पद्मरागः

(पद्मरागमणिः इत्यस्मात् पुनर्निर्दिष्टम्)


सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागो जायते । सौगन्धिकः (गन्धकः) (Sulphur) कुरुविन्दः (प्रवालः) - एतौ धातुविशेषौ । स्फटिकः-स्फटिकोपलः । सौगन्धिकसम्भूताः पद्मरागाः भ्रमरद्युतयः - उत्पलवर्णाः, जम्बूरसकान्तयः लोहितवर्णाश्च । कुरुविन्दप्रभवाः-शुक्लकृष्णव्यामिश्राः, अल्पकान्तयः, मृत्तिकादिधातुभिर्बद्धाः - अतः सकल्ङ्काः । स्फटिकसम्भूतास्तु द्युतिमन्तः, नानावर्णाः, विचित्राः, निर्मलाः ।

सिंहलपद्मरागं रक्तम्, कालपुरमं पीतम् (कुरुविन्दमिति स्मृतम्), आन्ध्रम् अशोकफलनिभम् (सौगन्धिकं कथ्यते) तुम्बरं छायया नीलं नीलगन्धि च । तेषु सिंहलमुत्तमम्, तुम्बरं निर्भरम् ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पद्मरागः&oldid=409385" इत्यस्माद् प्रतिप्राप्तम्