प्रमुखा विकल्पसूचिः उद्घाट्यताम्


पार्थसारथिमिश्रः मीमांसकः आसीत् । मीमांसाशास्त्रपारावारपारदृश्वा [१] यज्ञात्मतनयः पार्थसारथिमिश्रः कौमारिलं सम्प्रदायं स्वविरचितग्रन्थावल्यालञ्चकार।

देशःसम्पाद्यताम्

महाभागोऽयं कुत्रत्यं भूमण्डलमलमकरोदित्याकाङ्क्षायामुद्यते यन्मिथिलाप्रदेशमिति।

कालःसम्पाद्यताम्

कदा भूमण्डलं मण्डयामास इत्यत्रोच्यते यत् प्रायेण द्वादशशतके इति। यतोहि चतुर्दशशतकोत्पन्नमाधवाचार्यस्य जैमिनीयन्यायमालाविस्तरे पार्थसारथिकृतशास्त्रदीपिकायाः उल्लेखो[२] दृश्यते इत्यतः ततः प्राचीनोऽयमिति सिद्ध्यति, श्लोकवार्तिकस्य च व्याख्यानकरणात् कुमारिलादर्वाचीनत्वमस्य सिद्धम्। ततश्च मध्यवर्तिनोऽस्य द्वादशशतकोत्पन्नत्वं युक्तमेवेति प्रतिभाति।

कृतिःसम्पाद्यताम्

मीमांसकप्रवरेणानेन ग्रन्थचतुष्टयं न्यबन्धि− १) न्यायरत्नमाला− मिश्रस्य प्रथमा कृतिरियं प्रकरणग्रन्थः। अत्र प्रयुक्तितिलकः, स्वतः प्रामाण्यनिरूपणं, विधिनिर्णयः, नित्यकाम्यविवेकः, अङ्गनिर्णयः, व्याप्तिविवेकः इति सप्तशास्त्रविषयाः प्रपञ्चिताः। ग्रन्थमिममधिकृत्य रामानुजाचार्यः नायकरत्नाख्यटीकां निबबन्ध। शालिकनाथेन प्रकरणपञ्चिकायामुपस्थापितस्य प्रभाकरमिश्रस्य मतखण्डनपुरस्सरं कुमारिलमतमण्डनमत्र विद्यते इति विशेषः। २) तन्त्ररत्नम्− कुमारिलकृतटुप्टीकाया व्याख्यानभूतोऽयं मिश्रस्य द्वितीयो ग्रन्थः। ३) शास्त्रदीपिका− पार्थसारथिमिश्रस्य तृतीया कृतिरियम्। अत्र कुमारिलवार्तिकमधिकृत्य अधिकरणप्रस्थानं सप्रपञ्चं वर्णितम्। विषय-विशय-पूर्वपक्ष-सिद्धान्त-प्रयोजन-सङ्गतीति विषयषट्कस्य सुस्पष्टं निरूपणं कृतम्। प्राधान्येन गदमयी इयम्। परन्तु तत्र तत्र पद्यमपि उपलभ्यते। ग्रन्थेऽस्मिन् मिश्रेण पाण्डितस्य पराकाष्ठा प्रदर्शिता। ४) न्यायरत्नाकरः− श्लोकवार्तिकव्याख्यानभूतोऽयं मिश्रविरचितश्चतुर्थो ग्रन्थः। महाभागेनानेनात्र शास्त्रीयाण्यशास्त्रीयाणि वा मतानि सूक्ष्मेक्षिकया परिभाव्य स्वमतमपि प्रकटीकृतम्। मिश्रमहोदयस्य वैदुष्यं शास्त्रगाम्भीर्यञ्च ग्रन्थस्यास्य पठनेन स्फुटं प्रतीयते।

उद्धरणम्सम्पाद्यताम्

  1. ‘भुवनत्रयविख्यातश्रीमद्यज्ञात्मनन्दनः...’ (न्यायरत्नमाला, पृष्ठम्- ३१९)।
  2. ‘यद्यपि शास्त्रदीपिकादौ क्वचित् क्वचित् सङ्ग्रहश्लोकोऽस्ति’ − न्यायमालाविस्तरः।

सम्बद्धाः लेखाःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=पार्थसारथिमिश्रः&oldid=395561" इत्यस्माद् पुनः प्राप्तिः