प्रबोधचन्द्रोदयम्
प्रबोधचन्द्रोदयं नाम कृष्णमिश्रेण प्रणीतं प्रतीक-नाटकमश्वघोषस्य परम्परामुपजीवति ।[१] एतस्मिन् नाटके बहुवारं नारीनिन्दा दरीदृश्यते।
प्रबोधचन्द्रोदयम् | |
---|---|
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति | |
लेखकः | कृष्णमिश्रा |
देशः | भारतम् |
भाषा | संस्कृतम् |
कविपरिचयः
सम्पादयतुएकादश्यां शताब्द्यां चन्देलनरेशेन दत्ताश्रयः कृष्णमिश्रः कविकर्मोचितं सौविध्यमलभत । कृष्णमिश्रस्य पुरस्तात् भासस्य बालचरिते, जयन्तभट्टस्य आगमडम्बरे, क्षेमीश्वरस्य चण्डकौशिके चापि प्रतीकपात्रयोजना गौणत: कल्लोलायते स्म । अंशतस्तानि नाटकानि सजातीयानि कृष्णमिश्रस्य भवेयुरुपजीव्यानि । स वीरविजयनामकमीहामृगमपि रचितवान्। वैष्णवाद्वैतोपासकः कृष्णमिश्रो भक्तिं ब्रह्मलयं च विकल्परूपेण गृह्णाति -
नित्यं स्मरञ्जलद-नीलमुदार-हार-
केयूर-कुण्डल-किरीटधरं हरिं वा।
ग्रीष्मे सुशीतमिव वा ह्रदमस्तशोकं
ब्रह्म प्रविश्य भज निर्वृतिमात्मनीनाम्॥[२]
सर्वथासौ जीवब्रह्मणोः परमार्थमद्वैतमेवौपनिषदं हास्यं रहस्यं स्थापयति -
असौ त्वदन्यो न सनातनः पुमान् भवान् न देवात् पुरुषोत्तमात् परः।
स एष भिन्नस्त्वदनादिमायया द्विधेव बिम्बं सलिले विवस्वतः।।[३]
प्रबोधचन्द्रोदयस्य प्रस्तावनायां बीजोपस्थापना क्रियते -
विवेकेनेव निर्जित्य कर्णं मोहमिवोर्जितम्।
श्रीकीर्तिवर्मनृपतेर्बोधस्येवोदयः कृतः॥[४]
अत्र कविः स्वाश्रयदातुः कीर्तिवर्मणश्चेदिनरेश-कर्णोपरि विजयं स्पष्टमुद्घोषयति, व्याजेन च नाटकस्य कथावस्तु प्रक्रमयति । स्यादेतत्, प्रबोधश्चन्द्र इवोदेति, जगत्तापं शमयति, परां निर्वृतिं गमयति, विद्याकौमुदीमुल्लासयति, अविद्यान्धतमसं द्रवयति इति औपनिषदं तत्त्वविचारं कवयन् कवीनामुच्चस्थानीय एव कृष्णमिश्रः । अभिनयसम्पदामभावेऽपीयं कृतिः प्रतिभाया नवमेव समुन्मेषं प्रकटयति। राढजनपदं बहुशः स्तुवन्नयं कविस्तद्देशजन्मा भवेदित्यनुमीयते। कृतिमेनामवगाहमवगाहं तज्ज्ञो वैदुषीं, शिल्पं, वस्तुविन्यासं, मानवप्रकृति-पर्यवेक्षणं, दर्शन-शास्त्र-निष्णातां च शेमुषीं प्रशंसति । सर्वात्मना काव्यद्वारेणात्र वेदान्तशिक्षणमेव प्रस्तुतमुपलभामहे । चार्वाक-बौद्ध-प्रभृतयोऽत्र पूर्वपक्षतयोपस्थापिताः क्वचित्, सामर्थ्यं न जहति।
कथावस्तु
