पारस्परिकनिधिः इति शब्दो हि वर्तमाने लुप्तप्रायः। निधिरित्यस्य शब्दस्य अर्थस्तु ज्ञायते एव। तद्यथा- कोषः, धनम्, सम्पत्तिः इत्यादीनां पर्यायः निधिशब्दः। अथ पारस्परिकनिधिः इति अत्र बोध्यम्। आंग्लभाषया पारस्परिकनिधिरिति शब्दः Mutual Fund इत्यनेन प्रसिद्धो वर्तते। अयमेव शब्दः अधुना हिन्दीभाषायामपि प्रचलितः- म्यूचुअल फंड इति। संस्कृते उत मूलहिन्दीभाषायामयं शब्दः पारस्परिकनिधिः इत्यनेन बोध्यते।

पारस्परिकनिधिः किं भवति सम्पादयतु

पारस्परिकनिधिः (म्यूचुअल फंड) इत्यस्य शब्दार्थस्तु ज्ञातः। अथ ज्ञेयं यत् वस्तुतः पारस्परिकनिधिः किं भवतीति। यथा नाम तथा कर्म। सत्यम्। परस्परं बहुभिः संस्थानैः जनैर्वा (निवेशकैः) धनं संगृह्य एक स्थापनं कृत्वा शेयरविपण्यादिषु (शेयरमार्केट इत्यत्र) तस्योपयोगकार्यं क्रियते येन सः एव पारस्परिकनिधिः इति ज्ञायते।


सम्बद्धाः लेखाः सम्पादयतु


सन्दर्भः/बाह्यतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पारस्परिकनिधिः&oldid=469017" इत्यस्माद् प्रतिप्राप्तम्