नैव तस्य कृतेनार्थो () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्माकर्मण्योः ज्ञानिनां प्रयोजनाभावं वदति । पूर्वस्मिन् श्लोके आत्मज्ञानिभ्यः कर्तव्याभावम् उक्त्वा अत्र कर्मणि, अकर्मणि अपि तेषाम् अप्रयोजनत्वं वदति । सः कथयति यद्, कर्मयोगेन सिद्धानां तेषां महापुरुषाणां संसारेऽस्मिन् कर्मणि, अकर्मणि वा किमपि प्रयोजनं नावशिष्यते । तथा च सर्वेषु प्राणिषु तस्य किञ्चिदपि स्वार्थसम्बन्धः न भवति इति ।

नैव तस्य कृतेनार्थो...


कर्माकर्मण्योः ज्ञानिनां प्रयोजनाभावः
श्लोकसङ्ख्या ३/१८
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यस्त्वात्मरतिरेव स्यात्...
अग्रिमश्लोकः तस्मादसक्तः सततम्...

श्लोकः सम्पादयतु

 
गीतोपदेशः
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥

पदच्छेदः सम्पादयतु

न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन न च अस्य सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः ॥ १८ ॥

अन्वयः सम्पादयतु

इह तस्य कृतेन (कर्मणा) अकृतेन कश्चन अर्थः नास्ति । अस्य च सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः नास्ति ।

शब्दार्थः सम्पादयतु

अन्वयः सरलसंस्कृतम्
इह अस्मिन् लोके
तस्य आत्मरतस्य पुरुषस्य
कृतेन विहितेन (कर्मणा)
अर्थः प्रयोजनम्
न एव नास्ति
अकृतेन अविहितेन (कर्मणा)
कश्चन कोऽपि अर्थः
नास्ति
अस्य अस्य पुरुषस्य
सर्वभूतेषु सर्वप्राणिषु
कश्चित् कश्चन
अर्थव्यपाश्रयः च प्रयोजनसम्बन्धः अपि
नास्ति ।

व्याकरणम् सम्पादयतु

सन्धिः सम्पादयतु

  1. नैव = न + एव - वृद्धिसन्धिः
  2. कृतेनार्थः = कृतेन + अर्थः – सवर्णदीर्घसन्धिः
  3. नाकृतेन = न + अकृतेन - सवर्णदीर्घसन्धिः
  4. अकृतेनेह = अकृतेन + इह – गुणसन्धिः
  5. चास्य = च + अस्य - सवर्णदीर्घसन्धिः
  6. कश्चिदर्थव्यपाश्रयः = कश्चित् + अर्थव्यापाश्रयः – जश्त्वसन्धिः

समासः सम्पादयतु

  1. अकृतेन = न कृतम्, तेन नञ्तत्पुरुषः
  2. अर्थव्यापाश्रयः = अर्थाय व्यपाश्रयः – चतुर्थीतत्पुरुषः
  3. सर्वभूतेषु = सर्वाणि च तानि भूतानि च, तेषु - कर्मधारयः

कृदन्तः सम्पादयतु

  1. कृतेन = कृत् + क्त (कर्मणि)

अर्थः सम्पादयतु

आत्मतृप्तस्य पुरुषस्य कृतेन कर्मणा अकृतेनापि कर्मणा प्रयोजनं नास्ति । प्राणिषु केनापि सह तस्य प्रयोजनस्य हेतोः सम्बन्धोऽपि नास्ति ।

भावार्थः सम्पादयतु

'नैव तस्य कृतेनार्थः' – प्रत्येकस्य मनुष्यस्य कर्मप्रवृत्तिः भवत्येव । यावत्पर्यन्तं कर्मप्रवृत्तिः सांसारिकवस्तोः प्राप्त्यै भवति, तावता तेन 'स्वस्य कृते' कर्म अवशिष्यते । स्वस्य कृते किमपि कर्तुम् इच्छा एव मनुष्यस्य बन्धनकारणं भवति । एतस्याः इच्छायाः निवृत्त्यै कर्तव्यकर्मणः आवश्यकता भवति । कर्म द्विधा क्रियते । कामनापूर्त्यै, कामनानिवृत्त्यै च । सामान्यः मनुष्यः कामनापूर्त्यै कर्म करोति, परन्तु कर्मयोगी कामनानिवृत्त्यै कर्म करोति । अत एव कर्मयोगेन सिद्धमहापुरुषस्य न कापि कामना अवशिष्यते । एवं तस्य कर्तव्येन सह अपि किञ्चिन्मात्रम् अपि सम्बन्धः नावशिष्यते । ततः तेन संसारस्य हिताय निःस्वार्थभावेन स्वतः एव कर्म भवति ।

