु हिन्दूनां महमदीयानां संख्या महती आसीत्। अफ़्शारीय-सैनिकानां सम्मुखे आत्मसमर्पणस्य स्थाने हिन्दवः महमदीयाः तेषाम् स्त्रीः अपत्यानि च अघ्नन्।

तज़कीरा-पुरावृत्तलेखेने लिखितम्:-

"केषुचित् स्थानेषु विरोधः कृतः किन्तु अधिकतमेषु स्थानेषु नरसंहारः अविरोधितः जातः। पारसीयाः तु हिंसया सर्वाणि वस्तुनि, सर्वान् मनुष्यान् च अस्पृशन्। दीर्घं कालं यावत् शवैः वीथयः आवृताः यथा उद्यानस्य पथिषु पर्णानि पुष्पानि पतितानि। नगरं भस्मीकृतं जातम्।"[७]

मुहम्मद-शाहः तु नादर-शाहतः दयां भिक्षितुं विवशीभूतः। [८] इमाः भयङ्करयः घटनाः रुस्तम्-अलिनायाः तारीखेहिन्दी, अब्दुल-करीमस्य बयानेवक़ै, आनन्द-राम-मुख्लिसस्य तज़कीरा इत्यादिषु तत्कालीनस्य  पुरावृत्तलेखेषु वर्णिताः।

अन्ततः चिरकालस्य याचनस्य पश्चात् नादर-शाहः खड्गं कलहे स्थापनेन नरसंहारस्य अन्तस्य सङ्केतम् अकरोत्।

हताहताः सम्पादयतु

22 मार्च्-मासे 1739 तमे वर्षे एकैव दिवसे षड्घण्ठानां समयं यावत् 20,000तः अधिकाः 30000तः न्यूनाः भारतीयाः नराः, नार्यः, बालाः च अफ़्शारीय-सैनिकैः हताः जाताः इति परिगणनम् अस्ति।[९] हताहतानां संख्या स्पष्टा नास्ति यतोहि नरसंहारस्य पश्चात् शवाः तु भूमौ न्यखायन्त अथवा चितायां संस्थीयन्ते तस्मात् सम्यक् अङ्कनं न अशक्यत। ततः परम् 10000 नार्यः बालाः च दासाः अक्रियन्त इति डच्-ईस्ट्-इण्डिया-कम्पनी-प्रतिनिधिः अभणत्।[६]

लुण्ठनम् सम्पादयतु

 
Tavernier's illustration of the Koh-i-noor under different angles

नगरस्य लुण्ठनं बहून् दिवसान् यावत् कृतम्। ढिल्ली-निवासिभ्यः कोटिद्वय-रुप्यकाणां दण्डः निर्धारितो जातः। मुहम्मद-शाहेन कोशागारस्य कुञ्चिका नादर-शाहाय अदीयत। मयूर-सिंहासनमपि नादर-शाहः अलभत यम् अनन्तरं पारसीय-राज्य-शक्तेः प्रतीकम् अभवत्। आभूषणेषु कोहिनूर्-दर्याइनूरइति द्वे रत्ने अपि अलभ्यत ये अधुना ब्रिटिश्-मुकुटे इरान-मुकुटे च यथाक्रमम् अन्तर्भूते स्तः। नादर-शाहः तस्य सेना च 1739 तमे वर्षे मय्-मासस्य आरम्भे ढिल्लीतः अगच्छन्, गमनस्य पूर्वं नादर-शाहः सिन्धु-नदी-पूर्वदिशः क्षेत्रं मुहम्मद-शाहाय प्रत्यददात्।[१०]

परिणामः सम्पादयतु

ढिल्लीतः यावत् लुण्ठनं आनीतम् येन नादर-शाहः प्रत्यागमनस्य पश्चात् पारसे करसङ्ग्रहं त्रीणि वर्षाणि यावत् अविरामयत्।[१][११] नादर-शाहस्य पूर्वदिशि पतनग्रस्तं मुगलराज्यं विरुध्य विजयात् पुनः पश्चिमदिशि उस्मानीय-साम्राज्यं सम्मुखीकर्तुम् अशक्यत। उस्मानीय-राजा मह्मूद-प्रथमः 1743तः 1746पर्यन्तं युद्धम् आरभत। 1748 तमे वर्षे मरणपर्यन्तं मुहम्मद-शाहः उस्मानीय-राष्ट्रस्य समर्थनम् अकरोत्।[१२]

नादरस्य भारते सैन्याभियानात् मुगलस्य अत्यन्तबलहीनत्वम् तथा मुगलान् प्रभवितुं राजकीययोजनाः परिपालयितुम् अवकाशः ब्रिटिश्-ईस्ट्-इण्डिया-कम्पन्यै अज्ञायत।[१३]

उल्लेखाः सम्पादयतु

  1. १.० १.१ "Nadir Shah". Britannica.com. 
  2. The Sword of Persia:Nader Shah, from Tribal Warrior to Conquering Tyrant. आह्रियत 26 June 2014. 
  3. David Marshall Lang. Russia and the Armenians of Transcaucasia, 1797–1889: a documentary record Columbia University Press, 1957 (digitalised March 2009, originally from the University of Michigan) p 142
  4. http://warfare.atspace.eu/Persia/Nader%20Shah%20Invades%20India.htm[नष्टसम्पर्कः]
  5. "AN OUTLINE OF THE HISTORY OF PERSIA DURING THE LAST TWO CENTURIES (A.D. 1722–1922)". Edward G. Browne. London: Packard Humanities Institute. p. 33. आह्रियत 2010-09-24. 
  6. ६.० ६.१ William Dalrymple, Anita Anand (2017). Koh-i-Noor. Bloomsbury Publishing. p. 52. ISBN 1408888858. 
  7. "When the dead speak". Hindustan Times. March 7, 2012. Archived from the original on 13 April 2012. आह्रियत 9 March 2012.  Unknown parameter |url-status= ignored (help)
  8. Axworthy p.8
  9. Marshman, P. 200
  10. Axworthy, Michael (2010). Sword of Persia: Nader Shah, from Tribal Warrior to Conquering Tyrant. I.B. Tauris. pp. 212, 216. ISBN 978-0857733474. 
  11. This section: Axworthy pp.1–16, 175–210
  12. Naimur Rahman Farooqi (1989). Mughal-Ottoman relations: a study of political & diplomatic relations between Mughal India and the Ottoman Empire, 1556–1748. Idarah-i Adabiyat-i Delli. आह्रियत 6 April 2012. 
  13. Axworthy p.xvi
आधाराः

बाह्यानुबन्धः सम्पादयतु