प्रजहाति यदा कामान् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य प्रप्रथमस्य प्रश्नस्य उत्तरं ददाति । पूर्वस्मिन् श्लोके अर्जुनः स्थितप्रज्ञस्य लक्षणं पृच्छन् भगवन्तं श्रीकृष्णं चतुरः प्रश्नान् अपृच्छत् । तेषु प्रप्रथमः प्रश्नः "स्थिप्रज्ञस्य का भाषा ?" इति आसीत् । तस्य प्रश्नस्य उत्तरं यच्छन् अत्र श्रीकृष्णः कामनारहितत्वम्, आत्मनि सन्तुष्टिः इत्येतौ गुणौ वदति ।

प्रजहाति यदा कामान्...


"स्थितप्रज्ञस्य का भाषा" इत्यस्य उत्तरम्
श्लोकसङ्ख्या २/५५
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः स्थितप्रज्ञस्य का भाषा
अग्रिमश्लोकः दुःखेष्वनुद्विग्नमनाः

गीतायां काचित् शैली दृश्यते । साधकः येन साधनेन (कर्मयोगः, भक्तियोगः इत्यादयः) सिद्धो भवति, तेन साधनेनैव तस्य साधकस्य पूर्णतायाः वर्णनं भवति । यथा – भक्तियोगे साधकः "भगवन्तं विहाय अन्यत् किमपि नास्ति" इति अनन्ययोगेन उपासनां करोति [] । अतः सिद्धावस्थायां सः भक्तियोगी सिद्धावस्थायां प्राणिमात्रात् द्वेषविहीनः भवति [] । ज्ञानयोगे साधकः स्वर्वेभ्यः गुणेभ्यः स्वं सम्बन्धविहिनत्वेन, निर्लिप्तत्वेन च पश्यति [] । अतः सिद्धावस्थायां सः ज्ञानयोगी गुणातीतः भवति [] । तथैव कर्मयोगे कामनात्यागः मुख्यत्वं वहति । अतः सिद्धावस्थायां कर्मयोगी सर्वासां कामनानां त्यागं करोति इति ।

 
गीतोपदेशः

श्रीभगवानुवाच-

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥

पदच्छेदः

सम्पादयतु

प्रजहाति, यदा, कामान्, सर्वान्, पार्थ, मनोगतान् । आत्मनि, एव, आत्मना, तुष्टः, स्थितप्रज्ञः, तदा, उच्यते ॥

पार्थ ! यदा सर्वान् कामान् मनोगतान् प्रजहाति आत्मना एव आत्मनि तुष्टः तदा स्थितप्रज्ञः उच्यते ।

शब्दार्थः

सम्पादयतु
पार्थ अ.पुं.सम्बोध.एक. धनञ्जय !
यदा अव्ययम् यस्मिन् समये
मनोगतान् अ.पुं.द्वि.बहु. चित्तसन्निहितान्
सर्वान् अ.सर्व.पुं.द्वि.बहु. सकलान्
कामान् अ.पुं.द्वि.बहु. अभिलाषान्
प्रजहाति प्र+√ओ हाक् त्यागे-पर.कर्तरि, लट्.प्रपु.एक. परित्यजति
तदा अव्ययम् तस्मिन् समये
आत्मना आत्मन्-न.पुं.तृ.एक. स्वेन
एव अव्ययम् एव
आत्मनि आत्मन्-न.पुं.स.एक. स्वस्मिन्
तुष्टः अ.पुं.प्र.एक. हृष्टः
स्थितप्रज्ञः अ.पुं.प्र.एक. स्थितप्रज्ञः
उच्यते √वच् परिभाषणे-पर.कर्मणि, लट्.प्रपु.एक. कथ्यते ।

व्याकरणम्

सम्पादयतु

आत्मन्येव = आत्मनि + एव - यण्सन्धिः ।

आत्मन्येवात्मना = आत्मन्येव + आत्मना - सवर्णदीर्घसन्धिः ।

स्थितप्रज्ञस्तदा = स्थितप्रज्ञः + तदा - विसर्गसन्धिः (सकारः) ।

तदोच्यते = तदा + उच्यते - गुणसन्धिः ।

मनोगतान् = मनः गताः, तान् - द्वितीयातत्पुरुषः ।

स्थितप्रज्ञः = स्थिता धीः यस्य सः - बहुव्रीहिः ।

कृदन्तः

सम्पादयतु

गतान् = गम्लृ + क्त (कर्तरि)