'नाकृतेनेह कश्चन' – यः मनुष्यः शरीरेन्द्रियमनोबुद्ध्यादिभः सह स्वस्य सम्बन्धं स्वीकरोति, आलस्यप्रमादादिषु यस्य रुचिः भवति, सः कर्म कर्तुं नेच्छति । यतो हि तस्य प्रयोजनं प्रमादालस्यारामादिभिः उत्पन्नेन तामससुखेन सह भवति [१] । परन्तु कर्मयोगसिद्धः महापुरुषः यः सात्त्विकसुखात् अपि परः अस्ति, तस्य तामससुखे प्रवत्तिः असम्भवा एव । यतो हि तस्य शरीरादिभिः सह किञ्चिन्मात्रम् अपि सम्बन्धः न भवति । अतः आलस्यप्रमादारामादयिषु रुचिः तु सर्वथा न भवत्येव ।

'न चास्य सर्वभूतेषु किञ्चिदर्थव्यपाश्रयः' – शरीरेण, संसारेण च सह किञ्चिन्मात्रम् अपि स्वार्थसम्बन्धस्य अभावेन महापुरुषाणां सर्वाः क्रियाः स्वतः एव अन्येषां हिताय भवन्ति । यथा शरीरस्य अङ्गाः स्वतः एव शरीरस्य हिताय सक्रियाः भवन्ति, तथैव महापुरुषाणां मन्यमानं शरीरं स्वतः एव संसारहिताय सक्रियं भवति । यथा शरीरस्य एकेन अङ्गेन हस्तेन शरीरस्य अपरम् अङ्गं मुखं प्रक्षालयामः, तदा मनसि स्वार्थः, प्रत्युपकारः, अभिमानभावश्च नोद्भवति, तथैव महापुरुषाणां मन्यमानेन शरीरेण संसारहिते सति महापुरुषेषु स्वार्थः, प्रत्युपकारः, अभिमानभावश्च नोद्भवति ।

मर्मः सम्पादयतु

प्रायः साधकाः कर्मणे अधिकाः प्रवृत्ताः न भवन्ति ते तु कर्मोपरामाः भूत्वा समाध्यवस्थां प्राप्तुम् इच्छन्ति । यतो हि समाध्यवस्थायां न कापि चिन्ता अवशिष्यते । एषः विषयः श्रेष्ठः, लाभप्रदश्च अस्ति, परन्तु सिद्धान्तः नास्ति । यद्यपि प्रवृत्तेः (कामनायाः) अपेक्षया निवृत्तिः (अकर्मण्यता) श्रेष्ठा अस्ति, तथापि एतत् न तात्त्विकम् । प्रवृत्तिनिवृत्ती प्रकृत्याधीने स्तः । निर्विकल्पसमाधिपर्यन्तं सर्वं प्रकृत्याधीनम् एव । यतो हि निर्विकल्पावस्थायाः अपि व्युत्थानं शक्यते । क्रियां विना व्यत्थानम् असम्भवम् । अतः यथा चलनादिक्रियाः, शयनादिक्रियाः च, तथैव समाध्यावस्थाया अपि क्रिया एव । प्रकर्षेण करणम् (भावे ल्युट्) इति प्रकृतिः एवं प्रकृतिः निरन्तरं क्रियाशील एव । अत एव तया सह सम्बन्धे स्थापिते कोऽपि प्राणी कस्याञ्चिद् अवस्थायां क्षणमात्रम् अपि कर्म अकृत्वा स्थातुं न शक्नोति [२][३] । अतः यावत्पर्यन्तं प्रकृत्या सह सम्बन्धः भवति, तावता समाधिः अपि कर्म एव । समाधौ द्वे अवस्थे भवतः । समाधिः, व्युत्थानं च । परन्तु प्रकृत्या सह सम्बन्धे विच्छेदे सति द्वे अवस्थे न भवतः, अपि तु 'सहजसमाधिः', 'सहजावस्था' वा भवति । तस्यां सहजावस्थायां कदापि व्युत्थां न जायते । यतो हि अवस्थाभेदः प्रकृतौ अस्ति, स्वरूपे न । अतः सहजावस्था सर्वोत्तमा उक्ता [४]

