पञ्चक्षरी गवायी (Panchakshari Gavayi) भारतदेशस्य कर्णाटकराज्यस्य गदगमण्डलस्य प्रसिद्धः हिन्दुस्तानीगायकः सङ्गीताश्रमस्य श्री वीरेश्वरपुण्याश्रमस्य संस्थापकः च । अयं कर्णाटकस्य हावेरीमण्डलस्य हानगल्जनपदस्य काडशेट्टिहळ्ळि इति ग्रामे क्रि.श. १८९२ तमे वर्षे फेब्रवरि मासस्य द्वितीये दिने अजायत । अस्य पिता "गुरुपादय्य चरन्तिमठ", माता "नीलम्मा" इति । अस्य अङ्कितनाम गदिगय्य इति । गदिगय्यः अस्य अग्रजः गुरुबसवय्यः च जन्माना एव अन्धौ । स्थानीये प्रदेशे उपलभ्यं सङ्गीतज्ञानं प्राप्तवन्तौ । कदाचित् श्रीहक्कल बसवेश्वरमहोत्सवावसरे गायन्तौ बालकौ दृष्ट्वा पुज्यः हानगल् कुमारस्वामी एतौ आत्मना सह नीतवान् ।

पञ्चाक्षरी गवायी
ख्यातनाम गदिगेय्य
मूलतः भारतीयः
सङ्गीतविद्या हिन्दुस्तानीशास्त्रीयसङ्गीतम्
वृत्तिः गायकः
सक्रियवर्षाणि क्रि.श १९१२तः १९४३ ।


सङ्गीतशिक्षा सम्पादयतु

भ्रातरौ अनेकैः गुरुभिः सङ्गीतज्ञानं प्राप्तवन्तौ । श्रीकुमारस्वामी ग्रामेषु भिक्षाटनं कृत्वा नेलविगिप्रदेशे शिवयोगमन्दिरं प्रतिष्ठापयत् । तत्र अन्यबालकैः सह एतौ अपि सङ्गीताभ्यासम् अकुरुताम् । तस्मिन् काले ज्येष्ठः गुरुबसवय्यः दिवङ्गतः । अष्टादशवर्षीयः गदिगय्यः मैसूरुनगरे गौरीशङ्करस्वामिपादानां सन्निधौ सङ्गीताध्ययनम् अकरोत् । वर्षचतुष्टयं मैसूरुनगरे भिक्षान्नं कृत्वा उदरपोषणं कृतवान् । पश्चात् बागलकोटनगरे प्रचालिते वीरशैवमहासभायाः अधिवेशने शिवकुमारस्वामिभिः " पञ्चाक्षरी गवायी " इति नामाङ्कितः अभवत् । एतत्पश्चात् वर्षचतुष्टयं हिन्दुस्तानीसङ्गीतम् अभ्यस्य उभयसङ्गीतवित् अभवत् । सङ्गीतमार्गेण समाजसेवां चिकीर्षुः पञ्चाक्षरी गवायी कञ्चगल् बिदिरे ग्रामस्य प्रभुकुमारशिवाचार्येण शिवदीक्षां प्राप्य आध्यात्ममार्गे अनुगतवान् ।

सङ्गीतप्रचारः सम्पादयतु

पञ्चाक्षरी गवायी राज्ये सर्वत्र सञ्चरन्तीं सङ्गीतपाठशालाम् अरब्धवान् । क्रि.श. १९१४ तमवर्षे गदगमण्डलस्य रोणजनपदे निडगुन्दिकोप्पे शिवयोगमन्दिरस्य शाखायां सङ्गीतशालाम् आरब्धवान् । अस्यां शालायां कन्नडम्. संस्कृतम् च पाठयन्ति स्म । अस्य शिष्यत्वेन आगतः उत्तराधिकारी पुट्टराजः अपि जन्मना अन्धः एव । गवायी सङ्गीतशालायाः निर्वहणधनसङ्ग्रहार्थं नाटकसमवायमेकम् आरब्धवान् किन्तु यशं न सम्पादितवान् । क्रि.श. १९३० तमे वर्षे पञ्चाक्षरी गवायी स्वशिष्योद्धारार्थं बहुप्रयत्नं कृतवान् । तस्यां स्थितौ साहाय्यं कृतवान बसरिगिडस्य वीरप्पः । एषः पञ्चाक्षरीगवायीवर्यस्य स्वस्य भूमौ लघुशालां निर्मीय धनधान्यादीनि दत्त्वा सङ्गीतपाठशालां संरक्षितवान् । गवायी अस्य शालायाः श्री वीरशैवपुण्याश्रमः इति नामकरणम् अकरोत् ।

देशभाषाभिमानी सम्पादयतु

पञ्चाक्षरी गवायी सर्वदा खादिवस्त्रम् एव धरति स्म । उदररोगेणपीडितः आयुर्वेदचिकित्सां विना अन्यां तिरस्कृतवान् । मुम्बै नगरे आयोजितसङ्गीतगोष्ठ्यां कन्नडगीतानि गीतवान् ।

इहलोकत्यागः सम्पादयतु

प्रायः चत्वारि वर्षाणि यावत् उदरवेदनया परितप्तः गवायी अन्ते क्रि.शा. १९४४ तमवर्षस्य जूनमासस्य एकादशे दिनाङ्के दिवङ्गतः ।

"https://sa.wikipedia.org/w/index.php?title=पञ्चाक्षरी_गवायी&oldid=404322" इत्यस्माद् प्रतिप्राप्तम्