तुष्टः = तुष् + क्त (कर्तरि)

पार्थ ! यदा मनसि प्रविष्टान् सर्वान् अपि इच्छाभेदान् परित्यजति, यदा च निरपेक्षः सन् परमार्थदर्शनात् अन्यस्मिन् सर्वस्मिन् अपि विषये अनासक्तः भवति तदा आत्मना आत्मनि एव तुष्टः भवति। सः एषः स्थितप्रज्ञः इति उच्यते ।

भावार्थः []

सम्पादयतु

'प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्' – कामना न तु साधके, न तु तस्य मनसि भवति । कामना तु गमनागमनशीला, स्वयं साधकश्च नित्यः भवति । अतः स्वस्मिन् (आत्मनि) कामना कथम् उद्भवेत् ? मनः अपि किञ्चन करणम् एव । तत्रापि कामना अस्थिरा (गमनागमनशीला) अस्ति । अतः मनसि कामना कथम् उद्भवेत् ? शरीरेद्रियमनोबुद्ध्यादीनां तादात्म्यत्वात् मनुष्यः मनसि गमनागमनशीलां कामनाम् एव स्वस्य कामनां परिगणयति ।

'आत्मन्येवात्मना तुष्टः' – यः सर्वाः कामनाः त्यजति, स्वस्मिन् एव सन्तुष्टः भवति, सः । सन्तोषः द्विविधः । गुणात्मकसन्तोषः, स्वरूपात्मकसन्तोषश्च । अन्तःकरणे इच्छायाः अभावः गुणात्मकसन्तोषः उच्यते । स्वस्मिन् सन्तोषस्य अत्यन्तः अभावः स्वरूपात्मकसन्तोषः उच्यते । स्वरूपात्मकसन्तोषः सहजतया सर्वदा विद्यमानः भवति । तं प्राप्तुम् अभ्यासस्य आवश्यकता नास्ति । स्वरूपभूतसन्तोषे प्रज्ञा (बुद्धिः) स्वतः एव स्थिरा भवति ।

'स्थितप्रज्ञस्तदोच्यते' – साधकः यदा बहुशाखायुक्ताः अनन्तकामनाः स्वस्मिन् चिन्तयन् आसीत्, तदापि वास्तव्येन कामनारहितः सः स्थिप्रज्ञः एव आसीत् । परन्तु तस्मिन् समये कामनाः मयि सन्ति इति मन्यमानः सः बुद्धौ स्थिरः नासीत् । अतः सः स्थितप्रज्ञत्वेन सम्बोधितः न भवति स्म अर्थात् स्वस्य स्थितप्रज्ञतायाः अनुभवे सः असमर्थः आसीत् । ततः स्वस्य कामनानां त्यागं कृतवान् अर्थात् "कामनाः मम" इत्यस्य भावस्य त्यागं कृतवान्, ततः सः स्थितप्रज्ञत्वेन सम्बोधितः भवति । पूर्वं साधकः बुद्धिं स्थिरीकरोति । परन्तु कामनानां त्यागे सति बुद्धिः स्वतः स्थिरा भवति ।

'ओ हाक्' (जहाति) इत्यस्य धातोः अग्रे 'प्र' इत्यस्य उपसर्गस्य तात्पर्यम् अस्ति यत्, साधकः कामनाः सर्वथा त्यजति । स्वस्य स्वरूपस्य कदापि त्यागः न भवति । तथैव येन सह अस्माकं सम्बन्धः न भवति, तस्यापि त्यागः कर्तुं न शक्यते । यथा किमपि अस्माकं नास्ति, तथापि अस्माभिः तस्मिन् ममत्वम् आरोपितम् अस्ति । तथैव कामना अस्मासु नास्ति, परन्तु 'कामना मम' इति अस्माकं मान्यता । तस्याः मान्यतायाः त्यागः एव 'प्रजहाति' इत्यनेन पदेन उक्तः ।

अत्र 'कामान्' इत्येतस्य शब्दस्य बहुचनान्तत्वेन उपयोगे सति 'सर्वान्' इत्यस्य शब्दस्य अर्थः अन्तर्भवति । तथापि 'सर्वान्' इत्यस्य शब्दस्य उपयोगस्य तात्पर्यम् अस्ति यत्, न कापि कामना अवशिष्टा स्यात् । तथा च कामनायाः कोऽपि अंशः अपि अवशिष्टः न स्यात् इति ।