सम्पादयतुरतिः काममुवाच - तव महाराजस्य महामोहस्य प्रतिनायको विवेक इति । कामश्च तां प्रति स्वस्य स्वसैन्यस्य लोभ-क्रोधादिसंघटितस्य प्राबल्यं प्राशंसत् । नायक-प्रतिनायको विमातृजौ भ्रातराविति चासूचयत् । मनसो हि उभे भार्ये प्रवृत्तिश्च निवृत्तिश्चेति । तत्र महामोहः प्रवृत्तः, विवेकश्च निवृत्तः पुत्रौ उभावपि प्रभूत-सोदरौ मिथः प्रतिस्पर्धां गतौ औपनिषदात् पुरुषात् प्रबोधचन्द्रो विद्या च जन्म लप्स्येते येन महामोहस्य कुलक्षयो भवितेत्यपि कामो रतिं सूचयामास।
विवेकः तीर्थान्यधिष्ठातुं शमादीन् प्रेषयत्, तत् प्रतिकर्तुं च महामोहो दम्भादीन् सम्भावयामास । काशीं गतोऽहङ्कारो दम्भेन सह महामोहं सभाजयति स्म। स हि इन्द्रलोकाद् विवेकं विजेतुं तत्रागतः । बौद्धभिक्षूणां जैनक्षपणकानां कापालिकानां च दाम्भिकीं श्रद्धां तपोमयीं परिज्ञाय शान्तिः स्वमातरं सात्त्विकीं श्रद्धां काश्यामन्विष्यन्ती भ्रमति स्म । सा हि श्रद्धा महाभैरव्या गृहीता धर्मसहचरी आर्तनादपरायणा कथंकथंचित् परिमुक्ता।
राढादेशस्थे चक्रवर्तितीर्थे महामोहं विजिगीषुविवेकः कृतशिविरः आस्ते स्म। अथ वस्तु-विचार-क्षमा-सन्तोषादिभिः कृतमन्त्रोऽसौ काशीमभिप्रतस्थे, गत्वा चादिकेशवस्य दर्शनेनात्मानं सम्भावयामास । अन्ततो विवेको महाराजः ससैन्यं महामोहमजयत् । तञ्च म्लेच्छदेशेषु निवस्तुं समादिशत् । महामोहपक्षीयाः बौद्धाः पलाय्य सिन्धु-गान्धार-पारसीक-मगधन्ध-हूण-वङ्ग-कलिङ्गादिषु देशेषु शरणं गताः। विवेकपक्षीयाश्च वेदाः उपवेदाः सवेदाङ्गपुराणेतिहासषड्दर्शन-सरस्वती-प्रभृतयः सुखमवर्धन्त।
सरस्वती मनोदेवं प्रवृत्ति-पराङ्मुखं निवृत्ति-सम्मुखं च तथा चकार, यथा निवृत्तिपुत्रो वैराग्यरूपः पितरं प्राप्य तस्मै संसारस्य क्षणभंगुरतां प्रकाशयत् । अन्ते पुरुषमुपनिषदुपदिशति । पुरुषश्च प्रबोध-चन्द्रोदयं नाम पुत्रं लब्धवान्।
कृष्णमिश्रोऽनेन नाटकेन चार्वाक-बौद्ध-जैनादीन् तृणाय मत्वा वैराग्यमौपनिषदकमुपदेष्टुमयतत। वस्तुविचार-क्षमा-सन्तोषादिपात्राणि कामक्रोधलोभादिकान् प्रध्वंसयन्ति । ततः परं प्रबोधरूपेण चन्द्रोदयः सम्भवतीति। संवादमात्रप्रवणे मञ्चव्यापार-विकलेऽस्मिन्नाटके काव्यबन्धा एवाकर्षन्ति मनः । दम्भस्य प्रभावप्राचुर्ये काशी अतथाभूता लक्ष्यते -
वेश्या-वेश्मसु सीधु-गन्धिललना-वक्त्रासवामोदितै-
र्नीत्वा निर्भरमन्मथोत्सव-रसैरुन्निद्र-चन्द्राः क्षपाः।
सर्वज्ञा इति दीक्षिता इति चिरात् प्राप्ताग्निहोत्रा इति
ब्रह्मज्ञा इति तापसा इति दिवा धूतैर्जगद् वञ्च्यते।।[५]
अपि बौद्धो जल्पति -
