जगन्नाथपुरी
पुरी सर्वविधान् अपि पर्यटकान् सन्तोषयति। यदि कश्चित् धार्मिकमनोभावयुक्तः अस्ति तर्हि अत्र अस्ति जगन्नाथदेवालयः। यदि कश्चित् समुद्रप्रियः तर्हि स्वर्णतीरं तेषां स्वागतं करोति। यदि आहारप्रियाः सन्ति तर्हि तादृशैः अवश्यं अत्रत्या आहारविपणिः द्रष्टव्या।
Puri ପୁରୀ | |
---|---|
City | |
![]() Montage of Puri City | |
Country |
![]() |
State | Odisha |
District | Puri |
Government | |
• Chairperson, Municipality | Shantilata Pradhan |
Elevation | ० m |
Languages | |
• Official | Oriya, Hindi |
Time zone | UTC+5:30 (IST) |
PIN |
75200x |
Telephone code | 06752 |
Vehicle registration | OD-13 |
समुद्रप्रियेभ्यःसंपादित करें
भारते स्थितेषु श्रेष्ठेषु विहारयोग्येषु तीरेषु अन्यतमम् अस्ति पुरीस्थं समुद्रतीरम्। तरणाय काष्ठफलकावलम्बितप्लवनाय च एतत् नितरां प्रशस्तम् अस्ति।
धार्मिकश्रद्धालुभ्यःसंपादित करें
पुरीस्थाः देवालयाः अतिप्रसिद्धाः। तत्रापि द्वादशे शतके निर्मितं जगन्नथमन्दिरस्य गोपुरं नितरां चित्ताकर्षकम्। नीलाचलनामकस्य पर्वतस्य उपरि स्थितस्य एतस्य मन्दिरस्य आराध्यदेवः भगवान् विष्णुः। अष्टमीटरात्मकः सूर्यस्तम्भः पूर्वं कदाचित् आसीत् कोणार्कसूर्यदेवालयस्य पुरतः। जगन्नाथपुर्याः वैशिष्ट्यद्वयम्। प्रथमा तु प्रसिद्धा वार्षिकी रथयात्रा। अपरा आनन्दविपणिः या च जगति एव अद्वितीयत्वेन ख्याता अस्ति।
क्रयणप्रियेभ्यःसंपादित करें
पुरी क्रेतॄणां स्वर्गायते। अत्र हस्तनिर्मितवस्तूनां, विविधशिलाशिल्पानां, काष्ठशिल्पानां, शुक्तिनिर्मितवस्तूनां, वस्त्रस्योपरि निर्मितानां कलाचित्राणां, हस्तस्यूतिवस्तूनां च उपलब्धिः अत्र विशेषतः भवति।
पुरीं प्राप्तुं मार्गाःसंपादित करें
१ भुवनेश्वरतः ६० किलोमीटर् दूरे अस्ति पुरी। २ कोणार्कतः ३५ किलोमीटर् दूरे अस्ति।