चेतनस्वरूपे प्रवृत्तिनिवृत्ती न स्तः । चेतनस्वरूपं तु तयोः प्रवृत्तिनिवृत्त्योः निर्विकल्पप्रकाशकम् अस्ति । शरीरेण सह तादात्म्ये सत्येव 'कर्म', 'अकर्म' इत्येतौ द्वन्दौ उत्पदेते । वास्तव्येन कर्म-अकर्मणी सजाती एव । शरीरेण सह सम्बन्धः अस्ति चेद्, अकर्मणि अपि कर्म एव मन्यते । यथा गमनस्य क्रिया भवति, तथैव अवस्थानम् अपि क्रिया एव भवति । तत्र भेदः तावदेव यत्, गमनक्रियायां क्रियायाः स्थूलदृष्ट्या दर्शनं भवति, अवस्थानक्रियायां तथा स्पष्टता न भवति । तथापि सूक्ष्मदृष्ट्या पश्यामश्चेद् अवस्थानम् अपि क्रिया एव । एवं क्रियाणां स्थूलरूपे दर्शनं (प्रवृत्तिः) प्रकृतौ अस्ति, तथैव स्थूलदृष्ट्या क्रियानाम् अदर्शनम् (निवृत्तिः) अपि प्रकृत्तौ एव । यस्य साधकस्य प्रकृत्या, तस्याः कार्येण च सह भौतिक-आध्यात्मिक-पारलौकिक-प्रयोजनं नावशिष्यते, तस्य महापुरुषस्य कृते कर्मणि, अकर्मणि च किमपि स्वार्थः न भवति । जडतया सह सम्बन्धे सत्येव कर्माकर्मयोः प्रश्नः उद्भवति । यतो हि जडतया सम्बन्धनं विना कापि क्रिया नावशिष्यते । महापुरुषाणां जडतया सह सर्वथा सम्बन्धविच्छेदः जायते, तथा च ते प्रकृत्यातीताः (प्रवृत्तिनिवृत्ती) सहजनिवृत्तौ स्वरूपानुभवं कुर्वन्ति । अतः साधकेन जडतायाः सम्बन्धविच्छेदः करणीयः । तत्त्वं तु सर्वदा नित्यम् अस्त्येव ।

पूर्वस्मिन् श्लोके भगवान् अवदत् यद्, सिद्धेभ्यः महापुरुषेभ्यः किमपि कर्त्यं नास्ति (तस्य कार्यं न विद्यते) इति । तस्य कारणम् एतस्मिन् श्लोके भगवान् अवदत् । कारणं वदन् भगवान् विषयत्रयम् उपास्थापयत् । १. कर्मणा सह तस्य किमपि प्रयोजनं नावशिष्यते । २. अकर्मणा सह अपि तस्य किमपि प्रयोजनं नावशिष्यते । ३. न केनचित् प्राणिना, वस्तुना च सह तस्य स्वार्थसम्बन्धः भवति । वस्तुतः स्वरूपे कर्म, अकर्म इत्येतयोः किमपि प्रयोजनं नास्ति । यतो हि शुद्धस्वरूपेण न कापि क्रिया भवति । क्रिया तु प्रकृतेः, प्रकृत्यजन्यपदार्थानां च सम्बन्धनेन एव भवति । अतः स्वस्य कृते किमपि न कर्तव्यम् इति विधानम् अस्ति । यावत्पर्यन्तं मनुष्ये रागः, प्राप्तीच्छा, जीवनेप्सा, मृत्युभयः इत्यादयः भविष्यन्ति, तावत्पर्यन्तं तस्योपरि कर्तव्यस्य उत्तरदायित्वं भविष्यति । परन्तु यस्मिन् रागादयः न सन्ति, तेषां कर्तव्यमेव नावशिष्यते । प्रत्युत तेन स्वतः एव कर्तव्यपालनं भवति । यत्र अकर्तव्यस्य सम्भावना भवति, तत्र कर्तव्यपालस्य प्रेरणा भवति ।

शाङ्करभाष्यम् सम्पादयतु

किंच नैवेति। नैव तस्य परमात्मरतेः कृतेन कर्मणार्थः प्रयोजनमस्ति। अस्तु तर्ह्यकृतेनाकरणेन प्रत्यवायाख्योऽनर्थो नाकृतेनेह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूपआत्महानिलक्षणो वा नैवास्ति। न चास्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चिदर्थव्यपाश्रयः प्रयोजननिमित्तक्रियासाध्यो व्यापाश्रयो व्यपाश्रयणम्। कंचिद्भूतविशेषमाश्रित्यन साध्यः कश्चिदर्थोऽस्ति। येन तदर्थाक्रियानुष्ठेया स्यात्।न त्वमेतस्मिन् सर्वतः संण्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे।।18।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
यस्त्वात्मरतिरेव स्यात्...
नैव तस्य कृतेनार्थो... अग्रिमः
तस्मादसक्तः सततम्...
 
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

  1. गीता, अ. १८ , श्लो. ३९
  2. गीता, अ. ३ , श्लो. ५
  3. गीता, अ. १८ , श्लो. ११
  4. उत्तमा सहजावस्था मध्यमा ध्यानधारणा । कनिष्ठा शास्त्रचिन्ता च तीर्थयात्राऽधमाऽधमा ।।

अधिकवाचनाय सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नैव_तस्य_कृतेनार्थो...&oldid=393840" इत्यस्माद् प्रतिप्राप्तम्