रण्डाः पीनपयोधराः कति मया चण्डानुरागाद् भुज-
द्वन्द्वापीडितपोवरस्तनभरं नो गाढमालिङ्गिताः।
बुद्धेभ्यः शतश: शपे यदि पुन: कुत्रापि कापालिकी-
पीनोत्तुङ्गकुचावगूहनभवः प्राप्तः प्रमोदोदयः।।[६]
इत्येवं वर्णनासु हास्यरसोदयः सुतरां प्रीणाति । निर्वेदस्यूतं वैराग्यपूतं शम-माल्यं ग्रथ्नन्ती कृष्णमिश्रस्य जागर्तितरां प्रतिभा -
न कति पितरो दाराः पुत्राः पितृव्यपितामहा
महति वितते संसारेऽस्मिन् गतास्तव कोटयः।
तदिह सहृदां विद्युत्पातोज्ज्वलान् क्षणसङ्गमान्
सपदि हृदये भूयो भूयो निवेश्य सुखी भव ॥[७]
अपि च रूपकालंकृता सैव वैराग्य-व्यक्ति-वाणी रस्यते -
मृत्युर्नृत्यति मूर्ध्नि शश्वदुरगी घोरा जरारूपिणी
त्वामेषा ग्रसते परिग्रहमयैर्गृध्रैर्जगद् ग्रस्यते ।
श्रुत्वा बोधजलैरबोधबहुलं तल्लोभजन्यं रजः
सन्तोषामृतसागराम्भसि मनाङ् मग्नः सुखं जीवति।।[८]
सानुप्रासप्राशा अपि काश्चिदुक्तयः सौष्ठवमय्यः पुष्णन्ति माधुर्यं वहन्ति च प्रसादम् -
श्रियो दोलालोला विषयज-रसाः प्रान्तविरसा
विपद्गेहं देहं महदपि धनं भूरिनिधनम्।
बृहच्छोको लोकः सततमबलानर्थबहुला
तथाप्यस्मिन् घोरे पथि बत रता नात्मनि रताः।। [९]
अत्रदं विचित्रमिव प्रतीतिपथमवतरति यत्, कविः समग्रामपि वैदिकीं धारां प्रत्यावर्त्य स्त्रीनिन्दां विशेषतो वर्ण्यतां नयति । प्रव्रज्याशरण एवासौ दृश्यते गार्हस्थ्य-विनिन्दकः । नेदं खलु उपनिषदपि समर्थयति ।
सम्मोहयन्ति मदयन्ति विडम्बयन्ति
निर्भर्त्सयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामृनयना न समाचरन्ति।।[१०]
इत्यहो वाराङ्गनामयमिव पश्यति कविरङ्गनालोकमखिलम् । सम्मोहनं नारीणां वैशिष्ट्यं येन वशीकृतः पुमान् गार्हस्थ्यप्रमोदामृत-कुल्यां मन्यमानः सन्तानतन्तुमविच्छिन्नां तनोति । कृष्णमिश्रदृशा तु बौद्ध-वैराग्यमेव जयति इति स्ववचोव्याघात इवापद्यते -
मुक्ताहारलता रणन्मणिमया हैमास्तुलाकोटयो
रागः कुंकुमसम्भवः सुरभयः पौष्पा विचित्राः स्रजः।
वासश्चित्रदुकूलमल्पमतिभिर्नार्यामहो कल्पितं
बाह्यान्तः परिपश्यतां तु निरयो नारीति नाम्ना कृतः॥[११]
आस्तां तावत्। वीररसोचितां संघटनां योजयन् कृष्णमिश्रः स्तुतिमर्हत्येव -
उद्धूत-पांसुपटलानुनितप्रबन्ध-धावत्खुराचयचुम्बितभूमिभागाः।
निर्मथ्यमानजलधिध्वनिघोरह्रेषमेते रथं गगनसीम्नि वहन्ति वाहाः॥[१२]
अस्त्यत्र कश्चिद् वाग्विशेष आवर्जयन् सहृदयानां हृदयानि युद्धोद्योगवर्णनेऽतितरां रमयति -