कर्मयोगे साधकस्य कर्मभिः सह सम्बन्धः अधिकः भवति । तस्य कृते योगाय साधनम् अपि कर्म अस्ति [] । अतः कर्मयोगिनः साधकावस्थायां, सिद्धावस्थायां च कर्मणा सह सम्बन्धः भवति । सिद्धावस्थायां कर्मयोगिना मर्यादानुसारं कर्माणि भवन्ति, येन अन्येभ्यः आदर्शोपस्थापनं भवेत् [] । एवं कर्मयोगी कर्म कुर्वन्नपि निर्लिप्तः भवति, निर्लिप्तश्च सन् कर्म करोति [] । योगप्राप्त्यै बुद्धेः द्वे अवस्थे उक्ते । संसारात् मुक्त्यै बुद्धिः निश्चला स्यात्, परमात्मनि च रतौ काले बुद्धिः अचला स्यात् । तयोः स्थित्योः बोधार्थम् अत्र 'यदा', 'तदा' इत्येतयोः पदयोः उपयोगः कृतः । यदा साधकः कामनारहितः सन् स्वरूपे स्थिरः, सन्तुष्टश्च भवति, तदा सः स्थितप्रज्ञः उच्यते । अस्य तात्पर्यम् अस्ति यत्, यावत्पर्यन्तं कामनायाः अंशः भवति, तावता सः साधकः उच्यते । परन्तु यदा तस्याः कामनायाः सर्वथा त्यागः भवति, तदा सः सिद्धः उच्यते इति ।

एतस्मात् श्लोकात् आरभ्य द्वितीयाध्यायस्य अन्तं यावत् भगवान् श्रीकृष्णः निश्चलायाः, अचलायाः च बुद्धेः माध्यमेन संसारत्यागस्य, परमात्मनि स्थिरतायाः च चर्चां करोति ।

श्लोकः

संसारत्यागः

परमात्मनि स्थिरता

अ. २, श्लो. ५४, ५५

प्रजहाति यदा कामान्सर्वन्

आत्मन्येवात्मना तुष्टः

अ. २, श्लो. ५६

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः

स्थितधीर्मुनिः

अ. २, श्लो. ५७

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि

तस्य प्रज्ञा प्रतिष्ठिता

अ. २, श्लो. ५८

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यः

तस्य प्रज्ञा प्रतिष्ठिता

अ. २, श्लो. ५९

विषया विनिवर्तन्ते निराहारस्य देहिनः ।

रसवर्जं रसोऽप्यस्य

परं दृष्ट्वा निवर्तते

अ. २, श्लो. ६०, ६१

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिताः ।।

अ. २, श्लो. ६२ – ६५

६२-६५

बुद्धिः पर्यवतिष्ठते

अ. २, श्लो. ६६-६८

६६-६८

तस्य प्रज्ञा प्रतिष्ठिता

अ. २, श्लो. ६९

या निशा सर्वभूतानां, यस्यां जाग्रति भूतानि

तस्यां जागर्ति संयमी, सा निशा पश्यतो मुनेः

अ. २, श्लो. ७०-७१

७०-७१

स शान्तिमधिगच्छति

अ. २, श्लो. ७२

नैनां प्राप्य विमुह्यति

ब्रह्मनिर्वाणमृच्छति

शाङ्करभाष्यम् []

सम्पादयतु

यो ह्यादित एव संन्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रवृत्तः यश्च कर्मयोगेन तयोः प्रजहाति इत्यारभ्य आ अध्यायपरिसमाप्तेः स्थितप्रज्ञलक्षणं साधनं चोपदिश्यते। सर्वत्रैव हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनानि उपदिश्यन्ते यत्नसाध्यत्वात्। यानि यत्नसाध्यानि साधनानि लक्षणानि च भवन्ति तानि श्रीभगवानुवाच - प्रजहातीति ।

प्रजहाति  प्रकर्षेण जहाति परित्यजति  यदा  यस्मिन्काले  सर्वान्  समस्तान्  कामान्  इच्छाभेदान् हे  पार्थ   मनोगतान्  मनसि प्रविष्टान् हृदि प्रविष्टान्। सर्वकामपरित्यागे तुष्टिकारणाभावात् शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्तस्येव प्रवृत्तिः प्राप्ता इत्यत उच्यते -

आत्मन्येव  प्रत्यगात्मस्वरूपे एव  आत्मना  स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमार्थदर्शनामृतरसलाभेन अन्यस्मादलंप्रत्ययवान् स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः  स्थितप्रज्ञः  विद्वान्  तदा उच्यते।  त्यक्तपुत्रवित्तलोकैषणः संन्यासी आत्माराम आत्मक्रीडः स्थितप्रज्ञ इत्यर्थः।।