सज्ज्यन्तां कुम्भभित्तिच्युतमदमदिरामत्तभृङ्गाः करीन्द्रा
युज्यन्तां स्यन्दनेषु प्रसभजितमरुच्चण्डवेगास्तुरङ्गाः।
कुन्तैर्नीलोत्पलानां वनमिव ककुभान्तराले सृजन्तः
पादाताः सञ्चरन्तु प्रसभमसिलसत्पाणयोऽप्यश्ववाराः॥[१३]
गौडीयां रीतिं निर्वोढुं न तावत् तथा प्रौढिमानं भजति कविर्यथा वैदर्भीमिति निर्विवादम् । यथा -
अन्धीकरोमि भुवनं, बधिरीकरोमि
धीरं, सचेतनमचेतनतां नयामि।
कृत्यं न पश्यति, न येन हितं शृणोति
धीमानघीतमपि न प्रतिसन्दधाति।।[१४]
कामवशत्वं क्रोधवशत्वं वात्र चलच्चित्रमिव सजीवं प्रतिमानिर्माणमिव तन्मयतामादधाति । यथा वा भतृहरिस्वरमनुस्वनन् गायति कविः -
फलं स्वेच्छालभ्यं प्रतिवचनमखेदं क्षितिरुहां
पयः स्थाने-स्थाने शिशिरमधुरं पुण्यसरिताम्।
मृदुस्पर्शा शय्या स ललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः।।[१५]
कृष्णकवेः परिहास-नैपुणी यथोचितं राजते । पाषण्डवितृष्णावसरेषु अस्य कलमः सचित्रं विभाति । तथा हि -
निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते।
स्वपिता यजमानेन तत्र कस्मान्न हन्यते ॥[१६]
इति चार्वाकाणां यज्ञनिन्दा निबद्धा । अथ श्राद्धनिन्दा यथा -
मृतानामपि जन्तूनां श्राद्धं चेत् तृप्तिकारणम्।
निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम्।।[१७]
व्यास-गिरा निबद्धानि ब्रह्मसूत्राणि प्रति कवेर्महती श्रद्धा वर्णिता -
विपुलपुलनाः कल्लोलिन्यो नितान्तपतज्झरी
मसृणितशिलाः शैलाः सान्द्रद्रुमा वनभूमयः।
यदि शमगिरो वैयासिक्यो बुधैश्च समागमः
क्व पिशितवसामय्यो नार्यस्तया क्व च मन्मथः।।
अत्राप्यसौ नारीं प्रति जुगुप्सा-जम्बालमेव क्षिपति । अपत्यानि वात्सल्यलालितानि च कीटरूपाण्येव दृक्पथमायान्ति वैराग्य-दृप्तमनसः प्रदीप्तनिर्वेदस्य । यथा -
प्रादुर्भवन्ति वपुषः कति वा न कीटा
यानन्यतः खलु तनोरपसारयन्ति।
मोहः स एष जगतो यदपत्यसंज्ञां
तेषां विधाय परिशोषयति स्वदेहम्।।[१८]
युगपदेव क्रोध-विभीषणस्य क्षमावीरस्य च वर्णनं सर्वथा मनोहरं प्रतिभाति । यथा -
क्रोधान्धकार - विकट - भ्रुकुटी-तरङ्गभीमस्य साध्य किरणारुण-रौद्रदृष्टेः।
निष्कम्प - निर्मल - गभीर - पयोधि-धीरा वीराः परस्य परिवाद-गिरः सहन्ते।।[१९]
कविदृशा वाता अपि शैवा इव काशीं त्रैलोक्यपावनीं सेवन्ते -
तोयार्द्राः सुरसरितः सिताः परागैरर्चन्तश्च्युतकुसुमैरिवेन्दुमौलिम्।
प्रोद्गीतां मधुपरुतैः स्तुतिं पठन्तो नृत्यन्ति प्रचललताभुजैः समीराः।।[२०]