भाष्यार्थः

सम्पादयतु

ये पूर्वस्मादेव कर्माणि त्यक्त्वा ज्ञाननिष्ठायां स्थिताः सन्ति, ये कर्मयोगेन ज्ञाननिष्ठां प्राप्तवन्तः, तयोः द्वयोः प्रकारयोः स्थितप्रज्ञयोः लक्षणं, साधनं च 'प्रजहाति' इत्यस्मात् श्लोकात् आरभ्य अध्यायस्य समाप्तिपर्यन्तम् अस्ति । अध्यात्मशास्त्रे सर्वत्र कृतार्थपुरुषस्य यानि लक्षणानि सन्ति, यत्नद्वारा साध्यत्वात् तानि एव अन्येभ्यः अपि साधनरूपेण उपदिष्टानि । यानि यत्नसाध्यानि साधनानि भवन्ति, तानि एव सिद्धपुरुषाणां स्वाभाविकलक्षणानि भवन्ति । श्रीभगवान् अवदत् –

हे पार्थ ! यदा मनुष्यः मनसि स्थिताः सर्वाः कामनाः सर्वथा त्यजति, तदा स्वान्तरात्मस्वरूपे बाह्यलाभस्य अपेक्षाम् अकृत्वा स्वयमेव सन्तुष्टः सः अर्थात्, परमार्थदर्शनरूपिणः अमृतरसलाभेन तृप्तः, अनात्मपदार्थेभ्यः अलम्बुद्धिः, तृष्णारहितः पुरुषः स्थितप्रज्ञः उच्यते । एवं यस्य आत्म-अनात्मयोः विवेकात् उत्पन्ना बुद्धिः स्थिरा अस्ति, सः स्थितप्रज्ञः उत ज्ञानी उच्यते ।

उक्तस्य अभिप्रायः अस्ति यत्, पुत्रः, धनं, लोकैषणा इत्यादीनां त्यागकर्ता संन्यासी एव आत्मारामः, आत्मक्रीडः, स्थितप्रज्ञः च अस्ति इति ।। ५५ ।।

रामानुजभाष्यम् [१०]

सम्पादयतु

वृत्तिविशेषकथनेन स्वरूपम् अपि उक्तं भवति इति वृत्तिविशेष उच्यते -

श्रीभगवानुवाच  आत्मनि एव आत्मना  मनसा आत्मैकावलम्बनेन  तुष्टः  तेन तोषेण तद्व्यतिरिक्तान्  सर्वान् मनोगतान्   कामान् यदा  प्रकर्षेण जहाति  तदा  अयं  स्थितप्रज्ञ  इति  उच्यते।  ज्ञाननिष्ठाकाष्ठा इयम्।

भाष्यार्थः

सम्पादयतु

आचरणभेदस्य वर्णने कृते स्वरूपस्य वर्णनम् अपि भवति । अतः स्थितप्रज्ञस्य पुरुषस्य आचरणभेदस्य वर्णनं करोति –

मनुष्यः यदा आत्मना, मनसा च केवलम् एकस्य आत्मनः अवलम्बनं कृत्वा आत्मनि एव सन्तुष्टः भवति, तेन सन्तोषेण आत्मनः अतिरिक्तम् अन्यासां समस्तानां मनोगतानां कामनानां पूर्णतया त्यागं करोति, तदा सः ''स्थितप्रज्ञः'' उच्यते । ज्ञाननिष्ठायाः सा काष्ठा अर्थात् अन्तिमा सीमा अस्ति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
स्थितप्रज्ञस्य का भाषा
प्रजहाति यदा कामान्... अग्रिमः
दुःखेष्वनुद्विग्नमनाः
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. गीता, अ. १२, श्लो. ६
  2. गीता, अ. १२, श्लो. १३
  3. गीता, अ. १४, श्लो. १९
  4. गीता, अ. १४, श्लो. २२-२५
  5. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  6. आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते, गीता, अ. ६, श्लो. ३
  7. गीता, अ. ३, श्लो. २१
  8. कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः, गीता, अ. ४, श्लो. १८
  9. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  10. रामानुजभाष्यम्

अधिकवाचनाय

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=प्रजहाति_यदा_कामान्...&oldid=473807" इत्यस्माद् प्रतिप्राप्तम्